पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ यथाऽशनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः ॥ तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५५ ॥ अर्जुनस्स गदा सा तु पात्यमानाऽहितोरसि || काञ्चनाभं न विद्युत्सौदामिनी यथा ॥ ५६ ॥ तथैव रावणेनापि पात्यमाना मुहुर्मुहुः || अर्जुनोरसि निर्माति गोल्केव महागिरौ ॥ ५७ ॥ नार्जुनः खेदमायाति न राक्षसगणेश्वरः || ईदमासीत्तयोर्युद्धं यथा पूर्व बलीन्द्रयोः ॥ ५८ ॥ शृङ्गैरिव वृषा युध्यन्दन्ताग्रैरिव कुञ्जरौ || पेरस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ५९ ॥ ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा || स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ६० ॥ वरदानकृतत्राणे सा गदा रावणोरसि || दुर्बलेव यथावेगं द्विधा भूत्वाऽपतरिक्षतौ ॥ ६१ ॥ स त्वर्जुनप्रमुक्तेन गंदापातेन रावणः ॥ अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् || ६२ ॥ स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ॥ सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ६३ ॥ स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् || बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ६४ ॥ बध्यमाने दशग्रीवे सिद्धचारणदेवताः ॥ साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनसूर्धनि ॥ ६५ ॥ व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् || ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६६ ॥ ग्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् || सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ६७ ॥ नक्तंचराणां वेगस्तु तेषामापततां बभौ ॥ उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ६८ ॥ मुञ्चमुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् || मुसलानि सशूलानि सोत्ससर्ज तदाऽर्जुने || ६९ ॥ अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदाऽर्जुनः || आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७० ॥ ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः || भिवा विद्रावयामास वायुरम्बुधरानिव ॥ ७१ ॥ राक्षसांस्खोसयित्वा तु कार्तवीर्योऽर्जुनस्तदा || रावणं गृह्य नगरं प्रविवेश सुहृद्भुतः ॥ ७२ ॥ १०२ युध्यन्ताविति शेषः ॥ ५१ – ५४ ॥ प्रतिश्रु- | चकार ॥ ५६ – ६० ॥ दुर्बलेव बलरहितेव | यथा- ताः प्रतिश्रुतवन्त इत्यर्थः । मत्वर्थीयाजन्तः । गदा- वेगं स्ववेगोचितं । प्रहर्तुं स्वयं द्विधा भूत्वा क्षिताव पोथैः गदापातैः ॥ ५५ ॥ विद्युद्विशेषेण द्योतमाना पतत् । तत्र हेतुः - वरदानकृतत्राण इति ॥ ६१ ॥ सौदामिनी नभ इव राक्षसोरः काञ्चनाभं स्वर्णवर्ण | निष्टनन् रटन् || ६२-६४ ॥ साध्वीति वादिनः । ति० अशनिरवेभ्यः अशनिपातध्वनिभिः । प्रतिश्रुतिः प्रतिध्वनिः ॥ ति० प्रतिश्रुताः प्रतिध्वनिमयः ॥ ५५ ॥ ति० अहितोरसि रावणोरसि ॥ ५६ ॥ ति० नराक्षसगणेश्वरः खेदमायाति ॥ ५८ ॥ ति० वृषायुध्यन् वृषावयुध्यन्नित्यर्थः ॥ स० वृषा वृषौ । डादेशश्छन्दस्तुल्यत्वात् ॥ यथा वृषाकुञ्जरौचेत्येतेयुभ्यंस्तथैतौअयुध्येतां । वृषञ्छन्दोऽयंवृषभवाची । ततश्चावृत्त्या वृषा वृषा वृषाणौ । युध्यन्युध्यन् युध्यन्तौ । ' कनिन्युवृषि ' इतिकनिन् । ' वृषातुवासवे- वृषभेतुरगेपुंसि' इतिभानुः ॥ विनिघ्नन्तौ बभूवतुः ॥ ५९ ॥ ति० अपासर्पत् अपराड्युखएवपृष्ठतोऽगच्छत् ॥ ६२ ॥ स० साध्वी बन्धनक्रियेतिशेषः । नागो- जिभस्तुदीर्घ आइत्यूचिवान् | परंतुतेननवक्तव्यं । कर्तव्यंतेनापिविशेष्यपदपूरणं । तच्चसाध्व्यनुरूपंनिरूपितरीत्यासमञ्जसंभ- वतीतिसाध्वीतिसाधुतासंभवात् ॥ ६५ ॥ ति० आतपापाये वर्षाकाले ॥ ६८ ॥ ति० सोत्ससर्जेत्या । सहैवत्यक्तवन्त इत्यर्थः ॥ ६९ ॥ ति० अप्राप्तान्येव स्वसमीपमनागतान्येवान्तरिक्षस्थान्येव । अमरारीणांतान्यायुधानिरावणग्राहकर व्यतिरि करैराशुजग्राह ॥ ७० ॥ इतिद्वात्रिंशः सर्गः ॥ ३२ ॥ [ पा० ] १ क-ट. सममासीत् २ झ ठ. परस्परं विनिघ्नन्तौ ३ ङ-ट. गदाघातेन. ४ ख. घ. च. छ. सिंहराडिव- कुञ्जरं. ग. नरसिंहोयथासुरं. ङ. झ ञ ट मृगराडिवकुञ्जरं. ५ ङ च छ. झ. न. स्त्रासयामास.