पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ यं समाश्रित्य विबुधा विधिना हरिमध्वरे || पिबन्ति चामृतं हृष्टाः परिभूय दितेः सुतान् ॥५६॥ यस्य श्वासानिलोद्भूताः स्त्रियस्त्वामपराजितम् || गृहीत्वा सुमहावेगाश्चिक्षिपुः सागराम्भसि ॥५७॥ येन दैत्या महावीर्या दानवाश्च सनैऋताः ॥ निहता बहुरूपेण बहवो बाहुशालिना ॥ ५८ ॥ तेनायं लोकनाथेन कल्पितः सुमहात्मना || गोविन्देन निवासार्थं लोको वै सुमहात्मना ॥ ५९ ॥ अर्चयन्ति जगन्नाथं नारायणपरायणाः ॥ अद्वेषाः सर्वभूतेषु महायोगवलाश्रयाः ॥ ६० ॥ यजन्ति पञ्चभिर्यज्ञैः सततं मधुसूदनम् ॥ एकान्तिनो महासत्वा वसन्ति सुसमाहिताः ॥ ६१ ॥ यः पुराणे च वेदे च पाञ्चरात्रे च पठ्यते || सांख्ययोगे च मुनिभिर्ध्याय ते चैज्यते च यः ॥६२॥ मुनिभिर्देवसङ्घैश्च स्थाप्यते भगवान्हरिः || मधुकैटभयोर्हन्ता यस्तमन्वेष्टुमर्हति || ६३ ॥ पितामहोपि तं देवं न च जानाति रावण ॥ ६४ ॥ यस्तु नित्यं विजानाति हरिं नारायणं विभुम् ॥ जगदाभरणं पुण्यं तस्य मोक्षो न संशयः ॥ ६५ ॥ एतच्छ्रुत्वा मुनेर्वाक्यं प्रसन्नेनान्तरात्मना || पुनरेव ततो रक्षः पप्रच्छ मुनिपुङ्गवम् ॥ ६६ ॥ कथं च दृश्यते देव कथं च श्रूयते भुवि ॥ कथं च क्रीडते लोके द्रष्टुं वा शक्यते कथम् ॥ ६७ ॥ कियत्कालेन वा ब्रह्मल्लोकोयं तपसा मया ॥ शक्यः प्रवेष्टुं तब्रूहि सर्वं हि विदितं तव ।। ६८ ।। आकर्ण्य सस्पृहं तस्य वाक्यं वाक्यविशारदः || प्रत्युवाच मुनिर्धीमांस्तत्सर्वमनुपूर्वशः ॥ ६९ ॥ स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ येन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ७० ॥ स भूमौ दिवि पाताले पर्वतेषु वनेषु च ॥ सागरेषु च सर्वेषु वसतीह सरित्सु च ॥ ७१ ॥ अहश्च रात्रिश्च उभे च संध्ये दिवाकरश्चैव यमश्च सोमः ॥ स एव कालो वरुणः स एव स ब्रह्मरुद्रेन्द्रमुखः स चाग्निः ॥ ७२ ॥ ओंकारी भूर्भुवः स्वश्च गायत्री सन्ध्य एव च ॥ धराधरधरो देवः सोनन्त इति विश्रुतः ॥ ७३ ॥ विद्योतति ज्वलति वर्षति वाति पाति गर्जत्युपैति तपते दहते स चैव || लोकान्सृजत्यवति संहरते सदैव दैत्यान्स एव दहते जगति प्रसह्य ॥ ७४ ॥ स न शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः || प्रसादं कुरुते यस्य स वै तं द्रष्टुमर्हति ॥ ७५ ॥ तद्गतैस्तद्गतप्राणैः शुचिभिस्तत्परायणैः || शक्यः प्रवेष्टुं लोकोऽयं ज्ञाननिर्धूत किल्मिषैः ॥ ७६ ॥ एवंविधैरयं लोकः प्राप्यते पुरुषोत्तमैः ॥ अकामकारिभिर्देवैरक्रोधैर्दग्धतामसैः ॥ ७७॥ यश्चैव सुमहाकायः प्रविष्टो लोकमव्ययम् || आस्ते तथैव हरिणा कृता तेन महापुरी ॥ ७८ ॥ अष्टाविंशे युगे प्राप्ते मनोरस्य विवस्वतः ॥ वैष्णवीं मूर्तिमाविश्य लोकमेनं प्रवेक्ष्यसि ॥ ७९ ॥ नातः परतरं श्रोतुं मत्तो वै राक्षसेश्वर || उत्तिष्ठ गच्छ भद्रं ते प्राप्स्य से गतिमीप्सिताम् ॥ ८० ॥ एवमुक्तस्तथेत्युक्त्वा तं प्रणम्यामिपूज्य च ॥ समासाद्य महत्सैन्यं ययौ लङ्कामशङ्कितः ॥ ८१ ॥ नारदोषि प्रहृष्टात्मा दृष्ट्वा सर्वमशेषतः || द्रुतं मेरुमुपागम्य विशते तां शुभां सभाम् ॥ ८२ ॥ तस्यां ब्रह्माणमासीनमभिवाद्य कृताञ्जलिः ॥ देवान्संश्रावयामास समीपे पद्मजन्मनः ॥ ८३ ॥ निशम्य सुमहत्पुण्यमाख्यानं पद्मसंभवः || नारदं संपरिष्वज्य ग्राह भूतभविष्यवित् ॥ ८४ ॥ हिरण्यकशिपुः पूर्वं बभूवैष निशाचरः || अवध्यो बहुभिर्योगैर्वरदानान्महाबलः ॥ ८५ ॥ स कदाचिन्महात्मानं पद्मनाभमधोक्षजम् ॥ सभायां गर्हयन्दनृसिंहवपुषं हरिम् ।। ८६ ।। समुद्य नखैस्तेन दीर्थमाणस्य संयुगे || रक्तसंस्पर्शजं दिव्यं चक्षुदैत्यपतेरभूत् ॥ ८७ ॥