पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षट्त्रिंशः सर्गः ॥ ३६ ॥ ब्रह्मणा वायुसान्त्वनपूर्वकंजकरपरामर्शनेन हनुमदुज्जीवने तुष्टैनवायुना यथापुरंसर्वप्राणिषुसंचरणम् ॥ १ ॥ ब्रह्मणा रुद्रेन्द्रादिभिहनुमतेवरदापनपूर्वकं स्वयमपितस्मैवरदानेन स्वलोकगमनम् २ ॥ वरहप्तेनहनुमतापीडितैर्महर्पिभिस्तंप्रति केनापिनिजबलस्मारणावधि दीर्घकालं स्वबलापरिज्ञानप्रकारकशापदानम् ॥ ३ ॥ एवमगस्त्येन रामंप्रति हनुमतऋपिशा- पमूलकस्वबलाज्ञानस्य वाल्यमारणकारणस्वोक्तिपूर्वकं श्रीरामाभ्यनुज्ञानेनमुनिगणैः सह स्वाश्रमगमनम् ॥ ४ ॥ ततः पितामहं दृष्ट्वा वायुः पुत्रवधादिंत: || शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ १ ॥ चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः ॥ पादयोर्न्यपतद्वापुस्तिस्रोपस्थाय वेधसे ॥ २ ॥ [ त्रिगुणाय त्रिवेदाय त्रियुगाय त्रिशक्तये || त्रिकालाय त्रिधाम्ने ते त्रिलोकपतये नमः ॥ ३ ॥ इति नत्वा ततो वायुर्ब्रह्मणेऽनन्तशक्तये || शिशुकं तं समादाय उपतस्ये पितामहम् ॥ ४ ॥ ] तं तु वेदविदा तेन लम्बाभरणशोभिना || वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ५ ॥ स्पृष्टमात्रस्ततः सोथ सलीलं पद्मयोनिना || जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ ६ ॥ प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा || चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ ७ ॥ मरुद्रोधादि निर्मुक्तास्ताः प्रजा मुदिता भवन् ॥ शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ८ ॥ ततस्त्रियुग्मः स्त्रिककुत्रिधामा त्रिदशाचिंतः || उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ९ ॥ भो महेन्द्रेशवरुणप्रजेश्वरवनेश्वराः || जानतामपि वः सर्व वक्ष्यामि श्रूयतां हितम् ॥ १० ॥ अनेन शिशुना कार्य कर्तव्यं वो भविष्यति ॥ तद्वदध्वं वरान्त्सर्वे दारुतस्यास तुष्टये ॥ ११ ॥ ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ॥ कुशेशयमयीं मालामुत्क्षिप्येदं बचोऽब्रवीत् ॥ १२ ॥ [ अद्यैव च परित्यक्तं वायुना जगदायुपा ] मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ॥ नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ १३ ॥ अहमस्य प्रदास्यामि परमं वरमद्भुतम् ॥ इतः प्रभृति वज्रस्य ममावथ्यो भविष्यति ॥ १४ ॥ तिस्रोपस्थाय त्रिरुपस्थाय । लुगप्यार्ष: । त्रिरुपस्थाये- | अचार || ७ || शीतदाहो हिमेन दाहः । शीतवात तिच पाठः । न्यपतदिति । उपस्थानपूर्वकं त्रिः साष्टा - विनिर्मुक्ता इतिच पाठः ॥ ८ ॥ त्रीणि युग्मानि ङ्गमनमदित्यर्थः ॥ २–४ ॥ हनुमज्जीवनाथै अङ्गु- यस्यासौ त्रियुग्मः | तानि तु ऐश्वर्यं वीर्ये यशः श्रीः ल्यप्रविन्यस्तवेदपदेन वेदविदा विदितनिखिलवेदवे- ज्ञानं वैराग्यं । त्रिककुत् त्रिमूर्तिप्रधानः । त्रिधामा दान्तेन ब्रह्मणा लम्बाभरणशोभिना हस्तेन तं शिशुं | त्रिलोकगृहः | त्रिदशार्चित: देवाचितः ॥ ९ ॥ ईश च परिमृष्टवान् ॥ ५-६ ॥ सर्वभूतेषु सन्निरुद्धं इत्यनेन रुद्र इत्युच्यते । प्रजेश्वरः यमः | वक्ष्यामि अन्तः प्रतिष्ठितं यथा भवति तथा प्राणः प्राणभूत- श्रूयतामिति । गुरुवैषम्यमार्षे ॥ १०-११ ॥ कुशे- स० वधादिंतः ताडनार्दितः । शिशुकं शिशुप्रतिमासदृशं । वस्तुतस्तुनशिशुः । तथालोकानांप्रदर्शयितारं ॥ शि० शिशुकं अनुकंपितसुतं ॥ १ ॥ शि० वेदवित् ब्रह्मा आतेन विस्तृतेन हस्तेन | वेदविदेतिच्छे देतु हस्तस्यैवेदमपिविशेषणं । वेदस्थापन - कर्त्रेतितदर्थः ॥ ५ स० संनिरुद्धं रुद्धं भावेक्तः । निरोधः | सम्यक् नि निर्गतःरोधोयस्मिन्कर्म णित्तद्यथाभवतितथा निरोध रहितं यथापुराप्राणापानाद्यात्मातथाभूत्वाचचार ॥ ७ || स० जानतां ज्ञानिनां | वः हितंवक्ष्यामि श्रूयतां ॥ नागोजिभः वक्ष्यामिश्रूयतामित्यत्रगुरुवैषम्य मार्षमितिव्याचख्यौतत्किमभिप्रायकं वेतिज्ञानदरिद्रा विचार्याः ॥ १० ॥ स० हतः हता । हते- त्यपिक्वचिष्पाठः । अहतः अह्ता | सर्वात्मनानाशंप्राप्तेत्यतोहनुमानितिनाम्नाभवितेतिवा ॥ १३ ॥ ति० अहं मालादानपूर्ववर [ पा० ] १ इदंश्लोकद्वयं च. पाठेदृश्यते. २ इदमर्धे च. छ. पाठयोर्दृश्यते,