पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्यां रजन्यां व्युष्टायां प्रांतर्नृपतिबोधकाः ॥ बन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ २ ॥ ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ॥ तुष्टुवुर्नृपति वीरं यथावत्संग्रहर्षिणः || ३ ॥ वीर सौम्य प्रबुध्यस्ख कौसल्याप्रीतिवर्धन ॥ जगद्धि सर्वे स्वपिति त्वयि सुप्ते नराधिप ॥ ४ ॥ विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव || बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ५ ॥ क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः || वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ६ ॥ अप्रकम्प्यो यथा स्थाणुचन्द्रे सौम्यत्वमीदृशम् || नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥७॥ यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ॥ न त्वां जहाति कीर्तिश्च लक्ष्मीच पुरुषर्षभ ॥ ८ ॥ श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ॥ एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥९॥ सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स राघवम् ॥ स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ १० ॥ स तद्विहाय शयनं पॉण्डुराच्छादनास्तृतम् || उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ११ ॥ समुत्थितं महात्मानं प्रहा: प्राञ्जलयो नराः || सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ १२ ॥ कृतोदकशुचिर्भूत्वा काले हुतहुताशनः || देवागारं जगामाशु पुण्यमिक्ष्वाकु सेवितम् ॥ १३ ॥ तत्र देवान्पिन्विप्रानचयित्वा यथाविधि || बाह्यकक्ष्यान्तरं रामो निर्जगाम जनैर्वृतः ॥ १४ ॥ उपतस्थुर्महात्मानो मन्त्रिण: सपुरोहिताः || वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवामयः ॥ १५ ॥ क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः || रामस्योपाविशन्पार्श्वे शत्रस्येव यथाsमराः ॥ १६ ॥ भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः || उपासांचक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ १७ ॥ याँताः प्राञ्जलयो भूत्वा किंकरा मुदिताननाः || मुँदिता नाम पार्श्वस्था बहवः समुपाविशन् ||१८|| वानराश्च महावीर्या विंशतिः कामरूपिणः ॥ सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥ १९ ॥ विभीषणश्च रक्षोभिश्चतुर्भि: परिवारितः || उपासते महात्मानं धनेशमिव गुह्यकाः ॥ २० ॥ तथा निगमवृद्धाश्च कुलीना ये च मानवाः ॥ शिरसा वन्द्य राजानमुपासन्ते विचक्षणाः ॥ २१ ॥ विसृष्टाञ्च | अभिषेक दिनस्य या निशा पौराणां हर्ष- | प्रजापतिसमोसिप्रजापरिपालन इति शेषः ||५-६॥ वर्धिनी पूर्वा प्रथमा निशाऽसीत् सा च व्यतीता अप्रकम्प्य इति ॥ ईदृशाः पार्थिवाः पूर्व नाभूवन्निति ॥ १–३ ।। त्वयि सुप्ते सवै स्वपितीति त्वयि शेषः । न भवितार इति । अग्र इति शेषः ॥७॥ न जहाति मुहूर्ते उत्थाय धर्मानुष्ठानरहिते सति सर्वं जगत्सुप्त- धर्मकं भवति । 66 यथा राजा तथा प्रजा: " इति न त्यजति ॥ ८ - ११ ॥ सलिलं गृहीत्वेति शेषः ॥ १२॥ न्यायादिति भावः ॥ ४ ॥ बृहस्पतेस्तुल्यो बुद्ध्येति | | कृतोदकशुचि: उदकेन कृतशौच इत्यर्थः । देवागारं स० रजन्यां तचतुर्थयामादिभागे । व्युष्टायां उषस्त्वावस्थांगतायां ॥ २ ॥ स० रक्तकण्ठिनः मधुरकण्ठाः | रक्तोमधुरः कण्ठो- येषांते तथा तेसन्त्येषां तेतथा । स्वहस्ताघस्तात्स्थितगायनवन्तः । एवंचनकर्मधारयादित्यायनित्यताभ्युपगमाद्यायासः महत्वं चवन्दिनांलभ्यतइतिज्ञेयम् ॥ ३ ॥ ति० ईदृशंसौम्यत्वं त्वद्वृत्तिसौम्यत्वंचन्द्रे नान्यत्र ॥ ७ ॥ ति० एताश्चान्याश्च । उक्तयइति शेषः ॥ ९ ॥ ति० पाण्डुराच्छादनं उत्तराच्छादनपटः ॥ स० उत्तस्थौ नागशयनाद्यथानारायणो मूलरूपी ॥ ११ ॥ ति० सलिलं गृहीवेतिशेषः ॥ शौचाद्यर्थमितिभावः ॥ १२ ॥ ति० मुदितानाम तन्नामकाः किङ्कराः ॥ १८ ॥ कतक० विंशतिर्वानराः सुग्रीवाङ्गदहनुमज्जांबवत्सुषेणतारनीलनलमैन्दद्विविदकुमुदशरभशतबलिगन्धमादनगजगवाक्षगवयधूम्ररंभ ज्योतिर्मुखाविंशतिः प्रधा नवानराइत्यर्थः ॥ १९ ॥ [ पा० ] १ क. ख. घ. ज. पुनरेवापरेऽहनि. छ. प्रातरेवापरेऽहनि. २ घ. ज. पर्युपातिष्ठन्. ३ क – ज. नृपतिंसुप्तंयथा- कालंप्रहर्षिताः ४ च. छ. पाण्डुराच्छादनंततः ५ च. छ. एतेप्राञ्जलयो ६ च छ मुदिताराम क-घ. भृत्याश्चराम.