पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुलस्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुन: || मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्र प्रहृष्टवत् ॥ १७ ॥ स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरण स्त्रगम्बरैः ॥ अहिंसकं सख्यमुपेत्य साभिकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥ पुलस्त्येनापि संत्यक्तो राक्षसेन्द्रः प्रतापवान् || परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ १९॥ पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः || मोचयित्वा दशग्रीवं ब्रह्मलोकं जगामह ॥ २० ॥ एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् || पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ २१ ॥ एवं बलिभ्यो बलिनः सन्ति राघवनन्दन || नावज्ञा हि परे कार्या य इच्छेत्प्रियमात्मनः ||२२|| ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ॥ पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ वालिजिगीषयाकिष्किन्धामेत्यरावणेन रणायवालिसमाह्वानम् ॥ १ ॥ तारेण वालिनोदक्षिणसागरं निवेदितेनतेन पुष्पकारोहणेनवेगाइक्षिणसमुद्रगमनम् ॥ २ ॥ वालिना स्वजिघृक्षयासमीपोपसर्पिणोरावणस्य स्वकक्षनिक्षेपेण पश्चिमादि- सागरत्र्यप्रापणेन तत्रतत्रसंध्योपासनपूर्वकंकिष्किन्धोपवनमेत्य तत्रकक्षाद्रावणोत्सर्जनम् ॥ ३ ॥ वालिबलविज्ञानविस्मिते- नरावणेन तत्प्रशंसनपूर्वकं तेनसहाझिसाक्षिकंसख्यकरणम् ॥ ४ ॥ अर्जुन विमुक्तस्तु रावणो राक्षसाधिपः || चचार पृथिवीं सर्वामनिर्विणस्तथा कृतः ॥ १ ॥ राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् || रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ २ ॥ ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ॥ गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ||३|| ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ॥ उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ४ ॥ राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ॥ कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥५॥ रावणजिदिति नाम त्वया त्रैलोक्ये विश्रावितं । वत्सं | २३ || इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- बालं || १६ || किंचिद्रचोपि नोवाच किंचन अवि भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रय- द्यमानं किंचिद्वचनं न किंचिद्व्यवददित्यर्थः । अपि स्त्रिंशः सर्गः ॥ ३३ ॥ तु क्रिया केवलमुत्तरमिति मुमोचेत्यर्थ: । प्रहृष्टवत् ब्रह्मणा प्रार्थनीयोस्मीति संतोषयुक्तः सन् ॥ १७ ॥ परस्परहिंसाप्रवृत्तिनिवारणसाधनभूतं साग्निकं अग्नि- साक्षिपूर्वकं ॥ १८ ॥ अपिना अर्जुनेनापीति समुच्ची- यते । कृतातिथ्य इति । अर्जुनेनेति शेषः || १९- युद्धे युद्धनिमित्तं । ह्वयति आह्वयति स्म ॥२- ३ || वानरामात्यः वालिनोमात्यः मन्त्री तार उवाच । तथा तारापिता सुषेणञ्चोवाच । प्रभुः युवराजः सुप्री- वश्चोवाच ॥ ४ ॥ ते तुभ्यं । प्रतिबल इति । युद्धं शि० राक्षसेन्द्रः लज्जमानः सन् ययावितिशेषः ॥ १९ ॥ ति० बलिभ्योपिबलिनः सन्ति । ईश्वरसृष्टेर्विचित्रत्वादित्याशयः ॥ यःश्रेयइच्छेत्तेनपरे परस्मिन् | अवज्ञानकार्या ॥ स० रावणदिग्विजयकालेजगच्छून्यं किमित्यस्योत्तरमाह - एवमिति ॥ २२ ॥ इतित्रयस्त्रिंशः सर्गः ॥ ३३ ॥ ति० अनिर्विणः कृतः पुलस्त्येन विमोच्यार्जुनसख्यंप्रापथ्यतेन पूजयित्वा विसर्जितत्वात्पराभवजनित निर्वेदरहितःकृतइत्यर्थः ॥ स० तथाकृतोपि अर्जुनेनपराजितोपि अनिर्विण्णः लजारहितः ॥ १ ॥ शि० वालीगतः समुद्रसमीपमितिशेषः ॥ ५ ॥