२५० मंतङ्गादिमहर्षेिमहिमप्रशंसनपूर्वकं गमन श्रीमद्वाल्मीकिरामायणम् । ईत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा । तस्मिन्मुहूर्ते शबरी देहं जीर्ण जिहासती ॥ ३२॥ अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने । ज्वलत्पावकसंकाशा खर्गमेव जगाम सा ॥ ३३ ॥ दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना । दिव्याम्बरधरा तत्र बभूव प्रियदर्शना ।। विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ॥ ३४ ॥ यत्र ते सुकृतात्मानो विहरन्ति महर्षयः । तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना ।। ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥ पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ [ आरण्यकाण्डम् ३ निर्वर्तितपुण्यतीर्थावगाहनाह्निकेनरामेण लक्ष्मणेनसहशबर्याश्रमान्निर्गत्यपंपांप्रति दिवं तु तस्यां यातायां शबर्या 'स्खेन तेजसा ।। लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥ र्स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् ॥ हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥२॥ दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ॥ विश्वस्तमृगशार्दूलो नानाविहगैसेवितः ॥ ३ ॥ सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ ४ ॥ प्रनष्टमशुभं तैत्तत्कल्याणं समुपस्थितम् ॥ तेन तत्त्वेन हृष्ट मे मनो लक्ष्मण संप्रति ।। ५ ।। कामं काम्यमानंलोकं ।। ३१ । इतीति श्लोकद्वयमे- | लस्वर्गस्यक्षयित्वावगमात् । अस्मिन्सर्गेसार्धपञ्चत्रिं कान्वयं । जिहासती हातुमिच्छन्ती । स्वर्गमेवेत्यव-|शाच्छोकाः ।। ३५ । इति श्रीगोविन्दराजविरचिते धानंद्योतयति ॥ ३२-३३ ॥ दिव्येतिसार्धश्लोकः । |श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड तत्र स्वर्गगमनारम्भे । विद्युत् विशेषेणद्योतमाना । | व्याख्याने चतुःसप्ततितमः सर्गः ॥ ।। ७४ सँौदामिनी तटेित् ।। ३४ ॥ ते गुरवः सुकृतात्मान सुकृतधैर्यवन्तः । आत्मसमाधिना आत्मविषययोगेन । | अथ पम्पागमनंपञ्चसप्ततितमे । स्वेनतेजस उप एतत्सर्गवृत्तान्तेन मतङ्गशिष्योपदिष्टसमाधिकाशबरी | लक्षितायामितिशेषः । १ । एकाग्रे एकचित्तं ॥२॥ गुर्वनुज्ञयारामागमनपर्यन्तंस्थित्वा ततोरामानुज्ञयाख- | बह्वाश्चर्यः अत्यद्भतपुष्पफलादिसंपत्तिसकलतीर्थसमा समाधिबलेलनस्वगुरुगतंस्वर्गविशेषंप्राप्तत्यवगम्यते । गमादिना आश्चर्ययुक्त विश्वस्ता: विश्वासंप्राप्ता स्रियाअपि विदुरादेरिवयोगाधिकारःसंभवति । तद्- | परस्परहिंसकत्वरहिताः मृगाः शार्दूलाश्चयस्मिस्तथा ङ्गयज्ञादिकर्मस्थाने गुरुशुश्रूषा । स्वर्गश्च आदौ अक्ष-|॥ ३ । उपस्पृष्टं रुन्नातं । अनेन पुण्यतीर्थप्राप्तौ रुन्नान यानित्युक्त्या पुनरावृत्तिरहितंपरमपदमित्यवगम्यते । |श्राद्धादिकंकर्तव्यमित्युतं ।। ४ । तत्तदशुभं प्रनष्टं । “एवमेवामुत्रपुण्यचितोलोकःक्षीयते' इतिश्रुत्याकेव- | कल्याणं शुभं । तेन अशुभनिवृत्तिपूर्वकशुभप्राया ती० सर्गश्रवणफलंस्कान्दे–‘शबर्यासत्कृतिंश्रुखा साध्वीनांलोकगोभवेत्'इति ॥ ३५ ॥ इतिचतुस्सप्ततितमःसर्गः ॥ ७४ ॥ शि० चिन्तयामास मुनिप्रभावंप्रशंसयामासेत्यर्थः ॥ १ ॥ [पा०] १ ड. झ. ट. इत्येवमुक्ताजटिला२ क. ख. ग. जीर्णदेहंविहायतत्. च. छ. ज. ज. देहंजीर्णविहायतत्. ३ ग. ड. झ. ट. जगामह. ४ विराजयन्तीत्येतदर्धात्परं. क. ख. घ. च. छ. ज. अ. पाठेषु. प्रणम्यशिरसारामंखर्गतासुप्र भानना. इत्यर्धमधिकंदृश्यते. ५ क. घ. कर्मणा.:६ ड-ट. चिन्तयित्वातु. ७ ग.-ट. दृष्टोमयाऽऽश्रमः. ८ घ. बह्वाश्वयों महात्मनां. ९ च. छ. ज. ल. विहगशोभित १० ग. झ. समुद्राणामेषां. ११ ख. ग. घ. च. छ. ज. यत्तत्कल्याणं. क ड. झ. अ. ट. यन्नःकल्याणं. १२ क. ड, च. छ. झ. अ. ट. तेनत्वेतत्प्रहृष्ट, ख. तेनचापिप्रहृष्ट. [
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५२
दिखावट