पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०७ ततः प्रज्वालयित्वाऽग्निं तावुभौ हरिराक्षसौ ॥ भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ ४३ ॥ अन्योन्य लम्भितकरौ ततस्तौ हरिराक्षसौ ॥ किष्किन्धां विशतुर्हष्टौ सिंहौ गिरिगुहामित्र ॥ ४४ ॥ स तत्र मासमुषितः सुग्रीव इव रावणः || अमात्यैरागतैनीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ४५ ॥ एवमेतत्पुरा वृत्तं वालिना रावणः प्रभो ॥ धर्पितश्च कृतश्चापि भ्राता पावकसन्निधौ || ४६ ॥ बलमप्रतिमं राम वालिनोऽभवदुत्तमम् || सोपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुत्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ रामेणागस्त्यं प्रति हनुमत्प्रशंसनपूर्वकं तस्यवाल्यपेक्षयाऽधिकवलत्वोत्क्त्या तेनसुग्रीवप्रीत्यै वाल्यमारणे कारणप्रश्नः ॥ १ ॥ अगस्त्येन तदुपोद्धाततयारामंप्रति हनुमदुत्पत्यादिकथनोपक्रमः ॥ २ ॥ भगवतावायुदेवेन सुमेरुगिरिचारिणः केसरिना- नोवानरराजस्यजायायामञ्जनायां हनुमतः समुत्पादनम् ॥ ३ ॥ जातमात्रेणहनुमता निजजनन्यांफलानयनायगतायां क्षुप्पीडासहिष्णुतया उद्यहिवाकरेफलत्वबुच्या तजिहीर्पयाजवाद्गने समुत्पतनम् ॥ ४ ॥ तदन्तरेसूर्यग्रहणायतरसमीपोप- सर्पिणाराहुणा स्वजिघृक्षया स्वाभिमुख्येनावावतिसतिहनुमति इन्द्रप्रति स्वरक्षणप्रार्थना ॥५॥ तदेन्द्र करोत्सृष्टवज्राभिघातभ- महनौहनुमति गिरौपततिसति क्रुद्वेनवायुना सकलप्राणिश्वासनिरोधनपूर्वकं हनुमदानयनेनगुहाप्रवेशः ॥ ६ ॥ तदादे- वगन्धर्वादिप्रार्थितेनब्रह्मणा वाथ्वनुनयाय देवादिभिःसह गुहायांवायुसमीपंप्रत्यागमनम् ॥ ७ ॥ अपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् || प्राञ्जलिर्विनयोपेत इदमाह वचोर्थवत् ॥ १ ॥ अतुलं बलमेतद्वै वालिनो रावणस्य च ॥ न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥ शौर्य दाक्ष्यं बलं धैर्य प्राज्ञता नयसाधनम् || विक्रमथ प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥ दृष्श्र्व सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् || समाश्वास्य महाबाहुर्योजनानां शतं द्रुतः ॥ ४॥ धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ॥ दृष्ट्वा संभापिता चापि सीता ह्याश्वासिता तथा ||५|| सेनाग्रगा मन्त्रिसुता: किंकरा रावणात्मजः ॥ एते हनुमता तत्र होकेन विनिपातिताः ॥ ६ ॥ भूयो धाद्विमुक्तेन भापयित्वा दशाननम् || लङ्का भसीकृता येन पावकेनेव मेदिनी ॥ ७ ॥ न कालस्य न शक्रस्य न विष्णोविंतपस्य च ॥ कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥ तवेत्यर्थः ॥ ४१--४४ ॥ सुग्रीव इवेति भ्रातृभावेने- त्यर्थः। आगतैरिति। सहेति शेषः ॥४५॥ भ्राताकृतः सोदरभावतया स्नेहीकृतः ॥ ४६-४७ ॥ इति श्रीगो- विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- ख्याने उत्तरकाण्डव्याख्याने चतुत्रिंशः सर्गः ||३४|| |नीतिकृत्यसंपादनं ॥ ३-७ ॥ कालस्य यमस्य ||८|| अपृच्छतेत्यस्य विवरणं इदंवचनमिति ॥ १ ॥ एताभ्यामिति । एतयोरित्यर्थः । षष्ठयर्थे बहुलं छन्द- सीति वक्तव्यं । इति षष्ठयर्थे चतुर्थी ॥२॥ नयसाधनं शि० विशतुः विविशतुः ॥ ४४ ॥ ति० धर्षितोवालिनारावणः । पश्चात्पावकनिकटेभ्राताकृतः सोदरभावतयास्नेहःकृतः । स० घर्षितः प्राक् ॥ ४६ ॥ स० सोपि तादृशोपि ॥ ४७ ॥ इतिचतुस्त्रिंशः सर्गः ॥ ३४ ॥ स० दक्षिणाशाश्रयं विन्ध्यमुल्लङ्घ्य दक्षिणदिगाश्रयंमुनिमगस्त्यं इदं वक्ष्यमाणं | अपृच्छत अपृच्छत् । आहवे चाय्यतेपूज्यत इति आहवचोरामः । आइवशब्दोपपदात्पूजार्थाच्चायतेः ' अन्येभ्योपिदृश्यते ' इतिकर्मणिडप्रत्ययेरूपं ॥ हेइदम अस्यापत्यमिः कामः । दमयतीतिदमः । एदमः इदमः | तस्यसंबुद्धिः । अर्थवदितिक्रियाविशेषणं ॥ १ ॥ ति० हनूमता तद्वलेन ॥ २ ॥ ति० नकेवलंबलमेवाधिकं किंत्वन्यदपीत्याह- शौर्यमिति । दाक्ष्यं क्षिप्रकारित्वं । बलं शारीरं । धैर्य केनाप्यप्रकंम्प्यता । प्राज्ञता शीघ्रंकार्याकार्यनिर्णेतृता । नयसाधनं राजनीतिकृत्यसंपादनं ॥ ३ ॥ ति० बन्धात् ब्रह्मास्त्रबन्धात् ॥ स० पावकेन संकर्षणमुखोद्गतेन ॥ ७ ॥ ति० यानिकर्माणिहनूमतोदृष्टानि तानि कालस्ययमस्येन्द्रादेञ्चनश्रूयन्ते ॥ स० हनूमतोयानिकर्माणि