पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । ९७ तमेव दिवसं सोथ हैहयाधिपतिर्बली ॥ अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ९ ॥ तमेव दिवसं सोथ रावणस्तत्र आगतः । रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। १० ।। कार्जुनो नृपतिः शीघ्र सम्यगाख्यातुमर्हथ ।। रावणोऽहमनुप्राप्तो युद्धेप्सुर्तृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ११ ।। इत्येवं रावणैोक्तास्त अमात्याः सुविपश्चितः । अबुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ १२ ॥ श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् । अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥१३॥ स तमभ्रमिवाविष्टमुद्धान्तमिव मेदिनीम् ॥ अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्वरम् ।। १४ ।। सहस्रशिखरोपेतं सिंहाध्युपितकन्दरम् । प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। १५ ।। देवदानवगन्धवैः साप्सरोगणकिन्नरैः ॥ खत्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छूयम् ।। १६ ।। नदीभिः स्यन्दमानाभिः स्फाटिकप्रतिमं जलम् ।। फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥१७॥ उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् । पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। १८ ।। महिपैः सृमरैः सिंहै: शार्दूलक्षगजोत्तमैः । उष्णाभितप्रैस्तृपितैः संक्षोभितजलाशयाम् ॥ १९ ॥ चक्रवाकेः सकारण्डैः सहंसजलकुकुटेः । सारसेश्व सदा मत्तः सुकूजांद्भिः समाधृताम् ।। २० ।। फुलढुमकृतोत्तंसां चक्रवाकयुगस्तनीम् । विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। २१ ।। पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् । जलावगाहसंस्पर्श फुलोत्पलशुभेक्षणाम् ।। २२ ॥ पुष्पकादवरुह्याशु नर्मदां सरितां वराम् । इष्टमिव वरां नारीमवगाह्य दशाननः ।। २३ ।। स तस्याः पुलिने रम्ये नानामुनिनिषेविते । उपोपविष्टः सचिवैः सार्ध राक्षसपुङ्गवः ॥ २४ ॥ प्रख्याय नर्मदां चाथ गङ्गेयमिति रावणः । नर्मदादर्शजं हर्षमाप्तवात्राक्षसाधिपः ।। २५ ।। उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। २६ ।। एष रश्मिसहस्त्रेण जगत्कृत्वैव काञ्चनम् ॥ तीक्ष्णतापकरः सूर्यो नैभसोऽधैं समाश्रितः ॥ कुण्डमन्निकुण्डं तत्र शेत इतेि तथा । पचाद्यच । | इत्यमरः॥१५-१६॥ स्फटिकप्रतिमं जलं स्यन्दमाना 'शयवासवासिषु' इत्यलुक् ॥ ८ ॥ तमेवदिवसमि- | भिर्नदीभिहेतुभिर्जिह्वाभिरुपलक्षितमनन्तमिव विष्ठितं ति, यस्मिन्दिवसे रावणोगतस्तस्मिन्नेव दिवसइत्यर्थः । |॥ १७ ॥ उत्क्रामन्तंऊध्वै व्याप्रवानं । उल्कावन्तमिति स्रीभी रन्तुं नर्मदां गत इत्यन्वयः। ईश्वरः राजा ॥९-|पाठान्तरं । चलोपलजलां उपलेषु चलानि जलानि ११॥अत्रुवन् त्रुवते स्म ॥१२॥ विश्रवसः पुत्रो रावणः। |यस्यास्तां । चलोपलामलामिति पाठे जलवेगेन चलो पौराणां मुखादिति शेषः। अपस्मृत्य पुरान्निवृत्य॥१३॥ |पलतया निर्मलां । १८-२० ॥ अथ नर्मदायाः स इत्यादिसार्धपञ्चकै । अभ्रमिव महामेघमिवाविष्टं । | स्रीसाम्यमाह-फुलद्रुमेत्यादिना ।। २१-२४ ॥ नर्मदां मेदिनीमुद्धान्तमिव उद्भिद्योद्रतमेिव ।॥१४॥ सहस्रशि- | गङ्गेयमिति प्रख्याय प्रशस्य ।। २५ । सलीलं सवि खरोपेतं । प्रपातपतितैः तटात्पतितै ।“प्रपातस्तु तट ' | लासं ।। २६ । एष इत्यादिसार्ध । काञ्चनं कृत्वा ति० जनानांजलावगाहेसुखस्पर्शरूपगुणोयस्यास्तां ॥ २३ ॥ ति० नर्मदां गङ्गेयमिति प्रख्याय प्रशस्य । अनेन नर्मदायास्त द्वत्पापनाशकखंतत्तटकृतशिवपूजादेर्महाफलखंगङ्गायाःसर्वोत्कृष्टलंचसूचितम् ॥ २५ ॥ स० चन्द्रायति चन्द्रायते ॥ [ पा० ] १ एतदर्धस्यस्थाने. क. ध. पाठयोः रावणोराक्षसेन्द्रस्तुतस्मिन्प्राप्यदिनेपुरीं । अपश्यन्हैहयेशंतुतस्यामात्यानपृच्छ त. इलेखकःश्लोकोदृश्यते. २ क. ख. ग. ज. मव्यप्रैर्युष्माभिः. ३ क. ड. च. ज. झ. ट. रावणेनोक्तायेऽमाल्या . ४ क-ट पतितैःशीतैस्साट्टहासमिवांबुभिः. ५ क-घ. च. ज . नानाकुसुमशोभिते. ६ क. ख. ग. ड-ट. नभसोमध्यमास्थितः. वा. रा. २५३