पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ॥ तेजसोस्य मदीयस्य ददामि शतिकां कलाम् ॥ १५ ॥ यदा तु शास्त्राण्यध्येतुं शक्तिरस भविष्यति ॥ तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ॥ न चास्य भविता कश्चित्सदृशः शास्त्रदर्शने ॥ १६ ॥ ११२ वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ॥ वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ यमो दण्डादवध्यत्वमरोगित्वं च नित्यशः ॥ १७ ॥ वरं ददामि संतुष्ट अविषादं च संयुगे || गदेयं मामिका चैन संयुगे न वधिष्यति ॥ इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ १८ ॥ मत्तो मदायुधानां च न वथ्योऽयं भविष्यति ॥ [ मैच्छूलेनाप्यवध्यत्वं मम चैव भविष्यति ॥१९॥ मच्छक्तिमचलां चैव हन्तैव हि विशेषतः ॥ ] इत्येवं शंकरेणापि दत्तोस्य परमो वरः ॥ २० ॥ सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ॥ दीर्घायुश्च महात्मा च इति ब्रह्माऽब्रवीद्वचः ॥ २१ ॥ विश्वकर्मा च दैनं बालसूर्योपमं शिशुम् || शिल्पिनां प्रवरः प्रादादरमस्य महामतिः ॥ २२ ॥ मत्कृतानि च शस्त्राणि यानि दिव्यांनि संयुगे || तैरवध्यत्वमापनश्चिरजीवी भविष्यति ॥ २३ ॥ [विनिर्मितानि देवानामायुधानि तु यानि च ॥ तेषां संग्रामकालेषु अवध्योऽयं भविष्यति ॥२४॥ ] ततः सुराणां तु वरैष्ट्वा ह्येनमलंकृतम् || चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ २५ ॥ अमित्राणां भयकरो मित्राणामभयंकरः ॥ अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ २६ ॥ कामरूप: कामचारी कामगः लवतां वरः ॥ भवत्यव्याहतगतिः कीर्तिमांच भविष्यति ॥ २७ ॥ रावणोत्सादनार्थानि रामप्रियकराणि च | रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ २८ ॥ एवमुक्त्वा तमामन्य मारुतं त्वमरैः सह || यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ २९ ॥ सोपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् || अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ ३० ॥ शयमयीं काञ्चनपद्ममयीमित्यर्थः ॥ १२–१४ ॥ | त्यर्थः ॥ २० ॥ सर्वेषां ब्रह्मास्त्रान्तानामित्यर्थः । शतिकां शतैकांशभूतां ॥ ५ ॥ शास्त्रं शास्त्रार्थज्ञानं | ब्रह्मदण्डानां ब्रह्मशापानां ब्रह्मायुधानां वा । दीर्घायु- ऐन्द्रव्याकरणमित्यर्थः । शास्त्रदर्शने शास्त्रज्ञाने ॥ १६॥ वरुणोक्तवरस्तु स्वयुद्धनिमित्तमरणाभावमात्रं ॥ १७ | श्चेति ||२१|| यज्ञाद्यायुधानामपि विश्वकर्मनिर्मितत्वे- - १९ ॥ परमो वरः शूलपाशुपतास्त्राद्यवध्यत्वमि- पि तदतिरिक्तायुधपरमिदं ॥ २२–२९ ॥ वरदत्तं दास्यामि ॥ १४ ॥ ति० शास्त्रं शास्त्राध्ययनं तदर्थज्ञानंच ॥ १६ ॥ ति० संतुष्टअविषादमित्यार्पोसन्धिः ॥ १८ ॥ ति० महात्मा महानात्मायस्यसः । ब्रह्मज्ञइतियावत् । सर्वेषांब्रह्मास्त्रान्तानां ब्रह्मदण्डः ब्रह्मर्षिक्रियमाणः संहारोद्देश्यकःशापोनभवि- ष्यति । अस्येतिशेषः ॥ २१ ॥ स० दिव्यानि दिविभवानि । तानि प्रसिद्धानि । तैरत्रैः । इतिवरंददावित्यर्थः | दिव्यानिता- नीतिपदमेकंवा । इतानि हनुमन्तंप्राप्तानि । तानिनभवन्तीत्यनितानि | दिव्यानिचतान्यनितानिच । दिव्यानितानियानितैः | प्रतिघातमनितानीतिवा | नातोपितानितैरित्यनन्वयशङ्केतिमन्तव्यं ॥ मत्कृतानियानि तानिदिव्यानि | तैरितिवा । तच्छन्देन 'दिव्यत्वविशिष्टशस्त्राणांपरामर्शोज्ञेयः ॥ २३ ॥ ति० एवमुक्त्वा महेन्द्रादयइत्यर्थः ॥ अमरैः परिवारदेवगणैः ॥ स० अमरैः अमरत्वदैः वरैः सहवर्तमानंत॑हनुमन्तमुक्त्वा मारुतंचामन्त्र्य पितामहपुरोगमाः सर्वेपियथाऽऽगतास्तथाययुः । पितामहपुरोगमा [ पा० ] १ ङ. च. छ. झ ञ ट . मरोगलंचदत्तवान्. २ ङ. झ ञ ट . इत्येवंधनदः प्राहतदा. ग. इत्येवंधनदःप्रादात्तदा. ३ अयंश्लोकः च पाठेदृश्यते ४ ङ. च. झ ञ ट दृष्मंबालंप्रतिमहारथः ५ क - घ. महात्मनः ६ ङ. च. झ ञ ट दिव्यानितानिच ७ अयं श्लोकः क-घ, पाठेषुदृश्यते.