पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

My C १३० श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ भवन्तश्व समानीता भरतेन महात्मना ॥ श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। २५ ।। उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ॥ कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥२६॥ प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः || दिव्या त्वं विजयी राम स्वराज्येऽपि प्रतिष्ठितः॥२७॥ दिष्ट्या प्रत्याहता सीता दिव्या शत्रुः पराजितः ॥ एष नः परमः काम एषा नः प्रीतिरुत्तमा ॥२८॥ यवां विजयिनं राम पश्यामो हतशात्रवम् ॥ एतत्त्वय्युपपन्नं च यदमांस्त्वं प्रशंससे ॥ २९ ॥ प्रशंसाई न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ॥ ३० ॥ वर्तामहे महाबाहो प्रीत्याऽत्र महता वृताः ॥ भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ३१ ॥ बाढमित्येव राजानो हर्षेण परमन्विताः ॥ ऊचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ३२ ॥ [ दियो ते कमलवरेक्षणं सुनासं ताम्रोष्ठं मुखमतिशोभि शुक्लदन्तम् ॥ पश्यामो विजयमहाहवेषु नित्यं भ्राजन्तं निशि शरदीव पूर्णचन्द्रम् ॥ ३३ ॥ पूजिताय त्वया राम मानिताच विशेषतः ॥ गमिष्यामो महाराज स्वं स्वं देशं रघूत्तम ॥३४॥] पूँजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्त्रकान् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ रामाभ्यनुज्ञानेनस्वस्व नगरगतैस्तैस्तैराजभिः स्वस्वानुगतभरतलक्ष्मणशत्रुघ्नद्वारा श्रीरामाय नानारखादिरूपोपायनप्रत्य- र्पणम् ॥ १ ॥ रामेण सुग्रीवविभीषणः दिभ्यस्तवलदानम् ॥ २ ॥ रामेण सादरोपचारलालितैः सुग्रीवविभीषणादिभिरयो- ध्यायामेकं वत्सरं सुखनिवासः ॥ ३ ॥ ते प्रयाता महात्मानः पौर्थिवास्ते प्रहृष्टवत् ॥ गजवाजिसहस्रौषैः कम्पयन्तो वसुंधराम् ॥ १ ॥ अक्षौहिण्यो हि तत्रासत्राघवार्थे समुद्यताः || भरतस्याज्ञयाऽनेका : प्रहृष्टा बलवाहनाः ॥ २ ॥ ऊचुस्ते च महीपाला बलदर्पसमन्विताः ॥ न रामरावणं युद्धे पश्यामः पुरतः स्थितम् || 11 च नियतं ॥ २२ – २४ ॥ भवन्तञ्च समानीता: | यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने संमिलिताः ॥ २५–२७ || हृतशात्रवं हतशत्रु अष्टत्रिंशः सर्गः ॥ ३८ ॥ ॥ २८-३१ । बाढमित्येवेति || रामेणोक्ता इति शेषः । गमिष्याम इत्यूचुरिति पूर्वेणान्वयः ॥ ३२ प्रहृष्टवत् प्रहृष्टाः सन्तः ॥ १ ॥ राघवार्थ इति । – ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- | रामसहायार्थमित्यर्थः ॥२॥ रामरावणं रामस्य रावणं । ति० हतशात्रवं हतशत्रुसमूहं ॥ एतत्त्वय्युपपन्नं सकललोकमनोरमणत्वादितिभावः ॥ २९ ॥ ति० प्रशंसाई सकललोकप्रशंसाई - स्वभावयुक्त । ईदृर्शी भवदुक्तप्रशंसाजातीयांप्रशंसांवक्तनजानीमः । अतस्तामकृत्वैव | यथासदाभवान्नोहृदिस्थः । एवंवयमपित्व- द्विषययामहत्याप्रीत्यावृतास्तवहृदियथावर्तामहे तथाअस्मासुतेप्रीतिश्च भवेत् भूयात् । शि० हृदिस्यः सदाभववितिशेषः ।। ३०- ३१ ॥ द्वेषेणहृदयस्थतामाभूदित्येतदुक्तिर्बाढमित्येवेति । रामेणोक्ताइतिशेषः ॥ ३२ ॥ ति० पूजितास्तेचेत्यादिनावृत्तक्रियानुवादः ।। ३५ ॥ इत्यष्टत्रिंशः सर्गः ॥ ३८ ॥ ति० रामरावणमिति रामशत्रुंरावणमित्यर्थः | मध्यमपदलोपीसमासः || स० रामरावणं राममपिकिंचित्कालंलोकदृष्ट्या- [ पा० ] १ क – घ• महतान्विताः २ इदंश्लोकद्वयं च. छ. पाठयोर्दृश्यते. ३ क. ख. ग. च. छ. पूजितास्सह. ४ क. ख. च. छ. पार्थिवास्सर्वतोदिशः । कंपयन्तोमहींवीराःखपुराणिप्रहृष्टवत्. ५ क – घ. ज. अक्षौहिणीसहस्रैस्तेसमुयुक्तास्त्वने- कशः । हृष्टाःप्रतिगताः सर्वैराघवार्थेसमागताः.