पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ वायुप्रकोपाद्भूतानि निरुच्छ्रासानि सर्वतः || सन्धिमिर्मिंद्यमानैथ काष्ठभूतानि जज्ञिरे ॥ ५१ ॥ निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् || वायुप्रकोपात्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥ ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ॥ प्रजापति समाधावन्दुःखिताश्च सुखेच्छया ॥ ५३ ॥ ऊचु: प्राञ्जलयो देवा महोदरनिभोदराः ॥ त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ५४ ॥ त्वया दत्तोऽयमसाकमायुपः पवनः पतिः ॥ सोसान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥ रुरोध दुःखं जनयन्भन्तःपुर इव स्त्रियः ॥ तस्सावां शरणं प्राप्ता वायुनोपहता वयम् ॥ [ वांयुसंरोधजं दुःखमिदं नो जुद दुःखहन् || ५६ ॥ ] एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ॥ कारणादिति चोक्त्वाऽसौ प्रजाः पुनरभाषत ॥५७॥ यस्मिंश्च कारणे वायुश्चक्रोध च रुरोध च || प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥५८ ॥ पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ॥ राहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ ५९ ॥ अशरीर: शरीरेषु वायुश्चरति पालयन् || शरीरं हि विना वायुं समतां याति दारुभिः ।। ६० ।। वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् || वायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥६१॥ अद्यैव च परित्यक्तं वायुना जगदायुषा || अद्यैव ते निरुच्छ्रासाः काष्ठकुड्योपमाः स्थिताः ||६२ || तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ॥ मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतः ॥ ६३|| ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ॥ जगाम तत्रायति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥ ततोर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ॥ चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगँन्धर्वर्षियक्षराक्षसैः ॥ ६५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ यथा वर्षाणीति ॥ ५०–५३ || महोदरनिभोदरा: | यावत् ॥ ६४ ॥ सदागतेर्वायोः । गन्धर्वर्षियक्षेति आयुःस्तम्भान्महोदरव्याधिग्रस्तोदरवदुदरं येषांते गुरुलघुभेद आर्षः ॥ ६५ ॥ इति श्रीगोविन्दराज- तथा ॥ ५४५६ ॥ कारणादिति चोक्त्वा किंचि- | विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने त्कारणमत्रास्तीत्युक्त्वा ॥ ५७-६२ ॥ रुक्प्रदः शुलरोगप्रदः । गमिष्याम अप्रसाद्येति संघिरार्षः उत्तरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ ॥ ६३ ॥ तत्रास्यतीति । यत्र अस्यति तिष्ठतीति इतिविश्वः ॥ दुरदृष्टवशाद्वृष्टि॑ियथावासवइन्द्रस्तुरुन्धेतद्वद्वरोध ॥ ५० ॥ ति० स्वाध्यायोवेदाध्ययनं । वषारोयागः | निष्क्रियं संसारशून्यं । निरयस्थमिव अतिशयितदुःखवदित्यर्थः ॥ ५२ ॥ ति० दारुभिःसमतांयाति क्षणमपिनचलतीत्यर्थः ॥ ६० ॥ स० इदंसर्वजगत् वायुः तदधीन मितियावत् ॥ ६१ ॥ स० रुक्प्रदः महोदरादिसदृशरोगदः । नः परदुःखमात्मगामीति मन्यमानोमहात्मेतिसूचयितुमियमुक्तिः । अदितेः सुतं देवं । वायुं अप्रसाद्य प्रसन्नमविधायगमिष्याम | अप्रसाद्येत्यसंघिराषः ॥ ६३ ॥ स० यत्र सुतंहनूमन्तंप्रगृह्यसवायुः आस्यति आस्ते । तत्रजगाम | यः जगत् अस्यति क्षिपतितिरस्करोतीतियावत् । ससुतंत्रगृह्ययत्रवर्तते । सप्तमीबलादस्यलाभः । तत्रजगामेतिवा ॥ ६४ ॥ इतिपञ्चत्रिंशः सर्गः ३५ ॥ [ पा० ] १ इदम. ग. ङ. च. छ. झ ञ ट पाठेषुदृश्यते . २ ख. ङट. सुतं. ३ ज. गन्धर्वसयक्षराक्षसैः.