पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 I सर्ग: ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्वात्रिंशः सर्गः ॥ ३२ ॥ नर्मदायरावणोपवेशदेशतोऽर्वाग्देशेस्त्रीभिः सहजलक्रीडांकुर्वताऽर्जुनेन निजभुजसहस्त्रेण नर्मदाप्रवाहेनिरुद्धे प्रतिस्त्रोतसा तत्प्रवाहेण रावणार्जितपूजासाधनपुष्पाद्यपहरणम् ॥ १ ॥ प्रवाहमातिलोम्यपरिज्ञानायस्वप्रे पिताभ्यांशुकसारणाभ्यां तत्का रणनिवेदितेनरावणेनार्जुनमेल रणायसमाह्वानम् ॥ २ ॥ अर्जुनेन रणेनिजगदामहारेणविह्वलस्थरावणस्य बलाद्वन्धनेन निजनगरप्रापणम् ॥ ३ ॥ नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ॥ पुष्पोपहारं कुरुते तस्मादेशाददूरतः ॥ १ ॥ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ॥ क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ तासां मध्यगतो राजा रराज च तदाऽर्जुनः ॥ करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥ जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् || रुरोध नर्मदावेगं वाहुभिर्बहुभिर्वृतः ॥ ४ ॥ कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् || कूलोपहारं कुर्वाणं प्रतिस्रोत: प्रधावति ॥ ५ ॥ समीननक्रमकरः सपुष्पकुशसंस्तरः ॥ स नर्मदाम्भसो वेगः प्रावृकाल इवाबभौ ॥ ६ ॥ स वेगः कार्तवीर्येण संप्रेषित इवाम्भसः ॥ पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥ रावणोर्धसमाप्तं तमुत्सृज्य नियमं तदा || नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥ पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् || वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥ ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् || निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ १० ॥ सव्येतरकराङ्गुल्या सशब्दं च दशाननः || वेगप्रभवमन्वेष्टुं सोदिशच्छुकसारणौ ॥ ११ ॥ तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ || व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ १२ ॥ मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥ | प्रविश्यत्विति । पूर्वामाशां प्रविश्य पश्यत इत्यन्वयः । रावण इति शेषः ॥ ८-९ ॥ स्वभावस्य नदी- स्वभावस्योपरमेऽलंभावे स्थितां नदीमपश्यत् । नद्या प्रतिस्रोतः प्रतिप्रवाहं ॥ ५ ॥ कुशसंस्तरः कुशा एव स्वभावो निमित्तान्तरेण वेति जिज्ञासयेति स्तरणं ॥ ६–७ ॥ रावण इत्यादिश्लोकद्वयं || शेषः ॥१०॥ सव्येतरकराङ्गुल्या सशब्दं शीघ्रान्वे- सागरोद्गारसन्निभं समुद्रपरीवाहसन्निभं | पूर्वामाशां | षणद्योतिहुंकारसंहितं यथा तथा ॥ ११ – १२ ॥ शि० नर्मदेति । श्लोकद्वयमेकान्वयि ॥ १ ॥ स० कार्तवीर्यभुजासक्तं तद्भुजकृतबन्धनं । कूलोपहारंकुर्वाणंसत् प्रतिस्रोतः यथावास्थितप्रवाहविपरीतप्रवाहंअधावत् ॥ ५ ॥ ति० कुशसंस्तरः | कुशास्तरणं । सतुतत्पुलिने कर्म निमित्तमृषिगणकृतः ॥ ६ ॥ ति० संप्रेषितइव रावणंप्रतीतिशेषः ॥ ७ ॥ ति० पश्यते पश्यतिस्म ॥ ८ ॥ ति० सागरोद्द्वारः चन्द्रोदयकालिक - समुद्रपरिवृद्धिः । तेन हिसमुद्रगानद्यस्तत्समीप देशे विपरीतप्रवाहाः क्रियन्तइतिप्रसिद्धम् ॥ पश्चिमेनमार्गेणपूर्वामाशांप्रविश्यवर्धमान- भंभसोवेगंदृष्ट्वा प्रतिकूलांकान्तांप्रियामिवनर्मंदांपश्यति स्मेत्यन्वयः । पूर्णामाशांप्रविश्यतीतिपाठे रावणइतिशेषः । तस्यकियद्दूरंवृद्धि- रितिनिर्णयार्थमितिभावः । तस्मात्प्रविश्यतुइत्येषपाठोयुक्तःकतकसंमतश्च ॥ ९ ॥ शि० रावणोपश्यत् अजानात् । एतेनान्येनके- नचिदयमुपद्रवःकृतइतिरावणेन निश्चित मितिसूचितं । ति०ततः पूर्वदिशि ॥ १० ॥ स०सव्येतरकराङ्कल्यावामदक्षिणहस्ताङ्गुलिभिः ॥ अशब्दास्यः निश्शब्दमुखः ॥ नियमस्थत्वात् ॥ ११ ॥ ति० व्योमान्तरगतौ आकाशमार्गगौ ॥ १२ ॥ [ पा० ] १ झ . ह्यशब्दास्योदशाननः