पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 2 सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । प्राप्य राम वराने वरदानसमन्वितः || बलेनात्मनि संस्थेन सोपूर्यत यथार्णवः ॥ ३१ ॥ तरसा पूर्यमाणोपि तदा वानरपुङ्गवः || आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ ३२ ॥ स्रुग्भाण्डायग्निहोत्रं च वल्कलाजिनसंचयान् ॥ भग्नविच्छिन्नविध्वंस्तान्त्संशान्तानां करोत्ययम् ३३ एवंविधानि कर्माणि प्रावर्तत महाबलः ॥ सर्वेपां ब्रह्मदण्डानामवध्यः शंभुना कृतः ॥ ३४ ॥ जानन्त ऋपयस्तं वै क्षमन्ते तस्य शक्तितः ॥ ३५ ॥ यथा केसरिणा त्वेष वायुना सोञ्जन || प्रतिषिद्धोपि मर्यादां लङ्घयत्येव वानरः ॥ ३६ ॥ ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः || शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः || ३७ ॥ बाधसे यत्समाथित्य बलमसान्लवङ्गम || तदीर्घकालं वेत्तासि नामाकं शापमोहितः ॥ यदा ते मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ ३८ ॥ ततः स हृततेजौजा महर्षिवचनौजसा || एपोश्रमाणि तान्येव मृदुभावं गतोचरत् ॥ ३९ ॥ अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता || सर्ववानरराजासीत्तेजसा भास्करप्रभः ॥ ४० ॥ स च राज्यं चिरं कृत्वा वानराणां हरीश्वरः || स च ऋक्षरजा नाम कालधर्मेण संगतः ॥ ४१ ॥ तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रिकोविदः || पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥४२॥ सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् || आवाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ ४३ ॥ एप शापवशादेव न वेद बलमात्मनः || वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ४४ ॥ न ह्येष राम सुग्रीवो भ्राम्यमाणोपि वालिना || देव जानाति न ह्येष वलमात्मनि मारुतिः ॥४५॥ ऋपिशापाहृतवलस्तदैप कपिसत्तमः || सिंहः कुञ्जररूद्धो वा आस्थितः सहितो रणे ॥ ४६ ॥ 66 दत्तवरं ॥ ३०-३२ ॥ स्रुग्भाण्डानि यज्ञोपकर | तथा ॥ ३७ ॥ तत् बलं ॥ ३८ ॥ हृततेजौजा : णानि । संशान्तानां शान्तिप्रधानानां || ३३ || अपहृतस्ववीर्यवलज्ञान इत्यर्थः । एषोश्रमाणीति शंभुना ब्रह्मणा | शम्भू ब्रह्मत्रिलोचनौ " इत्यमरः ||३४|| तस्य शक्तितः ब्रह्मणो वरशक्तितः ॥ ३५- ३६ ॥ नातिक्रुद्धातिमन्यवः | क्रोधो जिघांसा मन्यु रमर्षः । अतिक्रुद्धा अतिमन्यवश्च न भवन्तीति आर्ष : संधिः ॥ ३९ ॥ ऋक्षजस इत्यकारान्तोष्यस्ति ॥ ४०-४१ | वालिनः पदे यौवराज्ये ॥ ४२ ॥ अस्य हनूमतः सुग्रीवेण सह आवाल्यं वाल्यमारभ्य ॥ ४३ -४५ ॥ रणे युद्धादौ स्वबलमास्थितोभूत् बरदाः अमरैरितरैःसहएबमुक्वेतिवा ॥ २९ ॥ ति ० अग्निहोत्राणि अग्निहोत्रसावन भूतान्नयः | भन्नविच्छिन्नध्वस्तशब्दाः सुग्भाण्डा दिपुक्रमेणयोज्याः | संशान्तानां सम्यकुशान्तानां शान्तिप्रधानानामृषीणामितियावत् ॥ स० संशान्तानामिति । एतेन निरपराधोपरोधोऽनेनकृतिसूच्यते ॥ ३३ ॥ ति० जानन्तः वरदानमितिशेषः । सहन्ते क्षमन्ते । तस्यचेष्टितमिति शेषः ॥ ३५ ॥ स० महर्षिवचनौजसा वचनसामर्थ्येन | हृततेजौजाः तेजश्शब्दपर्यायोयंतेजशब्दः । एवोदकमित्यादिवत् । ओजोऽवष्टंभशक्तिः । तेजः पराक्रमः | 'ओजोऽवष्टंभप्रकाशयोः तेजोधानिपराक्रमे' इतिचविश्वः ॥ तानि सत्वानि । अश्रमाणि स्वप्रयुक्तश्रमरहितानि | यथाभवेयुस्तथा मृदुभावं मार्दवंगतः । अचरत् संचचार । एषतानाश्रमानेवेतिका सुचित्पुस्तकसंपुढीषु पाठोस्ति । तत्रतुनायासः ॥ ३९ ॥ ति० अद्वैधं एकप्रकारं ॥ ४३ ॥ स० एषहनुमान् नवेद नवेदेवस्थितः ॥ ४४ ॥ ति० वालिनाभ्राम्य माणएपसुग्रीवोपि तद्वलंन वेदेयनुकर्पः । तदपिदेवकार्येयावदेव । तदातुजांबवतास्मारितः समुद्रतीरेतज्ज्ञा- तवान् । उक्तमेवपुनराह - देवेति ॥ स० ननुहनुमतोज्ञानाभावे स्वप्रयोजनार्थ स्मार्यतेवर्धत इतिप्रागुक्तेःस्मारयितव्यो मारयितव्ये वालिनिसुग्रीवेणेत्यत आह नहीति | वालिनाभ्राम्यमाणएषसुग्रीवः एषमारुतिरात्मवलंनजानातीतिन वेद । अतोनबोधयामा- सेतिभावः ॥ ४५ ॥ ति० तदा सुग्रीवविपत्समये । आहृतवल: अपहृतस्वबलपरिज्ञान: । अतएव रणेकुञ्जररुद्धः सिंहइव सहितः [ पा० ] १ ग घ च बलेनापूर्यमाणोपि. २ झ. न्यग्निहोत्राणि. ३ च. छ. विध्वस्तान्महर्षीणांकरोत्ययं. क. ख. विध्वस्ताञ्शान्तान भीन्करोत्यसौ ४ झ सहन्ते. वा. रा. २५५