पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । लङ्कां प्रशाधि धर्मेण धर्मज्ञ॒स्त्वं मतो मम || पुरस्य राक्षसानां च स्वभ्रातुः संमतो ह्यसि ॥ ९ ॥ मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन || बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। १० ।। अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ॥ स्पर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥११॥ रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः || साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनःपुनः ॥ १२ ॥ तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ॥ माधुर्य परमं राम स्वयंभोरिव नित्यदा ॥ १३ ॥ तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ॥ हनूमान्प्रवणो भूत्वा राघवं वाक्यमत्रवीत् ॥ १४ ॥ स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ॥ भक्तिच नियता वीर भावो नान्यत्र गच्छतु ॥१५॥ यावद्रामकथा वीर चरिष्यति महीतले ॥ तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ १६ ॥ यच्चैतच्चरितं दिव्यं केथां ते रघुनन्दन || तन्ममाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ १७॥ तच्छ्रुत्वाऽहं ततो वीर तव चर्यामृतं प्रभो ॥ उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ १८॥ एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् || उत्थाय सखजे स्नेहाद्वाक्यमेतदुवाच ह ॥ १९ ॥ एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ॥ चरिष्यति कथा यावदेषा लोके च मामिका || तावत्ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ॥ २० ॥ लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ २१ ॥ एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ॥ [ शेषस्यहोपकाराणां भवाम ऋणिनो वयम् ॥ २२ ॥ मदङ्गे जीर्णतां यातु यत्त्वयोपकृतं कपे ] ॥ नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥ २३ ॥ पुरस्य पुरवर्तिप्राणिनां राक्षसादीनां स्वभ्रातुर्वैश्रवणस्य | || १३ – १४ ॥ स्नेहः सुहृदि प्रीतिः । भक्तिः उत्कृष्टे च संमतो ह्यसि परमाप्तोसि । भ्रातुर्वैश्रवणस्य चेति प्रीतिः ॥ १५ ॥ तावच्छरीरे वत्स्यन्ति त्वत्कथामृ पाठे संमतोसीति शेषः ॥ ९ ॥ ध्रुवं शाश्वतं तरसास्वादबलादिति भावः ।। १६–२० ।। एवं ॥ १०–१२ ॥ अद्भुतं वीर्य जगदद्भुतकरं शौर्य शब्दार्थविवृणोति - लोका हीति ॥ २१–२३ ॥ स० नकेवलंधर्मइतिमममतः । किंतु पुरस्य लङ्कास्थजनस्य सर्वराक्षसानांभ्रातुर्वैश्रवणस्यच मतः ॥ ९ ॥ ति० ध्रुवं चिरकालं ॥ स० बुद्धिमन्तः धर्मबुद्धिमन्तः ॥ १० ॥ ति० अहंचेति । अनेनरावणवत्क्रूरबुद्धिः कदापिनकार्या । तथासति सुग्रीवादयो रावणमिवत्वामपिनाशयिष्यन्तीतिव्यङ्ग्यं ॥ ११ ॥ ति० अद्भुतं जगदाश्चर्यभूतं । स्वयंभोरिवानन्तकल्याणगुणस्यभगवतो ब्रह्मणइव ॥ स० माधुर्ये वायाधुर्यमपितथा ॥ १३ ॥ ति० नित्यदा सर्वकाले । स्नेहोनाम प्रियायांप्रियस्येवसदास्मृतिहेतुः । भक्तिर्नाम परलोकगतित्वेनोपास्यत्वबुद्धिः । नित्यदेत्यनेन जलंविनामत्स्यस्येवक्षणमपितंविना जीवितुमशक्यत्वंसूचितं । अन्यत्र भावोमागच्छतु विषयान्तरइत्यर्थः ॥ १५ ॥ ति० तावद्वत्स्यन्ति त्वत्कथाश्रवणपरमामृतास्वादनवलादितिभावः । नतुतदुत्तर- मित्याशयः । वत्स्यन्त्वितिपाठे वसन्त्वित्यर्थः । आर्षःस्यः । एतेनमुक्तिमप्यनादृत्यत्वत्कथामृतपानमेवाकाङ्कित मितिदर्शित ॥ १६ ॥ ति० ते तवकथारूपं देतद्दिव्य चरितं तदित्यन्वयः ॥ १७ ॥ ति० उत्कण्ठांत्वदर्शनविषयां । स० उत्कण्ठां कुतूहलं | त्वद्दर्शनकुतूहलंवत्कथाश्रवणेनैवहरिष्यामि । एतेन त्वद्दर्शनापेक्षयात्वत्कथाश्रवणमेववरं । तत्रमानसिकदर्शनस्यापिसिद्धत्वात् । अन्यत्रमाहात्म्यश्रवणस्याभावादितिभावः ॥ १८ ॥ ति० एवमेतदित्येवंशब्दार्थश्च रिष्यति कथेत्यादि ॥ २० ॥ ति० एवं चहनूमते भगवताऽऽकारनित्यत्वंकल्पस्थायित्वरूपंदत्तमित्याभाति ॥ २१ ॥ ति० उपकाराणांमध्येशेषस्येत्यर्थः । स० हे कपे हनुमन् । ते त्वत्कृतानामुपकाराणांमध्ये एकैकस्योपकारस्य अहंप्राणान् ते तुभ्यं । दास्यामि । शेषस्यऋणिनोभवामः ॥ बहुवच- नंमद्वंशपरंपरयापिप्रत्युपकारोनैवभवतीतिसूचनाय ॥ २२ ॥ ति० प्रत्युपकाराणांपात्रतांनर आपत्स्वायातीत्यनेन प्रत्युपकारा.. थिंनउपकृतावापत्प्रार्थनाभवति । सामेकदापिमाभूदितिष्यङ्ग्यं ॥ स० कुतस्तथाप्रार्थनमित्यत आह - नरइति । नरः उपकारी । ७ घट, [ पा० ] १ क. ख. ङ–न. राक्षसानांचातुर्वैश्रवणस्यच. २ क. धर्मज्ञाः खलुराजानो. ३ ख. रामत्वयिसत्यं प्रतिष्ठितं. ४ च. छ. स्थास्यन्ति ङ. ज - ट. वत्स्यन्तु. ५ ङ. च. झ. ज. ट. कथाते. ६ ङ. झ ञ ट रामश्रावये स्थास्यन्ति मेकथाः. ८ इदमर्धद्वयं ङ. च. छ. झ ञ ट पाठेषुदृश्यते.