पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०५ चतुभ्यपि समुद्रेभ्य: संध्यामन्वास रावण || ईमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ६ ॥ एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ॥ युद्धार्थनामिमे राजन्वानराधिपतेजसा ॥ ७ ॥ यद्वामृतरसः पीतस्त्वया रावण राक्षस ॥ तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ८ ॥ पश्येदानीं जगचित्रमिमं विश्रवसः सुत || ईद मुहूर्त तिष्ठव दुर्लभं ते भविष्यति ॥ ९ ॥ अथवा त्वरसे मर्तु गुच्छ दक्षिणसागरम् || वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ १० ॥ स तु तारं विनिर्भर्त्य रावणो लोकरावणः || पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ११ ॥ तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् || रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ॥ १२ ॥ पुष्पकादवरुह्याथ रावणोञ्जनसन्निभः ॥ ग्रहीतुं वालिनं तूर्ण निश्शब्दपदमात्रजत् ॥ १३ ॥ यदृच्छया तदा दृष्टो वालिनाऽपि स रावणः ॥ पापाभिप्रायवान्दृष्ट्वा चकार न तु संभ्रमम् ॥ १४ ॥ शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ॥ न चिन्तयति तं वाली रावणं पापनिश्रयम् ॥ १५ ॥ जिघृक्षमाणमायान्तं रावणं पापचेतसम् || कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ १६ ॥ द्रक्ष्यन्त्यरिं ममाङ्कस्थं संसदूरुकराम्बरम् || लम्बमानं दशग्रीवं गरुडस्येव पनगम् ॥ १७ ॥ इत्येवं मतिमास्थाय वाली कैर्णमुपाश्रितः ॥ जपन्वै नैगमान्मत्रांस्तस्थौ पर्वतराडिव ॥ १८ ॥ तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ || प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ १९ ॥ हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् || परामखोपि जग्राह वाली सर्पमिवाण्डजः ॥ २० ॥ ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः || खमुत्पपात वेगेन कृत्वा कक्षावलम्चिनम् ॥ २१ ॥ तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः || जहार रावणं वाली पवनस्तोयदं यथा ॥ २२ ॥ अथ ते राक्षसामात्या हियमाणं दशाननम् || मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ २३ ॥ अन्वीयमानस्तैर्वाली आजतेऽम्बरमध्यगः ॥ अन्वीयमानो मेघौघैरम्वरस्थ इवांशुमान् ॥ २४ ॥ दातुमिति शेषः ।। ५ - ६ ॥ युद्धार्थनामिति । वान - | यवान् बन्धनाभिप्रायवान् ॥ १४ ॥ सिंहो वा सिंह राविपतेजसा मृतानां युद्धार्थनामिमे । एवं त्वमपि इव ॥ १५ ॥ जिघृक्षमाणमित्यारभ्य इत्येव मित्यन्तं भविष्यसीति भावः ॥ ७ ॥ तदा तथापि वालिन- वालिविचारः ॥ १६ ॥ द्रक्ष्यन्ति दे॒वादय इति शेषः । मासाद्य तव जीवितं तदन्तं तत्समीपप्राप्तिपर्यन्तमि- ममाङ्कस्थं कक्षस्थमिति यावत् | गरुडस्येवेति । अङ्क- त्यर्थः ॥ ८ ॥ जगच्चित्रं जगतः सर्वस्याप्याञ्चर्यभूतं स्थमित्यनुकर्षः ॥ १७ ॥ कर्णमुपाश्रितः पादशब्द- व्यापारमिदानीं पश्य । दुर्लभं जीवितमिति शेष: वणार्थी कर्णमुपाश्रितमनाः | नैगमान् वैदिकान् । ।। ९-१० ॥ तारं तारादीन् । यद्वा पूर्व तार एवो- देवकुमारत्वान्मन्त्रवत्त्वं ।। १८ - १९ ।। हस्तग्राहं क्तवान् तस्य तारापितृत्वं संबन्धविशेषात् । नि:- हस्तैर्ग्रहणाभिप्रायवन्तं । पादशब्देन सूक्ष्मपादशब्देन शब्द निःशब्दचरणविन्यासं ॥ १३ ॥ पापाभिप्रा- | || २०-२१ ॥ आपीडयमानं " णिचश्च " इत्या- ति० चतुर्भ्यः समुद्रेभ्यः चतुर्पुसमुद्रेषु | संध्यां सम्यग्ध्येयदेवतांब्रह्मरूपामन्वास्य ध्वाला इदंमुहूर्त अस्मिन्मुहूर्तेआयाति ॥ ६ ॥ ति० यद्वेति यद्यप्यर्थे ॥ ८ ॥ शिव इममुहूर्ततिष्ठख | इदानीमेवचित्रंजगत्पश्य | अनन्तरंदुर्लभंभविष्यति मरिष्यमाणत्वादि- त्यर्थः ॥ ९ ॥ ति० सन्ध्योपासनतत्परं सम्यग्ध्येय ब्रह्मोपासनतत्परं ॥ स० संध्यादेवतोपासननिरतं ॥ १२ ॥ ति० नैगमान् वैदिकान् । बाल्यादयोपिस्वयंप्रतिभातसकलवेदाः । जपन् तदर्थंध्यायन् ॥ १८ ॥ ति० तत्कर्म ग्रहणकर्म ॥ १९ ॥ ति० मुमोक्षयिषवइति । मोक्षशब्दात्तत्करोतीतिण्यन्तात्सन् | रवमाणाः क्रोशन्तः ॥ २३ ॥ [ पा० ] १ झ इदंमुहूर्त २ ट इममुहूर्त. ३ क. ख. घ. ज. भास्करं. ४ ग. ङ. च. छ. झ ञ, ट. पापाभिप्रायकंडवा. ५ च. छ. मौनमुपाश्रितः ङ झ ञ ट मौनमुपास्थितः वा. रा. २५४