पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । भरतेन वयं पश्चात्समानीता निरर्थकम् || हता हि राक्षसाः क्षिप्रं प्रार्थिवैः स्युर्न संशयः ॥ ४ ॥ रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ॥ सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥ एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ॥ कथयन्तः स्वराज्यानि जग्मुर्हर्पसमन्विताः ॥ ६ ॥ स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ॥ समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥७॥ यथापुराणि ते गत्वा रत्नानि विविधान्यथ || रामस्य प्रियकामार्थमुपहारान्नृपा ददुः ॥ ८ ॥ अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ॥ चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥९॥ मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ॥ अजाविकांश्च विविधान्रथांस्तु विविधान्ददुः ॥१०॥ भरतो लक्ष्मणश्चैव शत्रुनश्च महाबलाः ॥ आदाय तानि रत्नानि खां पुरीं पुनरागताः ॥ ११ ॥ आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ॥ तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ १२ ॥ प्रतिगृह्य च तत्सर्वे रामः प्रीतिसमन्वितः ॥ सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥ विभीषणाय च ददौ तथाऽन्येभ्योपि राघवः ॥ राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ||१४|| ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः || शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ १५ ॥ हनुमन्तं च नृपतिरिक्ष्वाकूणां महारथः ॥ अङ्गदं च महावाहुमङ्कमारोग्य वीर्यवान् ॥ राम: कमलपत्राक्ष: सुग्रीवमिदमत्रवीत् ॥ १६ ॥ अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ॥ सुग्रीव मन्त्रिते युक्तौ ममापि च हिते रतौ ॥ अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १७ ॥ न्च इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ॥ स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १८ ॥ आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ॥ नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ १९ ॥ सुषेणं पनसं वीरं मैन्दं द्विविदमेव च || जांबवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ २० ॥ वलीमुखं प्रजङ्गं च सन्नादं च महाबलम् || दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ २१ ॥ मधुरं लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ॥ सुहृदो मे भवन्तव शरीरं भ्रातरस्तथा ॥ २२ ॥ युष्माभिरुद्धृत थाहं व्यसनात्काननौकसः ॥ धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ २३ ॥ एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ॥ वज्राणि च महार्हाणि सखजे च नरर्षभः ॥ २४ वध्यधातुकसंबन्धः षष्ठ्यर्थ: । रामं रावणमिति पाठे | यथाप्राप्तस्वस्वपुराणि । उपहारान् प्रत्युपहारान् ॥८ युद्धे रामं रावणं च युद्ध्यमानौ रामरावणावित्यर्थः –९ ॥ अजाविकान् चर्ममयान् । तल्पविशेषानि - ॥ ३ ॥ पश्चात् रावणवधानन्तरं ॥४ - ६॥ मुख्या- त्यर्थः । अजाविकं च विविधमिति वा पाठः ॥ १० नीति । प्रसिद्धानीत्यर्थ: । धनं जीविकाजीवरूपं । --१४ ॥ शिरोभिरिति । मुकुटकुण्डलादीनीति भावः। वसुमन्ति महानिधिमन्ति ॥ ७ ॥ यथापुराणि बाहुभिरिति । अङ्गदादीनीत्यर्थः । भुजेषु चेति रावयतीति भोसीतेक्वासीतितथातं । नपश्यामः । पुरतः रामपुरतःस्थितं । नालोकितवन्तः समरदर्शन दैवहीनाइतिभावः ॥ ३ ॥ स० भरतेनेति । तदैवदैववशाद्गमने रामरावणसंमददर्शनमिव राक्षससंक्षयः सुघटः कर्तुमस्माभिरितिवदन्तः । हताइति । य पूर्वेसमानीतावयं तर्हिपार्थिवैरस्माभिरेवराक्षसानिहताःस्युरित्यन्वयः ॥ ४ ॥ ति० उक्तानिखराज्यान्यनूय विशिष्टि–खानी त्यादि | स० मुदितानि जनद्वारा । धनं स्वर्णादिधातुः | वसु रत्नांदि । 'वसुरत्नेस्मृतं ' इतिविश्वः ॥ ७ ॥ ति० यथापुराण यथापूर्वमक्षतशरीरतयापुराणिगत्वा प्रियकामार्थे इष्टकामार्थददुः । आनुयान्त्रिकेभ्यः | भरतलक्ष्मणशत्रुघ्नेभ्यइतिशेषः ॥ ८ ॥ ति० अङ्कमारोप्य । बालाविवेतिशेषः । अनेनभगवतास्वस्य निरतिशयबलवत्त्वेनेश्वरत्वंसूचितं ॥ १६ ॥ ति० मन्त्रि मन्त्रे ॥ १७ ॥ [ पा० ] १ क – घ. ज. ददुःसर्वाणिरत्नानिराघवाय महात्मने. २ क – घ. ज. ददौयेचान्येऋक्षवानराः अत्र हनुमत्प्रमु खावीराराक्षसाश्चमहाबलाः । तेषामपिददौरा मोरत्नवस्त्राण्यनेकशः इतिश्लोकञ्चाधिकोदृश्यते. ३ ङ. च. झ. न.ट. व्यपमुच्याङ्गात्.