पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ मामासीनं विदित्वेह चन्द्रायति दिवाकरः ॥ २७ ॥ नर्मदाजलशीतच सुगन्धिः श्रमनाशनः || मद्भयादनिलोप्यत्र वात्येष सुसमाहितः ॥ २८ ॥ इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ॥ नक्रमीनविहङ्गोर्मि: सभयेवाङ्गना स्थिता ॥ २९ ॥ तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि || चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ३० ॥ ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् || महाँपद्ममुखा मत्ता गङ्गामिव महागजाः ॥ अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ३१ ॥ अहमष्यद्य पुलिने शरदिन्दुसमप्रमे || पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ३२ ॥ रावणेनैवमुक्तास्तु ग्रहस्तशुकसारणाः || समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ३३ ॥ राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नमदा नदी || वामनाञ्जनपद्माद्यगङ्गा इव महागजैः ॥ ३४ ॥ ततस्ते राक्षसाः स्त्रात्वा नर्मदायां महाबलाः ॥ उत्तीर्य पुष्पाण्याज हुर्बल्यर्थ रावणस्य तु ॥ ३५ ॥ नर्मदापुलिने हृद्ये शुभ्राभ्रसदृश || राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः || ३६ ॥ पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ॥ अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ३७ ॥ तत्र स्नात्वा च विधिवजप्त्वा जप्यमनुत्तमम् || नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ३८ ॥ तत्र क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् || रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः || तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ॥ ३९ ॥ यत्र यत्र च याति स रावणो राक्षसेश्वरः || जाम्बूनदमयं लिङ्गं तत्र तत्र स नीयते ॥ ४० ॥ वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः || अर्चयामास गन्धैश्च पुष्पैचामृतगन्धिभिः ॥ ४१ ॥ ततः सतामार्तिहरं परं वरं वरदं चन्द्रमयूखभूषणम् ॥ समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्त्रणर्त चाग्रतः ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ सुवर्णं कृत्वेत्यर्थः । चन्द्रायति चन्द्रवदाचरति ॥ २७ | कारा: अचला इव स्थिताः राक्षसाः । तत्र तत्र नीयत - २८ ॥ नर्मवर्धिनी प्रीतिवर्धिनीत्यर्थः ॥ २९ - इति प्रतिदिवसं देवपूजार्थं तैः राक्षसैरिति शेषः । ३० ॥ अवगाहध्वं स्नानं कुरुत । शर्मदां सुखदां । यदा कैलासे रावणः पीडितो विमुक्तः तदाप्रभृति महापद्मः पुण्डरीकाख्यो दिग्गजस्तन्मुखा: महागजा तत्प्रीत्यर्थं रावणो लिङ्गपूजां करोति स्मेति ज्ञेयम् इव ॥ ३१ ॥ पुष्पोपहारं पुष्पबलिं ॥३२ - ३८ ॥ ।।३९—४१ ॥ जगाविति । सामगानं कृतवानित्यर्थः । तत्र नर्मदापुलिने । प्राञ्जलिं रुद्रं प्रति कृताञ्जलिं । सान्नां सहस्रशाखापारगो रावण इति प्रसिद्धिः ॥ ४२ ॥ तद्गतीवशमिति च्छान्दसो दीर्घः । मूर्तिमन्तः प्राण्या- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मद्भयादित्यत्राप्यन्वेति ॥२७॥ ति० नक्रादियुताऊर्मयोयस्याःसा ॥ २९ ॥ ति० सार्वभौममुखाः सार्वभौमनामकदिग्गजादयः ॥ ३१ ॥ ति० राक्षसेन्द्राएवगजास्तैः । ति० वामनायाः दिग्गजाः | गङ्गाइव महागजैरित्यसंधिरार्षः ॥ ३४ ॥ ति० रावणस्यबल्यर्थे रावणकर्तृकशिवपूजार्थ ॥३५॥ ति० तल्लिनं जांबूनदमयंनित्यपूजालिङ्गं । ऐश्वर्यकामनयाहि तल्लिङ्गपूजारावणस्य | एश्वर्यकामस्य सौवर्णलिङ्गपूजायास्तत्रेषूक्तेः ॥ ४१ ॥ इत्येकत्रिंशः सर्गः ॥ ३१ ॥ [ पा० ] १ क. ख. च. छ. धर्मवर्धिनी. ङ. झ. न. ट. शमवर्धिनी. २ क— घ. ज. शर्मंदांनृणां. ३ ङ. झ ञ ट. सार्वभौममुखाः. ४ ङ. च. झ ञ ट पाप्मनो. ५ च. छ. गङ्गेवसुमहानदी. ६ क-घ. ज. नर्मदायांवरांभसि. ७क. घ. च. छ. ज. चायतानू. 1