पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ॥ प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥ हनुमान्यदि नो न स्याद्वानराधिपतेः सखा || प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥१०॥ किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया || तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥ न हि वेदितवान्मन्ये हनुमानात्मनो बलम् ॥ यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥ एतन्मे भगवन्सर्वे हनूमति महामतौ ॥ विस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥ राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा || हनुमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥ सत्यमेतद्रघुश्रेष्ठ यद्रवीषि हनुमतः ॥ न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥ अमोघशापैः शापस्तु दत्तोस्य ऋषिभिः पुरा ॥ न वेत्ता हि बलं येन बली सन्नरिमर्दनः ॥ १६ ॥ बाल्येप्येतेन यत्कर्म कृतं राम महाबल ॥ तन्न वर्णयितुं शक्यमिति बालतयाऽस्यते ॥ १७ ॥ यदि वाऽस्ति ह्यभिप्रायस्तच्छ्रोतुं तव राघव || समाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥ सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ॥ यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥ तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ॥ जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥ शालिशुकनिभाभास प्रांताएं तदाऽञ्जना || फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥ एष मातुर्वियोगाच क्षुधया च भृशादितः || रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥ तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् || ददर्श फललोभाच ह्युत्पपात रविं प्रति ॥ २३ ॥ बालार्काभिमुखो बालो वालार्क इव मूर्तिमान् || ग्रहीतुकामो बालार्क प्लवतेऽम्बरमध्यगः ॥ २४ ॥ एतस्मिन्प्लवमाने तु शिशुभावे हनुमति || देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥ नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ॥ यथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥ यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ॥ यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥ तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ॥ सूर्यदाहमयाद्रशंस्तुपारचयशीतलः ॥ २८ ॥ बहुयोजनसाहस्रं क्रमत्येष गतोम्वरम् || पितुर्वलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥ लङ्का प्राप्ता विभीषणाय देयत्वेन प्राप्तेत्यर्थः | लक्ष्मणः | ||१५|| तदेव दर्शयति - अमोघेत्यादि ||१६|| वालतया प्राप्त इति । ओषध्यानयनेनेति शेषः ||९|| हनूमान्यदि आस्यत इति । बालतया बालभावेन । अजानतैवेत्यर्थः नो न स्यात् सहायत्वेनेति शेषः ॥ १० ॥ वीरुध ॥ १७ ॥ निशामय शृणु ॥ १८ ॥ सूर्यदत्तवरस्वर्णः इत्यकारान्तो वृक्षवाची ॥ ११ ॥ बाल्यवधहेतुं स्वयं सूर्यदत्तवरेण स्वर्णरूपः । सुमेरु: सुवर्णमेरुः रामः ऊहति - न हीत्यादि ॥ १२ ॥ हनूमत्येतदिति ॥ १९ ॥ परिश्रुता प्रसिद्धा ॥ २० ॥ शालिशूकस- हनूमद्विषये पृष्टमित्यर्थः ॥ १३-१४ ॥ यद्रवीषि हे माभासं शाल्यमवत्पिङ्गलाभासं । काञ्चनाद्रिकमनी- रघुश्रेष्ठ तदेतत्सत्यं । स आत्मनो बलं न हि वेदेत्यर्थः |यविग्रह मित्युक्तेः । प्रासूत प्रसूतवती ॥२१॥ शरवणे श्रूयन्ते तानिनकालस्य नशक्रस्य नवित्तपस्यापिश्रयन्ते । कथं विष्णोरनुग्रहादितिशेषः । नञोयथाश्रुत विष्णुपदेनैवान्वयेवित्तपस्ये- त्यत्रनजोनुवृत्तिप्रसङ्गः । तदङ्गीकारेचैकेनैवचारितार्थ्यान्नस्याधिक्यंस्यात् । 'नतेविष्णोजायमानोनजातोदेवमहिम्नः परमन्त माप ।' इत्यादिप्रमाणबाधश्च || शि० वित्तपय विदाज्ञानेनैवतपआलोचनंदर्शन॑यस्यतस्य विष्णोश्चन । उपलक्षणमेतत् ब्रह्म- शिवयोरपि । अतएव नपतत्प्रकर्षदोषः ॥ ८ ॥ ति० किमर्थेवालिघातेनेतिपाठे सुग्रीवप्रियकाम्ययावालिवाते किमर्थन प्रवृत्त इत्यर्थ: । पदच्छेदशेषपूरणाभ्यांगूढत्वात्तस्यैवविवरणंतदावैरइत्यादि ॥ ११ ॥ जीवितेष्टं जीवितादपिप्रियं ॥ १२ ॥ स० अमोघशापैः बहुव्रीहिः ॥ १६ ॥ ति० शिशुभावे बाल्यावस्थायांहनूमतिष्ठवमानेसति ॥ २५ ॥ शि० भविष्यतीति विचार्येति [ पा० ] १ झ वालीचैतेन. २ क-ट, महामुने. ३ ग घ. च. छ. झ ञ ट प्रासूतेमंतदा.