पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ॥ मांसानि च सुमृष्टानि मूलानि च फलानि च ||२५|| एवं तेषां निवसतां मासः साम्रो ययौ तदा || मुहूर्तमिव ते सर्वे राजभक्त्या च मेनिरे ॥ २६ ॥ रामोपि रेमे तैः सार्धं वानरैः कामरूपिभिः ॥ राक्षसैश्च महावीर्यैऋक्षैश्चैव महाबलैः ॥ २७ ॥ एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् ॥ वानराणां ग्रहृष्टानां राक्षसानां च सर्वशः ||२८|| इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् || रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ रामेण सबहुमानपरिष्वङ्गं सुग्रीव विभीषणादीनां स्वस्वावासंप्रति प्रेषणम् ॥ १ ॥ तथा हनुमत्कण्ठे स्वकण्ठस्थ मुक्ताहा. रापणपूर्वकं वरदानेनेष्टदेशं प्रतिप्रेषणम् ॥ २ ॥ तथा स्म तेषां वसतामृक्षवानररक्षसाम् || राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ १॥ गम्यतां सौम्य किष्किन्धां दुराधर्षी सुरासुरैः ॥ पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥ २॥ अङ्गदं च महाबाहो प्रीत्या परमया युतः ॥ पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ३ ॥ सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् || कुमुदं चैव दुर्धर्ष नीलं चैव महाबलम् ॥ ४ ॥ वीरं शतवलिं चैव मैन्द द्विविदमेव च ॥ गंजं गवाक्षं गवयं शरभं च महावलम् ॥ ५ ॥ पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् || केसरि शरभं शुभं शङ्खचूडं महाबलम् ॥ ६ ॥ ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥ पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥७॥ एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनःपुनः ॥ विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ८ ॥ पाठः ।। १५–२५ ।। एवं तेषां निवसतामिति । | ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- आभरणादिभिः सत्कृतानां निवसतां तेषां साम्र: यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्च षदिनाधिक: मासो ॥ २६–२७ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ वसन्तेभिषिक्तेन रामेण मासानन्तरमपि अविशेषस- त्कारं प्राप्तानां तेषां द्वितीय : शैशिरो मास: फाल्गु- नमांसः सुखं गतः । अभिषेकानन्तरं संवत्सरं सुख- मुषितास्त इत्यर्थः ॥ २८ ॥ प्रीतिकरणैः संमानैः तेषामिति भावलक्षणे षष्ठी । तेषु वसत्स्विति यावत् || १ || किष्किन्धां प्रतीति शेषः ॥ २८॥ तिo वसन्तेऽभिषिक्तेनरामेणमासानन्तरंविशेषसत्कारप्राप्तौ शिशिरः शिशिरर्तुसंबन्धीद्वितीयोमासः । सुखंगतइत्युक्त्यासंवत्स रपर्यन्तंतेषांरामसमीपेवासउक्त इतितीर्थादयः । वस्तुतोऽधिकमासगणनयाऽमान्तमानेनाश्विनकृष्णपक्षेऽयोध्याप्रवेशेनतत्रैवतदुत्तर- शुक्लपक्षैवाभिषेकः । साग्रोमास इत्यनेनकार्त्तिकान्तास्थितिरुक्ता | ततः शिशिरोद्वितीयोमासः फाल्गुनोगतइति हेमन्त शिशिरावर्ध- शरच्चतत्रवासइतिपञ्चमासपर्यन्तंतत्रवासइतिलभ्यते इतिममभाति । पूर्वकाण्डान्तसंक्षेपेणोक्तस्यैवार्थस्यात्रकाण्डे विस्तरेणोक्तिरिति बोध्यम् ॥ एवंतेषामितिभरताद्यानीतरत्न विशेषैर्विशेषसत्कारप्राप्तिपर्यन्तं निवसतांतेषांसाग्राः पञ्चषड्डिनाधिकामासागताः ॥ स० मासश्चात्रनिषेकमारभ्य । किंतुसर्वराज निर्गमानन्तर मितिध्येयं || स्कान्देरामोपाख्याने रामाभिषेकानन्तरंसंवत्सरपर्यन्तं वासस्यो वात् । अत्रयद्वक्तव्यंतदुक्तंपुरस्तात् ॥ २६ ॥ ति० प्रीतिकरणैः संमाननैः ॥ २९ ॥ इत्येकोनचत्वारिंशः सर्गः ॥ ३९ ॥ ति० वसतांतेषामिति निर्धारणेषष्ठी ॥ १ ॥ - [पा० ] १ इ. च. झ. न. ट. ऋक्षराजंचदुर्धर्ष जांबवन्तंमहाबलं. २ ङ. च. झ ञ ट ऋषभंचसुविकान्तंप्लवंगंचसुपाटलं. ३ इदमधे ड: च. स. न. ट. पाठेषुदृश्यते ..