पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ || पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥ बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् || मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ १४ ॥ नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् || गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥ बालानां वरनारीणां सहस्रेण समावृतम् || समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥ तमद्भुततमं दृष्ट्वा राक्षसौ शुक्रसारणौ || सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥ बृहत्सालप्रतीकाशः कोप्यसौ राक्षसेश्वर || नर्मदां रोधवच्या क्रीडापयति योषितः ॥ १८ ॥ तेन बाहुसहस्रेण सन्निरुद्धजला नदी || सागरोद्गारसंकाशानुद्द्वारान्त्सृजते मुहुः ॥ १९ ॥ इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ॥ रावणोर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ २० ॥ अर्जुनाभिमुखे तेसिन्रावणे राक्षसाधिपे || चण्ड: प्रवाति पवनः सनाद: सरजास्तदा || सकृदेव कृतो रावः सैरक्तः प्रेषितो धनैः ॥ २१ ॥ १०० महोदरमहापार्श्वधूम्राक्षशुकसारणैः || संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ॥ २२ ॥ अदीर्घेणैव कालेन स तदा राक्षसो बली ॥ तं नर्मदाइदं भीममाजगामाञ्जनप्रभः ॥ २३ ॥ स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् || नरेन्द्रं पश्यते राजा राक्षसानां तदाऽऽर्जुनम् ॥ २४ ॥ स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥ २५ ॥ अमात्या: क्षिप्रमाख्यात हैहयस्थ नृपस्य वै ॥ युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ॥ २६ ॥ रावणस्य वचः श्रुत्वा मन्त्रिणोथार्जुनस्य ते || उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ २७ ॥ युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ॥ यः क्षीवं स्त्रीवृतं चैव योद्धुमुत्सहसे नृपम् ॥ २८ ॥ स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम् || वाशितामध्यगं मतं शार्दूल इव कुञ्जरम् ॥ २९ ॥ क्षमखाद्य दशग्रीव चोष्यतां शर्वरी त्वया ॥ युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ ३० ॥ यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णा समावृता || निहत्यामांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ३१ ॥ ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु || सूदिताश्चापि ते युद्धे भक्षिताच बुभुक्षितैः ॥ ३२ ॥ ततो हलहलाशब्दो नर्मदातीर आवभौ ॥ अर्जुनस्यानुयातॄणां रावणस्य च मन्त्रिणाम् ॥ ३३ ॥ पश्येतां अपश्यतामित्यर्थः ॥ १३-१७ || रोधवत् | सकृत् एकवारमेव | घनै: प्रेषितः कृतः । वर्षुकमे- तटवत् । अकारान्तत्वमा । क्रीडापयतीतिपुगार्ष: घानां सकृद्राव उत्पात इति भावः ॥ २१ – २३ ॥ क्रीडयतीत्यर्थः ॥ १८-१९ ॥ निशाम्य दृष्ट्वा । वाशिताभिः करेणुभिः । “ वाशिता स्त्रीकरेण्वोश्च" अर्जुन इत्युक्तत्वेति । अन्यस्यैवं सामर्थ्य न संभवतीति इत्यमरः । पश्यते पश्यति ॥ २४ ॥ इत्येवं वक्ष्यमा- युत्त्येति शेषः ॥ २० ॥ रावणस्योत्पातमाह - णप्रकारेण ॥२५ - २७॥ युद्धस्येत्यादि ।। व्यङ्ग्योक्तिः । सकृदिति ॥ सरक्तः रक्तवर्षसहितः । रावः शब्दः | | क्षीवं मत्तं ||२८-२९|| उष्यतां इहेति शेषः ॥ ३०- ति० रोधवत् रुभ्यतेऽनेनेतिरोधसेतुः । तद्वदित्यर्थः ॥ १८ ॥ ति० सरक्तपृषतः रक्तबिन्दुसहितोराषः शब्दः सकृदेव रावण- प्रस्थानेन सहैवैकवारंचघनैः कृतः । रक्तवर्षुकमेधानांसकृद्र बोप्युत्पातइतिकतकः ॥ २२ ॥ ति० उष्यतां इहेतिशेषः । युध्ये- तिपदं । समरेश्रद्धायद्यस्तितदाश्वोऽर्जुनं युध्य युध्यस्व ॥ ३० ॥ ति० हलहले तिशब्दानुकारः । अनुयात्रा: अनुचराः | मन्त्रिणइत्यर्थः ॥ ३३ ॥ [ पा० ] १ घ. च. छ. शैलवडवा. २ क – घ. तस्मिन्प्रस्थितेराक्षसेश्वरे ३ झ. सरक्तपृष्ठतोधनैः ४ क. ख. घ. ङ. न्च॰ ज. झ. ट. सायुधास्तंच. ५ झ. युद्धश्रद्धातु ६ क – ट, यदिवापिलरातुभ्यंयुद्धश्रद्धा समावृता । निपात्यास्मानू. ७ ङ, च. छ. झ ञ ट नर्मदातीरगोबभौ ८झ स्यानुयात्राणां.