पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ३८ ] श्रीमद्गोविन्दराजीयेव्याख्यासमलंकृतम् । १२९ एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ॥ प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ८ ॥ ततः प्रयाते जनके केकयं मातुलं प्रभुः ॥ राघवः प्राञ्जलिर्भूत्वां वाक्यमेतदुवाच ह ॥ ९ ॥ इदं राज्यमहं चैव भरतश्च सलक्ष्मणः || आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ १० ॥ राजाऽपि वृद्ध: संतापं त्वदर्थमुपयास्यति || तसागमनमद्यैव रोचते तव पार्थिव ॥ ११ ॥ लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते || धनमादाय विपुलं रत्नानि विविधानि च ॥ १२ ॥ युधाजित्तु तथेत्याह गमनं प्रति राघवम् || रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। १३ ।। प्रदक्षिणं स राजानं कृत्वा केकवर्धनः ॥ रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ १४ ॥ लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः || हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ १५ ॥ तं विसृज्य ततो रामो वयस्यमकुतोभयम् || प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ १६ ॥ दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् | उद्योगच कृतो राजन्भरतेन त्वया सह ॥ १७ ॥ तद्भवानद्य काशेय पुरीं वाराणसीं व्रज | रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ १८ ॥ एतावदुक्त्वा चोत्थाय काकुत्स्थ: परमासनात् || पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ विसर्जयामास तदा कौसल्यानन्दवर्धनः ॥ १९ ॥ राघवेणाभ्यनुज्ञातः काशीशोप्यकुतोभयः ॥ वाराणसीं ययौ तूर्ण राघवेण विसर्जितः ॥ २० ॥ विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् || प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ २१ ॥ भवतां प्रीतिरव्यँग्रा तेजसा परिरक्षिता || धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ २२ ॥ युष्माकं चानुभावेन तेजसा च महात्मनाम् || हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ २३ ॥ हेतुमात्रमहं तत्र भवतां तेजसा हतः ॥ रावणः सगणो युद्धे सपुत्रामात्यवान्धवः ॥ २४ ॥ तिदानार्थं ।। ७–८ ।। केकयं मातुलमिति युधाजि - | लक्ष्मणमनुयात्रार्थं विसृज्येत्यर्थः ॥ १५–१६ ॥ तमित्यर्थः ॥ ९ ॥ आयत्ताः । त्वयीति शेषः । यस्मात्त्वया भरतेन सह मम रणसहायार्थमुंद्योगः गति: आपद्वन्धुरित्यर्थः ॥ १० ॥ राजा केकयः कृतः । यस्माद्भवता परमा प्रीतिर्दर्शिता परं सौहार्द ॥ ११ ॥ अनुयात्रेण अनुयात्रोपचाररूपेण अनुया- च दर्शितं । अनेनानुवादेन रावणसंहारार्थ काशीरा- त्रानुरूपोपचारार्थ । अनुगमिष्यते । भवानिति जेन संगत मिति सिद्धम् ॥ १७ ॥ काशेय काशीदेशे शेषः । लक्ष्मणस्त्वनुयात्रार्थे पृष्ठतोनुगमिष्यतीति- भव | ढरभाव आर्षः ॥ १८ ॥ उरोगतं यथा भवति पाठः ।। १२-१३ ।। रामेण पूर्वमभिवाद्य प्रदक्षिणं तथा निरन्तरं गाढं पर्यध्वजत ॥ १९-२० ।। कृतः केकयवर्धनः राजानं रामं प्रदक्षिणीकृत्य प्रयातः । प्रहसन्निति | त्रिशतसंख्याकपृथिवीपतिदर्शनजसंतो- रामस्य मूर्धाभिषिक्तत्वाज्येष्ठेन मातुलेनापि रामं प्रति षात्प्रहासः ॥ २१ ॥ भवतां तेजसा अव्यग्रा प्रतिष्ठिता प्रदक्षिणादिकरणं ॥ १४ ॥ वृत्रे हते सति विष्णुना प्रीति : वनाय निर्गतस्य मे पुनश्चागत्यानुभवयोग्यतया उपेन्द्रेण सह स्थितो वासवः यथा विसृजति तथा | परिरक्षिता । भवतां तेजसा धर्मश्च नियतः । सत्यं ति० अनुगमिष्यते भवानितिशेषः ॥ १२ ॥ ति० भवतापरमाप्रीतिर्दर्शिता परमसौहृदंचदर्शितं । एवमनुवादादेवोद्योगकरणं गम्यते ॥ १७ ॥ भवान्पुरीं व्रजव्रजतु ॥ १८ ॥ ति० तदा ततइत्यर्थः ॥ १९ ॥ ति० परिरक्षिता मद्गुणमालोच्यनभवतांम- यिप्रीतिः । किंतुस्वीयसत्स्वभावेनैवेत्याशयः ॥ २२ ॥ [ पा० ] १ च. छ. झ ञ ठ. र्भूला विनयाद्वाक्यमब्रवीत्. २ क – घ. ज. आयत्तंत्वयिनोनाथगतिश्च ३ क. घ – छ. झ. न. सुप्राकारां. ४ ख. रव्यग्राभवतापालितावयं. वा. रा. २५७ 1