पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ॥ गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोस्ति लोके ॥ ४७ ॥ असौ पुनर्व्याकरणं ग्रहीष्यन्त्सूर्योन्मुखः प्रष्टुमनाः कपीन्द्रः ॥ उद्यद्भिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ ४८ ॥ ससूत्रवृत्यर्थपदं महार्थं ससंग्रहं साध्यति वै कपीन्द्रः || न ह्यस्य कश्चित्सहशोस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ ४९ ॥ सर्वासु विद्यासु तपोविधाने प्रस्पर्धते यो हि गुरुं सुराणाम् ॥ सोयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ५० ।। प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य || युगक्षये ह्येव यथाऽन्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ५१ ॥ एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्द द्विविदाः सनीलाः ॥ सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम मुरैर्हि सृष्टाः ॥ ५२ ॥ । ॥ ४६ ॥ पराक्रमेति । सौशील्यं सुस्वभावत्वं । त्रप्रतिपादकग्रन्थः । अर्थपदं वार्तिकं उक्तानुक्तदुरु- माधुर्य वाचः । नयानयौ प्रवृत्तिनिवृत्ती | गाम्भीर्ये क्तिचिन्तानुरूपं । महायै भाग्यं विस्तर विवरणरूपं । चित्तस्य । धैर्ये आपद्यक्षोभः ॥ ४७ || उद्यगिरेः संग्रहं प्रकरणादि । साध्यति साधयति धारयतीत्यर्थः । उदयगिरेरित्यर्थः । महद्रन्थं व्याकरणग्रन्थं | धारयन् शास्त्रान्तरेष्वपि वैशारदे वैदुष्ये । छन्दगतौ छन्द:- अर्थतः पाठतश्च गृह्णन्नित्यर्थ: । धारयदिति पाठे शास्त्रे ।। ४९–५० ॥ प्रवीविवक्षोर्युगान्ते भूमिमा- नुडभाव आर्ष: । धारयते इति पाठान्तरं ॥ ४८ ॥ प्लावयितुं प्रकर्षेण विशेषेण वेगमिच्छोः । युगक्षये ससूत्रेति । सूत्रमष्टाध्यायी । लक्षणं वृत्तिः सूत्रार्थमा- काले युगान्तकाल इत्यर्थः ॥ ५१ ॥ एषेवेति संधि- सुग्रीवसहितोयमास्थितः स्थितएव । नतुयुद्धंकृतवानिति । सिंहःकुञ्जररुद्धेवेतिपाठान्तरं । तत्रसंधिराषः स० कुञ्जररुद्ध सिंहो वासिंहइव । अनेनशापपरिहारसमर्थोपिस्वेच्छयातदानुकूल्यं संपादयन्नटनमाटीकतहनुमानितिसूच्यते ॥ ४६ ॥ ति० पराक्रमः महत्स्वपियुद्धकार्येषूत्साहः । उत्साहपदेनेतरकार्यविषयःसः । मतिरर्थनिर्धारण | प्रतापः प्रभावः । सौशील्यं सुखभावत्वं । माधुर्ये वाचि । नयानयौ तत्परिज्ञाने । प्रवृत्तिनिवृत्ती इत्यन्ये । गांभीर्य आपद्यक्षोभः | सुवीर्ये स्वरक्षणेनपरपराभवः । धैर्य- मकंप्यचित्तता । हनूमतएतैर्गुणैः कोप्यधिकः नकोपीत्यर्थः ॥ ४७ ॥ ति० धारयनप्रमेयइति नुडभावआर्षः । सूर्यसांमुख्यार्थ तावद्वमनं ॥ स० प्रष्टुमनाः सूर्येप्रतिमहव्याकरणंग्रहीष्यन् ग्रन्थंधारयेतिसंपाद येतितेनोक्तइतिशेषः । तर्हिसूर्यापेक्षया विज्ञत्वमा- यातमस्येत्यतआह—नप्रमेयइति । नसमासः | अप्रमेयइत्यर्थः ॥ तत्राध्ययनंतु तदन्तर्गतनारायणविवक्षयेतिबोध्यं । सूर्यो हनुम तोपिज्ञानाधिकःकिमित्यतोनेल्लाह – नप्रमेयइति । अपदार्थः सूर्यइतियावत् । एतेनापिनटनं स्फुटीकृतंवेदितव्यं । नागोजिभट्टपक्षे ग्रन्थव्याकरणपदयोरर्थविशेषविवक्षानुडभावार्षत्वकल्पनं चेतिद्रष्टव्यं । अध्याहारश्चान्यत्र तेनापीवेतरैरप्यवश्यमङ्गीकृत इतिनकुतु- कितातेनकर्तव्या ॥ ४८ ॥ ति० कोसौग्रन्थस्तत्राह - ससूत्रेति । सिद्ध्यति सिद्धोभवति । शास्त्रान्तरेष्वपीत्यर्थः । तदेवाह - नह्यस्यसदृशःशास्त्रेकश्चित् । छन्दगतौ पूर्वोत्तरमीमांसामुखेनवेदार्थनिर्णये । वैशारदे वैदुष्ये । विशिष्यनवमव्याकरणकर्ता हनुमा- नितिचप्रसिद्धिरितिकतकः ॥ स० ससूत्रवृत्यर्थपदं सूत्रं शिवडमरुनिस्सृतंचतुर्दशलक्षणं । वृत्तिः सूत्रवृत्तिः । अर्थपदं तदर्थ- बोधकंतत्कालवर्तिपदं । महार्थ बर्थोपेतं । ससंग्रहं संग्रहाख्यग्रन्थसहितं । प्रति कपीन्द्रः सिध्यति । 'सूत्रमष्टाध्यायीलक्षणं । वृत्तिस्तात्कालिकसूत्रवृत्तिः । अर्थबोधकपदवद्वार्तिकं | महार्थं महाभाष्यंपतञ्जलिकृतं । ससंग्रहं व्याडिकृतसंग्रहाख्यग्रन्थसहितं । सिध्यतिसिद्धोभवति ” इतिव्याकुर्वन्नागोजिभट्टः हनुमतःपाणिनिपतञ्जल्यादीनांप्राचीनतां स्वप्राचीनाचीर्ण कर्मवशाज्जानातीतिन- वयमधुनातनतनुतनवोव्याकर्तुप्रभवामः । नवमव्याकरणकरणसमर्थस्यैतदनुसरणस्यायुक्तत्वाच्च । अइडणादीनांसूत्राणांनित्यत्वाद्भूमौ प्रवर्तयितुंपाणिनिस्तपःकृत्वालब्धवांस्तानीत्युपपत्तेः । वैशारदे विशारदत्वे । छन्दगतौ छन्दोज्ञाने । छन्दश्शब्दपर्यायोऽयंछन्द- शब्दः ॥ ४९ ॥ स० एषेव एषइव | आर्षःसन्धिः ॥ ५२ ॥ 1 [ पा० ] १ क. ङ. झ. ट. सिध्यतिवै. २ ङ. च. छ. झ ञ ट . लोकक्षयेष्वेवयथा.