पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२५ एकया सुस्मितं कृत्वा हस्ते गृह्य स रावणः ॥ पृष्टवागमनं ब्रूहि किमर्थमिह चागतः ॥ २९ ॥ को हि त्वं कस्य वा पुत्रः केन वा प्रहितो वद ॥ इत्युक्तो रावणो राजन्क्रुद्धो वचनमब्रवीत् ||३०|| अहं विश्रवसः पुत्रो रावणो नाम राक्षसः ॥ युद्धार्थमिह संप्राप्तो न च पश्यामि कंचन ॥ ३१ ॥ एवं कथयतस्तस्य रावणस्य दुरात्मनः ॥ प्राहसंस्ते ततः सर्वे सस्वनं युवतीजनाः ॥ ३२ ॥ ऍकया क्रुद्धया तासां बॉलवगृह्य लीलया || भ्रमितस्तु सखीमध्ये विक्षिप्तः स दशाननः ॥ ३३ ॥ सखीमन्यां समाहूय पश्य त्वं कीटकं धृतम् || दशासं विंशतिभुजं कृष्णाञ्जनसमप्रभम् ॥ ३४ ॥ हस्ताद्धस्तं स च क्षिप्तो भ्राम्यते अॅमलालसः ॥ ३५ ॥ आम्यमाणेन बलिना राक्षसेन विपश्चिता | पाणावेकाऽथ संदष्टा रोषेण वनिता शुभा ॥ ३६ ॥ मुक्तस्तया शुभः कीटो धुन्वन्त्या हस्तवेदनात् || गृहीत्वाँऽन्या राक्षसेन्द्रमुत्पपात विहायसा ॥३७॥ ततस्तामपि संक्रुद्धो विददार नखैर्भृशम् ॥ तया स हि विनिर्धूतः सहसैव निशाचरः ॥ ३८ ॥ पपात चाम्भसो मध्ये सागरस्य भयातुरः || पर्वतस्येव शिखरं यथा वज्रविदारितम् ॥ ३९ ॥ प्रापतत्साँगरस्यैव जले तस्थौ निपातितः ॥ ४० ॥ एवं स रावणो राम श्वेतद्वीपनिवासिभिः ॥ स्त्रीजनैर्विनिगृह्याशु भ्रामितश्च ततस्ततः ॥ ४१ ॥ नारदोपि महातेजा रावणं वीक्ष्य धर्पितम् || विसयं सुचिरं गत्वा प्रजहास ननर्त च ॥ ४२ ॥ ततः स सागरजलाज्जलक्किन्नशिरोरुहः ॥ दक्षिणं तीरमासाद्य चिन्तयामास विस्मितः ॥ ४३ ॥ ये मया निर्जिता लोका न तेषु भयमीदृशम् || स्वभावतोल्पवीर्याणां विरुद्धं योषितामिदम् ॥४४॥ नूनमेतस्य लोकस्य मानवाः प्रभविष्णवः ॥ स्त्रीरूपविग्रहधरा यान्ममाचष्ट नारदः ॥ ४५ ॥ बलवद्भिस्तु संधेयमिति संचिन्त्य निश्चितम् || भूयस्तासां प्रवृत्त्यर्थं तद्वनं समलोडयत् ।। ४६ ।। अथापश्यन्महात्मानं पितामहसुतं प्रभुम् || सनत्कुमारमासीनं सर्वयोगभृतां वरम् ॥ ४७ ॥ जाज्वल्यमानं तपसा समिद्भिरिव पावकम् || अपश्यदक्षिणे पार्श्वे विचरन्तं गुहाश्रयम् ॥ ४८ ॥ स तं दृष्ट्वा तपोवृद्धमभिवाद्य कृताञ्जलिः ॥ व्रीडितः परिपप्रच्छ ब्रह्मर्षि सत्यवादिनम् ॥ ४९ ॥ भगवन्केन लोकोयं कल्पितः सुमहात्मना || के वा लोके वसन्त्यमिन्सर्वज्ञानवतां वर ॥ ५० ॥ किं च त्वं ध्यायसे ब्रह्मञ्शंस मे सुसमाधिना || एतन्मे ब्रूहि तत्सर्वं सर्वज्ञो ह्यसि विश्रुतः ॥५१॥ एवमुक्तो महातेजा विदित्वा तस्य हृद्गतम् || उवाच वाक्यं ग्रहसञ्श्रूयतामिति पुत्रक ॥ ५२ ॥ - यो हि वै सर्वमेवेदं बिभर्ति सचराचरम् || त्रैलोक्यं सर्वभूतात्मा यस्योत्पत्तिं न विद्महे ॥ ५३ ॥ यमाहुर्वेदविदुषः पुरुषं तमसः परम् ॥ आदित्यरूपमजरं परमात्मानमीश्वरम् ॥ ५४ ॥ यस्य नाभिभवो ब्रह्मा पिता मम पितामहः || कैलासनिलयः श्रीमान्भवश्व क्रोधसंभवः ॥ ५५ ॥ उपलक्षितोदृष्टः ॥ २८ ॥ सरावणः गृह्य गृहीत्वा ॥ २९ ॥ प्रहितः प्रेषितः ॥ ३० ॥ कंचन योद्धारं ॥ ३१ ॥ प्रहसन् प्राहसन् ॥ ३२ ॥ तासांमध्ये एका एकया | मध्ये ग्राहंमाहं | दशाननः सखीमध्येभ्रामितः ॥ ३३ ॥ कीटकं कृमि- विशेषं । धृतंपश्य ॥ ३४ ॥ भ्रमलालसः तत्करस्पर्शोभवतीत्यौत्सुक्यवान् । भ्रमेणशुष्ककण्ठतयातृष्णावानितिवा ॥ लालस- स्तृष्णातिरेकयोः । औत्सुक्येच " इतिविश्वः ॥ ३५ ॥ संदष्टा आत्मानंमोचयितुं ॥ ३६ || हस्तवेदनात्तयाधुन्वन्त्यामुक्तः । रक्षेन्द्रं राक्षश्रेष्ठं ॥ ३७॥ भयातुरः जीवनभयातुरः ॥ ३९ ॥ प्रापतत्प्राक् । तथानिपातितः ॥ ४० ॥ "" [ पा० ] १ ङ. च. छ. झ ञ. गृह्यदशाननः. २ उ. प्रहसंस्ते ३ च. छ. झ ञ तासामेकाततःक्रुद्धाबाल. ४३. गृह्यगृह्यतुलीलया. ५ठ भ्रमलालसः ६ झ. ठ. त्लान्यातुरक्षेन्द्रं ७ तसागरजलेतथा सौविनिपातितः ८ विस्मयंसुचिरंगले. व्यारभ्य एतदर्थमहाबाहोरावणे नदुरात्मनेत्यतः पूर्वविद्यमानाः बहवः श्लोकाः ङ. च. छ. झ, ञ, पाठेषुनदृश्यन्ते.