पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वकर्पणैः ॥ सरावणा नर्दयन्तः समन्तात्मभिताः ॥ ३४ ॥ हैहयाधिपयोधानां वेग आसीत्सुदारुणः ॥ सनक्रमीनमकरसमुद्रसेव निस्वनः ॥ ३५ ॥ रावणस्य तु तेऽमात्याः ग्रहस्तशुकसारणाः ॥ कार्तवीर्यवलं क्रुद्धा निर्दहन्ति स तेजसा ॥ ३६ ॥ अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः || क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ३७ ॥ श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः ॥ उत्ततार जलात्तस्माङ्गङ्गातोयादिवाञ्जनः ॥ ३८ ॥ क्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः || प्रजज्वाल महाघोरो युगान्त इव पावकः || ३९ ॥ स तूर्णतरमादाय रहेमाङ्गदो गदाम् || अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ४० ॥ बाहुविक्षेपकरणां समुद्यम्य महागदाम् || गारुडं वेगमास्थाय चापपातैव सोर्जुनः ॥ ४१ ॥ तस्य मार्ग समारुध्य विन्ध्योर्कस्येव पर्वतः ॥ स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥४२॥ ततोस्य मुसलं घोरं लोहबद्धं महोद्धतः ॥ प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाऽम्बुदः ॥ ४३ ॥ तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ॥ ग्रहस्तकरमुक्तस बभूव प्रदहन्निव ॥ ४४ ॥ अथायान्तं तु सुसलं कार्तवीर्यस्तदाऽर्जुनः || निपुणं वश्चयामास सँगदोऽगदविक्रमः ॥ ४५ ॥ ततस्तमभिदुद्भाव ग्रहस्तं हैहयाधिपः ॥ भ्रमयानो गदां गुर्वी पञ्चबाहुशतोच्छ्रयाम् ॥ ४६ ॥ तथाहतोतिवेगेन प्रहस्तो गदया तदा || निपपात हतः शैलो वज्रिवज्रहतो यथा ॥ ४७ ॥ ग्रहस्तं पतितं दृष्ट्वा मारीचशुक्रसारणाः || समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ४८ ॥ अपक्रान्तेष्वमात्येषु प्रहस्ते विनिपातिते || रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ४९ ॥ सहस्रबाहोस्तयुद्धं विंशद्धाहोय दारुणम् || नृपराक्षसयोस्तत्र चारब्धं रोमहर्पणम् ।। ५० ।। सागराविव संरब्धौ चलन्मूलाविवाचलौ || तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ५१ ॥ बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ॥ मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५२ ॥ रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ || परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ५३ ॥ वज्रप्रहारानचला यथा घोरान्विषेहिरे || गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ५४ ॥ १०१ ३३ ।। कर्षणं आयुधविशेषः || ३४ || वेगो युद्धवेगः | अशोकापीड: || ४४ || वचयामास प्रतिहतवानि- ॥ ३५ – ३८ ॥ युगान्ते युगान्तकाले उत्थितो घोरः त्यर्थः । सगदः गदासहितः । अगदः अरोग: अप्रति- पावक इव ॥ ३९–४०॥ बाहुभिर्विक्षेपकरणं भ्रमणं बन्धइतियावत् । विक्रमो यस्येति विग्रहः ॥ ४५ ॥ यस्यास्तां | वेगः शैव्यं आपपातैव न तु विलम्बित- पञ्चबाहुशतैः उच्छ्रय उत्क्षेपो यस्याः सा ॥ ४६ ॥ वान् ॥ ४१–४२ ।। अस्य प्रेषयन् अर्जुनस्य संहा- |तथा शैल इव स्थितः निपपात ॥ ४७-५० ॥ रार्थ क्षिपन् ॥ ४३ ॥ अशोकपुष्पकृत: आपीड: | सागरावित्यादिश्लोकत्रयं || वाशितार्थे करेण्वर्थे । । ति० कर्षणमायुधविशेषः || सरावणान्मन्त्रिणोर्दयन्तोऽर्जुनमन्त्रिणः बभूवुरितिशेषः ॥ ३४ ॥ ति० नकादिसहितसमुद्रस्ये- वस्वनआसीत् ॥ ३५ ॥ ति० स्त्रीजनं नभेतव्यमित्युक्त्वेतिशेषः ॥ अञ्जनोदिग्गजः ॥ ३८ ॥ ति० अर्जुनरूपः पावकइतिरूपकं ॥ ३९ ॥ ति० गारुडंवेगं गरुडसदृशवेगं ॥ ४१ ॥ ति० विन्ध्य पर्वतोर्कमार्गरुवास्थितइति पौराणिकीकथा ॥ ४२ ॥ ति० अस्यप्रेपयन् अस्यसंहारार्थक्षिपन् ॥ ४३ ॥ ति० अशोकापीडं अशोकपुष्पशिखा | तत्संनिभः ॥ ४४ ॥ ति० गतविक्लब: गतभयः ॥ ४५ ॥ स० 'वासितास्त्री करेण्वोच' इत्यमरः । स्त्रीसामान्यवाची शब्दोऽयमितिवासितार्थे धेन्वर्थे । वृषौयथेत्यप्यन्वे. ति । ‘वासितार्थेवृषाविव’ इत्यादिप्रयोगात् । स्वामीवाशशब्द इत्यस्येद मितितालव्य मध्यंपपाठ ॥ २५ ॥ स० विषेहिरइत्यभूतो- पमा । यद्वा वज्रार्थप्रहारान् पाषाणकुट्टककृतान् । आकरागारत्वागिरीणां ॥ ५४ ॥ [ पा० ] १ ग. ङ च छ. झ ञ ट यथान्तकः २ क. ङ. ज–ट आधावमानंमुसलं. ३ ङ. च. छ. झ ञ ट गदथागत विक्लब: