पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः | तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ २५ ॥ वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः ॥ किं पुनर्जीवित प्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ २६ ॥ अपक्षिगणसंपातान्वानरेन्द्र महाजवः || क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ २७ ॥ सभाज्यमानो भूतैस्तु खेचरैः खेचरोत्तमः ॥ पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ २८ ॥ तसिन्संभ्यामुपासित्वा स्त्रात्वा जत्वा च वानरः || उत्तरं सागरं प्रायाद्वहमानो दशाननम् ||२९|| बहुयोजनसाहस्रं वहमानो महाहरिः || वायुवश्च मनोषच्च जगाम सह शत्रुणा ॥ ३० ॥ उत्तरे सागरे संध्यामुपासत्वा दशाननम् || वहमानोऽगमद्वाली पूर्व वै स महोदधिम् ॥ ३१ ॥ तत्रापि संध्यामन्यास्य वासविः स हरीश्वरः ॥ किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ३२ ॥ चतुर्ष्वपि समुद्रेषु संध्यामन्वास्थ वानरः || रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ ३३ ॥ रावणं तु सुमोचाथ स्वकक्षात्कपिसत्तमः ॥ कुतस्त्वमिति चोवाच महसन्रावणं मुहुः ॥ ३४ ॥ विस्मयं तु महगत्वा श्रमलोलनिरीक्षणः ॥ राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ३५ ॥ वानरेन्द्र महेन्द्राम राक्षसेन्द्रोसि रावणः ॥ युद्धेप्सुरिह संप्राप्तः स चाद्यासादितस्त्वया || ३६ || अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ॥ येनाहं पशुवा भ्रमितश्चतुरोर्णवान् ॥ ३७ ॥ एवमश्रान्तवीर शीघ्रमेव महार्णवान् ॥ मां चैवोहमानस्तु कोन्यो वीरः क्रमिष्यति ॥ ३८ ॥ [ ये सुरा दानवा लोके दैत्यराक्षसपन्नगाः || सर्वेषामेव तेषां त्वं बलादभ्यधिको ह्यसि ॥ ३९ ॥] त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम || मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ४० ॥ सोहं दृष्टवलस्तुभ्यमिच्छामि हरिपुङ्गव || त्वया सह चिरं सख्यं मुखिग्धं पावकाग्रतः ॥ ४१ ॥ दाराः पुत्राः पुरं राष्ट्र भोगाच्छादनभोजनम् || सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ४२ ॥ त्मनेपदं ॥ २२—२४ ॥ तेऽशक्नुवन्त इति ॥ | पश्चिमे मत्रपूर्वसंध्याङ्गस्नानं । उत्तरे प्रोक्षणादिकं । अशक्नुवन्त इति पदं ॥ २५ ॥ हि यस्मात्पर्बतेन्द्रा पूर्वेऽर्घ्यप्रदानादिकमिति । अन्यथा संभ्याचतुष्टयाभा- अपि वालिमार्गादपाक्रामन् | मांसादिमान् जीवितप्रे- प्सुः प्राणी गच्छतस्तस्य मार्गादपाक्रामतीति किं बात् तदङ्गस्यापि तत्त्वेन व्यपदेशात् ॥ २८-३१ ॥ पुनः । पर्वतेन्द्रा हीति च पाठः ॥ २६ ॥ अपक्षिग- वासवस्यापत्यं वासविः ॥ ३२–३३॥ प्रहसन्निति संपातान् पक्षिगणैरप्यशक्यसंपातान् सागरान् । मां जिघृक्षुः स्वयमेव दुरात्मा निगृहीत इति प्रहसन् क्रमशोऽगच्छन्निति शेषः । संध्याकालं प्रातः संध्या- ॥ ३४-३५ ॥ त्वयासादित इति कक्षनिक्षेपं प्रापित कालदेवतारूपमवन्दत ॥ २७ ॥ सभाज्यमानः पूज्य- इत्यर्थः ॥ ३६ – ३७ ॥ अश्रान्तवत् अश्रान्तः सन् | मां मानः । पश्चिममित्यादि । दक्षिणे संध्याङ्गशौचं । चैव महाद्रिसमानभारमित्यर्थः ॥ ३८-४० ॥ तुभ्यं ति० अपक्षिगणसंपातान् यावताकालेनवालीगच्छति तावताकालेन पक्षिगणैरप्राप्यान्सागरान्त्रमशोऽगच्छन्नितिशेषः ॥ २७ ॥ ति० सरावणः कक्षस्थरावणसहितः ॥ २८ ॥ ति० तस्मिन्निति | दक्षिणसमुद्रतटेपि 'जपन्वैनैगमान्मन्त्रा' नित्युक्तेः समुद्रचतुष्टये- पिप्रातःसंध्याकालस्यउदयास्पूर्वपरतश्चमिलित्वात्रिमुहूर्तात्मकस्य मध्येचतुस्समुद्रतटावच्छेदेन किञ्चित्किञ्चित्कालंध्येय ब्रह्मणोध्याननिय- मस्तत्प्रतिपादकमन्त्रस्मरणनियमञ्चवालिनइतिगम्यते ॥ ईदृशंत्रतंच महेन्द्रोरावणस्यसमूलनाशाय पुत्रद्वारा ऽनुतिष्ठती तिबोध्यं ॥ यत्तु तस्यदक्षिणसमुद्रेशौचं पश्चिमेस्नानं उत्तरेआपोहिष्ठादिमन्त्रैर्मार्जनं पूर्वसमुद्रेऽर्ध्यादीत्येवंसंध्यावन्दनशेषानुष्ठानत्वाच्चतुर्षुसमुद्रेषुसंध्या- मन्वास्येत्युक्तिरितिकतकतीर्थादयः । तत् ‘जपन्चैनैगमाम्मन्नान्' इतिदक्षिणसमुद्रस्नानकालोत्तयाविरुध्यते । मदुक्तरीत्यासामञ्जस्याच्च । संध्याकालेगायभ्यर्थब्रह्मणोध्यानमेवप्रधानं । सएवसंध्यापदार्थइतिस्पष्टंश्रुतिस्मृतिविदाम् ॥ २९ ॥ ति० नौ आवयोः ॥ ४२ ॥ [ पा०] १ ङ. च. छ. झ. ञ ट . संपूज्यमानोयातस्तुखचरैः २ क. घ. ज. खेचरोहरिः ३ क॰ ख॰ ज॰ पाठेष्व- यंश्लोकोदृश्यते.