पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ ततोय हारं चन्द्राभं मुच्य कण्ठात्स राघवः || वैडूर्यतरलं कण्ठे बबन्ध च हनुमतः ॥ २४ ॥ तेनोरसि निबद्धेन हारेण महता कपिः ॥ रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २५ ॥ श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः || प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ २६ ॥ सुग्रीवः स च रोमेण निरन्तरमुरोगतः ॥ विभीषणश्च धर्मात्मा सर्वे ते वाष्पविक्लवाः ॥ २७ ॥ सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः || संमूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ २८ ॥ कृतप्रसादास्तेनैवं राघवेण महात्मना || जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ २९ ॥ ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ॥ वियोगजाश्रुप्रतिपूर्णलोचना: प्रतिप्रयातास्तु यथा निवासिनः ॥ ३० ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ रामेण कुबेरंप्रतिप्रेषितेनपुष्पक विमानेन पुनरयोध्यामेत्यान्तरिक्षावस्थानेनाशरीरवाण्या स्वस्यतत्सेवनायकुबेरचोदना. निवेदनपूर्वकं स्वपरिग्रहप्रार्थना ॥ १ ॥ रामेण पुष्पकस्य सबहुमान कार्यकाले संविधान विधानेनेष्टदेशप्रतिप्रेषणम् ॥ २ ॥ विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् || भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ १ ॥ अथापराह्नसमये आतृभिः सह राघवः ॥ शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ॥ २ ॥ सौम्य राम निरीक्षख सौम्येन वदनेन माम् || कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ३ ॥ तरलो हारमध्यगो मणिः ||२४|| हेमशैलेन्द्रः मेरुः । चन्द्रेण चन्द्रकिरणैः । आक्रान्तमस्तक : आक्रान्त- कर्णप्रदेश इत्यर्थः ॥ २५-२६ ॥ निरन्तरं उरोगत इति । गाढपरिष्वक्त इत्यर्थः ॥ २७ ॥ विचेतसः प्रमुमोद सुखं सुखी । स्वतः सुखी रामः आश्रि - वियोगखिन्नचेतसः ॥ २८ ॥ देहं त्यजन् देहीव तदुःखनिवृत्त्या सुखं प्रमुमोद । अविच्छिन्नप्रमो- रामवियोगखिन्ना इत्यर्थः । युद्धकाण्डान्ते वानरादीनां दमगमदित्यर्थः । अत्र प्रमुमोदेति दकारो गायत्र्यक्षरं विसर्जनोक्ति: काण्डसमापनायात्रैव विसर्जनं तत्रो- | ॥ १ ॥ अन्तरिक्षात्मभाषितां अन्तरिक्षगतेनोक्तां । तमिति मन्तव्यम् ॥ २९ - ३० ॥ इति श्रीगोवि- पुष्पकाभिमानिदेवतयोक्तामित्यर्थः । अन्तरिक्षाद्विनि न्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा ख्याने उत्तरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥ आपत्सु आपत्काल एव पात्रतां । आयाति प्राप्नोति । यतोतइत्यर्थः ॥ २३ ॥ ति० हेमशैलेन्द्रोमेरुः चन्द्रेणाक्रान्तमस्तकः तादृशः पर्वतोयथा आमूलशिखरंतत्किरणैर्व्याप्तोभवति तथा हनूमांस्तद्रत्नकिरणव्याप्तोजातइत्यर्थः ॥ २४ ॥ ति० ब्राष्पकला: कण्ठस्यबाष्प रुद्धत्वेनाव्यक्तभाषिणः । ततएव दुःखातिशयेनसाश्रुनेत्राः । विचेतसः शून्यमनसः । अतः संमूढाइवमूच्छिताइववभू- बुरितिशेषः ॥ २८ ॥ ति० देहंत्यजन्देहीव रामवियोगखिन्नाअभूवन्नितिशेषः ॥ शरीरात्माभिमानिनांदेहत्यागेनेव । तेषां राम- विश्लेषण खेदोऽभूदित्यर्थः ॥ २९ ॥ इतिचत्वारिंशः सर्गः ॥ ४० ॥ स० विसृज्य ग्रामंप्रत्याज्ञांदत्वा ॥ शि० ऋक्षादीन्विसृज्यप्रमुमोद ऋक्षादयःस्व स्वगृहेस्वस्खदाराद्यवायासुखंभोक्ष्यन्तइति बुद्ध्याप्रमोदंप्रापेत्यर्थः । एतेन रामस्यभक्तसुखसुखित्वंव्यक्तं ॥ १ ॥ ति० अन्तरिक्षात् अन्तरिक्षचरान्निस्सृतामित्यर्थः ॥ २ ॥ ति० पुष्पकंविद्धि पुष्पकाधिष्ठातृदेवतायाअयंवादः ॥ स० सौम्येनवदनेन अक्रूरताप्रदर्शकेन ॥ शि० सौम्ये उपलक्षितस्त्वंमांनिरीक्षख ॥ ३ ॥ [ पा० ] १ क-घ. हेमशैलेवचन्द्रेणा. च. छ. काञ्चनःशैलश्चन्द्रेणा. २ क. ख. च. छ. ज. रामेणपरिष्वक्तोमहाबलः ३ ङ. झ. न. ट. मन्तरिक्षान्महाप्रभुः च छ मन्तरिक्षगतांप्रभुः ४ क – घ. ज. कैलासशिखरात्प्राप्तं.