पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२७ स तु तद्राक्षसं जन्म तस्मान्मानुपजन्मनः ॥ भाविनीं निधनप्राप्तिं पश्यन्दिव्येन चक्षुषा ॥ ८८ ॥ श्रीवत्साङ्कं तदङ्कस्थः ग्राह दैत्यः शनैरिदम् ॥ नखैर्विभिन्नहृदयः क्षणं दीनः कृताञ्जलिः ॥ ८९ ॥ तप्तहाटक केशान्त ज्वलत्पावकलोचन || वज्रायुधनखस्पर्श दिव्यसिंह नमोस्तु ते ॥ ९० ॥ कैटभारे हरे देव विष्णो विपुलविक्रम ॥ त्राहि मां भूतभव्येश शरणागतवत्सल ॥ ९९ ॥ त्वद्धते राक्षसे भावे मानुषे च पदे विभो ॥ प्राप्नुयां त्वन्मयो लोकं लोकनाथ प्रसीद मे ॥ ९२ ॥ एवमुक्तस्तथेत्युक्त्वा ययौ दैत्यपति हरिः || हंसयुक्त विमानेन किङ्किणीजालमालिना ॥ ९३ ॥ स एव च पुनस्तत्र राक्षसोऽभून्महासुरः || राक्षसेन विधानेन सदा तद्भावभावितः ॥ ९४ ॥ मानुषत्वमुपागम्य लोकान्हन्तुं कृतोद्यमम् ॥ तृतीयं च हतं तेन श्वेतद्वीपं प्रवेक्ष्यति ॥ ९५ ॥ वैष्णवं तेज आविश्य यथोक्तं ब्रह्मवादिना ॥ मयाऽपि चेहसंस्थेन दृष्टमेवाक्षदर्शनात् ।। ९६ ।। मयाज्वलम्बितं सर्वे देवस्य परमात्मनः ॥ यस्त्विदं पठते नित्यं पुण्यमाख्यानमादितः ॥ ९७ ॥ नारदोक्तं मनुष्यो वै स याति परमां गतिम् ॥ वैष्णवं परमाख्यानं सर्वपापप्रणाशनम् ॥ ९८ ॥ नित्यं च शृणुयाद्यश्च सोपि पापात्प्रमुच्यते || जातिसरत्वं विप्रत्वं कुले महति संभवम् || सर्वज्ञतां च लभते नात्र कार्या विचारणा ॥ ९९ ॥ स च संस्तूय च हरिं प्रविष्टः कमलोद्भवः ॥ अनुभाव्य सुरान्सर्वान्ययौ स्वं लोकमीश्वरः ॥१००॥ नारदस्तु ततस्तस्मान्मेरुपृष्ठं परिभ्रमन् || स तु मामाजगामाशु दिदृक्षुर्द्वादशात्मकम् ।। १०१ ॥ स मया शास्त्रतः सम्यगभिवाद्याभिपूजितः ॥ आख्यानमिदमाचष्ट ममानुग्रहकाम्यया ॥ १०२ ।। मयाप्येतत्सदस्येय पावनार्थी मनोहरम् || भक्त्या तव महाबाहो कथामृतमुदाहृतम् ॥ १०३ ॥ एतदर्थ महाबाहो रावणेन दुरात्मना || विज्ञाय च हृता सीता त्वत्तो मरणकाङ्क्षया ॥ १०४ ॥ भवान्नारायणो देवः शङ्खचक्रगदाधरः || शार्ङ्गपद्मायुधधरः सर्वदेवनमस्कृतः ॥ १०५ ॥ श्रीवत्साङ्को हृषीकेशः सर्वदेवाभिपूजितः ॥ पद्मनाभो महायोगी भक्तानामभयप्रदः ॥ १०६ ॥ बधार्थ रावणस्य त्वं प्रविष्टो मानुषीं तनुम् ॥ किं न वेत्सि त्वमात्मानं राम नारायणो ह्यहम् ॥१०७ मा मुह्यस्व महाभाग सर चात्मानमात्मना ॥ गुह्याद्गुह्यतरस्त्वं हि एवमाह पितामहः ॥ १०८ ॥ त्रिगुणश्च त्रिवेदी च त्रिधामा त्रिपदात्मकः || त्रिकालकर्मा त्रैविद्यस्त्रिदशारिप्रमर्दनः ।। १०९ ।। त्वयाऽऽक्रान्तास्त्रयो लोकाः पुराणैर्विक्र मैत्रिभिः ॥ त्वं महेन्द्रानुजः श्रीमान्वलिवन्धन कारणात् ११० अदित्या गर्भसंभूतो विष्णुस्त्वं हि सनातनः || लोकाननुग्रहीतुं वै प्रविष्टो मानुषीं तनुम् ॥१११॥ तदिदं साधितं कार्य सुराणां सुरसत्तम ॥ निहतो रावणः पापः सपुत्रगणवान्धवः ॥ ११२ || प्रहृष्टाथ सुराः सर्वे ऋषयश्च तपोधनाः ॥ प्रशान्तं च जगत्सर्वं त्वत्प्रसादात्सुरेश्वर |॥ ११३ ॥ एतदर्थे हरिहस्तहतस्यमोक्षोभवतीतिमुनिप्रोक्तं ॥ १०४ ॥ नारायणकृतमारणस्यमुक्तिहेतुत्वेमद्धस्तहननमुद्दिश्य मद्भार्याचौर्येत स्य कुतइत्यतःसएवत्वमितितत्व माह — भवानिति । शार्मेणसहपद्मग्रहणाद्विनायुर्धरिपुपराभावनसामर्थ्यसूचयति ॥ १०५ ॥ यथा येनप्रकारेण । नारायणोऽहमित्यात्मानंनवेत्सिकिं ॥ १०७ ॥ मामुह्यस्व नमोहंप्राप्नुहि । उपदेशक्रमाप्तमिदमित्याह – पिता- महइति ॥ १०८ ॥ त्रिगुणः सत्त्वरजस्तमः प्रवर्तकः । त्रिवेदी ऋगादिवेद्यः । त्रिधामा वैकुण्ठादिधामत्रयवान् । त्रिचरागम : त्रीनर्थान् चरति चारयति अवगमयतिसत्रिचरः | सआगमोवेदः । सयेनव्यासादिरूपेणसः । व्यर्थतांश्रुतिषुवित्त ' इत्यादेः । त्रिकालकर्मन् कालत्रयविहितकर्मकर्त: । त्रैविय तत्प्राप्य ॥ १०९ ॥ पुराणैः त्रिभिर्विक्रमैः आदिकालिंकपादविक्षेपैः ॥ ११० ॥ [ पा० ] १ झ ठ. यथानारायणोय. २ झ ठ. त्रिचरागमः | त्रिकालकमै स्त्रै विद्यत्रिदशा. "