पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २४९ इयं प्रत्यक्थली वेदिर्यत्र ते मे सुसत्कृताः ॥ पुष्पोपहारं कुर्वन्ति श्रमादुद्वपिभिः करैः ॥ २३ ॥ तेषां तपःप्रभावेन पश्याद्यापि रघूद्वह ।। द्योतयन्ति दिशः सर्वाः श्रिया वेद्येोतुलप्रभाः ॥ २४ ॥ अशकुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ॥ चिन्तितेऽभ्यागतान्पश्य सहितान्सप्त सागरान् ॥ २५ ॥ कृताभिषेकैस्तैन्यैस्ता वल्कलाः पादपेष्विह । अद्यापि नौवशुष्यन्ति प्रदेशे रघुनन्दन ॥ २६ ॥ देवकार्याणि कुर्वन्द्रियनीमानि कृतानि वै॥ पुष्पैः कुवलयैः सार्ध म्लानत्वं नोपयान्ति वै ॥ २७ ॥ कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया । तदिच्छाम्यभ्यनुज्ञाता त्यतुमेतत्कलेवरम् ॥ २८ ॥ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ॥ मुनीनामश्रमो येषामहं च परिचारिणी ॥ २९ ॥ धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः । प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥ ३० ॥ तामुवाच ततो रामः श्रमणीं संशितव्रताम्। अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम्॥३१॥ वन्तः । महाद्युते इत्यनेन मुनिप्रभावश्रवणेसन्तोषव- | आद्रवल्कलाः अद्यापिनावशुष्यन्ति नशुष्काभवन्ति । त्वंव्यज्यते ।। २२ । प्रत्यक्स्थली प्रत्यक्प्रदशे स्थली- | तदङ्गसम्पर्कवैभवादितिभाव ॥ २६ । देवकार्याणि भूता। प्राकूप्रदेशेपश्चिमाभिमुखविष्णुस्थानत्वेन प्रत्यङ्- |देवार्चनानि । कुर्वद्भिः तैः कुवलयैः सह पुष्पैः पुष्पा निन्नेत्यर्थः । वेदिः देवपूजास्थानं । इयं अवलोक्यता-|न्तरैः । यानीमानि माल्यानिकृतानि तानि म्लानत्वं मिति शेषः । यत्र वेद्यां । मे मया सुसत्कृतास्ते गुरवः | नोपयान्ति भक्तयतिशयेनसमर्पितत्वादिति भावः । श्रमात् वृद्धताकृतयापुष्पधारणाशक्त्या उद्वेपिभिः |एतावता ग्रन्थसंदर्भणू “गुरुं प्रकाशयेद्धीमान्’ इत्यु उत्कम्पिभिः । करैः पुष्पोपहारं पुष्पैरर्चनं कुर्वन्ति | क्तरीत्या आचार्यवैभवप्रकटनंकर्तव्यमितिसूचितं अकुर्वन् । अत्र वेदिरिति जात्येकवचनं उत्तरश्लोके |।। २७ । उपसंहरति-कृत्रुन्नमिति । अभ्यनुज्ञाता बहुवचनप्रयोगात् बहूनां बहुवेदिसंभवाच ।। २३ ॥ | त्वयेतिशेष ।। २८ । त्यक्त्वाकिंकरिष्यसीत्यत्राह तेषां अस्मदाचार्याणां प्रभावेन अतुलप्रभा: इमाः |तेषामिति । समीपं पादमूलं । गमिष्यामि । “यानहैं वेद्यः । अद्यापि तेषामसन्निधानेपि । सर्वा दिश: द्योत- | पर्यचारिषं' इत्यन्यत्रोक्त : । आश्रमः अयमिति यन्ति प्रकाशयन्ति । अनेन आचार्याभिमतो देशस्त- | शेषः । येषामाश्रमोऽयं येषामहं च परिचारिणी दसन्निधानेप्युद्देश्य इत्युक्तं ॥ २४ ॥ पुनवैभवान्तर-|तेषां समीपं गन्तुमिच्छामीतिसंबन्ध ।। २९ ।। माह-अशकुवद्भिरिति । उपवासश्रमेण अलसैः | वचः आचार्यवैभवप्रदर्शनादिरूपं । तत्त्वतः मायां मन्दैः । अतएव सप्तसागरान् गन्तुमशकुवद्भिः मे |विना । आश्चर्यमिति मत्वा ॥ ३० ॥ अथ शबरीम गुरुभिः चिन्तिते चिन्तितमात्रे । अभ्यागतान् | नोरर्थपूरयति-तामिति । शंसितव्रतां आचार्यपरि अभिमुखमागतान् । सप्तसागरान् पश्य ।। २५ ॥ |चर्यानिष्ठामित्यर्थः । अचित: तव गुरुवृत्तिसंदर्शने अद्भतान्तरमाह-कृतेति । इह प्रदेशे सागरप्रदेशे । |नैवेतिशेषः । भक्तया वन्यसंपादनमात्रेण वा । अयमे कृताभिषेकैः कृतस्रानैः । तैर्गुरुभिः पाद्पषु न्यस्ता |वार्थ:संक्षेपे “शबर्या पूजितः सम्यक्’ इत्युक्तः । देहपञ्जरं । तीर्थमितिपाठे सएवार्थः । मन्त्रवत् तद्धोममन्त्रवत् । जुहवांचक्रिरे हुतवन्तः ॥ २२ ॥ ती० दृष्टं खया मयाद र्शितं । श्रुतं खया मयाश्रावितं ॥ २८ ॥ शि० भावितात्मनां परिशीलितपरमात्मनां ॥ २९ ॥ [ पा० ] १ क. च. छ. ज. पुरुषर्षभाः. २ ख. ग. तेषामेवंप्रभावेन. ३ क -ट, रघूत्तम. ४ क. ड.-ट. द्योतयन्ती ५ कड.-ट. वेद्यतुलप्रभा. ६ च. छ. ज. अ. चिन्तितेनागतान्सप्तसहितान्पश्य. क. चिन्तितैरागतान्पश्य. ख. ग. विन्ति . तेनागतान्पश्यसमेतान्सप्त. ७ ख. घ.-ट. नविशुष्यन्ति. क. नैवशुष्यन्ति. ८ क. घ. झ. किसलयैः. ९ ख. ग. ड. झ. ट म्लानत्वेनतुयान्तिवै. क. नग्लानिमुपयान्तिच. १० क. कदावासंवनंदृष्टं. ११ ख. च. छ.ज. माश्रमे. १२ च. छ. ल. धर्मिष्ठा यावचः. ग. धर्मिष्ठतद्वचः. १३ ड. झ. ट. मितिचाब्रवीत्. १४ ड. झ. ट. शबरीं. १५ ख. घ-ट. भद्रे. १६ ग. तपोधने .