पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७३ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २४५ ततस्तद्राम पम्पायास्तीरमश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्य काकुत्स्थ पश्यसि ॥ २६ ॥ न तत्राक्रमितुं नागाः शकुवन्ति तैमाश्रमम् ॥ विविधास्तत्र वै. नागा वने तस्मिश्च पर्वते ॥ २७॥ ऋषेस्तस्य मतङ्गस्य विधानात्तच काननम् ॥ [ मैतङ्गवनमित्येव विश्रुतं रघुनन्दन ] ॥ २८ ॥ तस्मिन्नन्दनसंकाशे देवारण्योपमे वने ॥ नानाविहगसंकीर्णे रंस्यसे राम निवृतः ॥ २९ ॥ त्रैश्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः । सुदुःखारोहँणो नाम शिशुनागाभिरक्षितः ॥ ३० ॥ [ महात्मभिर्महायशैः स्तोत्रमत्रैर्द्धिजातिभिः ।।] उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥३१॥ शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । त्खझे लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ।। ३२ ।। नै त्वेनं विषमाचारः पापकर्माऽधिरोहति ॥ ३३ ॥ यैस्तु तं विषमाचारः पापकर्माऽधिरोहति । तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥ ३४ ॥ तैत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् ।। क्रीडतां राम पम्पायां मैतङ्गारण्यवासिनाम्।॥३५॥ सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः ॥ प्रचरन्ति पृथकीर्णा मेघवर्णास्तरस्विनः ॥ ३६ ।। ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ॥ [ अत्यन्तसुखसैस्पर्श सर्वगन्धसमन्वितम्] ।। निवृताः सैविगाहन्ते वनानि वनगोचराः ।। ३७ ।। तत् शबर्यावासभूतं । गुह्य इतरैरदर्शनीयं पश्यसि |मारोहणं यस्य स तथा । तत्र हेतुः-शिशुनागाभिर द्रक्ष्यसि ॥ २६ ॥ तस्मिन्वने वक्ष्यमाणे ऋश्यमूक-|क्षितइति । अत्र नागाः गजा एव । “विविधास्तत्र पर्वते च । विविधाः नागाः गजाः सन्ति । तथापि | वैनागाः ’ इतिपूर्वमुक्तत्वात्।॥ ३० ॥ उदार:प्रशस्तः । तमाश्रमं तत्र प्रदेशे स्थिताः नागा: नाक्रमितुं शकु- | पूर्वकाले ब्रह्मणा उदारः प्रशस्तोनिर्मितः । कुत्रचिन्नि वन्ति ।। २७ । अनाक्रमणे हेतुमाह-ऋषेरिति । | मिते अयं प्रशस्तोभवत्वित्यनुगृहीतइत्यर्थः ।। ३१ ।। तस्य पूर्वोक्तस्य । विधानात् निर्माणात् । तत् काननं |प्राशस्यमाह-शयानइति ।। ३२-३३ । अतिश जातमिति शेषः ।। २८ । देवारण्यं चैत्ररथादि । |यान्तरमाह--यस्त्विति ॥ ३४ ॥ शिशुनागानां कल निर्तृत: निवृत्तदुःख इत्यर्थः ।। २९ । एवमनुग्रहार्थ |भानां । तत्रापीत्यत्रापिशब्दात्पम्पादिकंसमुचीयते । शबर्याश्रमंगत्वा पुनःपम्पाया :पुरस्तादृश्यमूकोगन्त- | अनेन ऋश्यमूकस्य पम्पासामीप्यमुक्तं ।। ३५।। संहृत्य व्यइत्याह सार्धश्लोकेन । ऋश्याः मृगविशेषाः मूकाः | अन्योन्यं प्रहृत्य । रुधिरधाराभिः सिक्ताः अतएव निःशब्दा भवन्ति यस्मिन् सः ऋश्यमूकः । सुदुःख- | पृथकीर्णाश्चरन्ति ।। ३६ । संविगाहन्ते प्रविशन्ति बृहदारण्यकभाष्योतेः मुक्तिमितिवा ॥ २५ ॥ स० नन्दनसंकाशे इन्द्रवनतुल्ये । देवारण्योपमे इतरदेवविहारस्थलसदृशे ॥ शि० नन्दनसंकाशे नन्दनेन फलपुष्पसंवृद्या संकाशः अतिशोभायस्य तस्मिन् । देवारण्योपमे नन्दनचैत्ररथादिसदृशे ॥ २९ ॥ स० शिशुनागःकश्चनसर्पः । भागवतेद्वादशस्कन्धेकूर्मपुराणेचतथैवोक्तः ॥ ३० ॥ ति० सुदुःखारोहणः अत्युचखात् । हेत्वन्त रमप्याह । शिशुभिनगैःसपैः अभिरक्षितः । उदारः दाता । ब्रह्मणापूर्वकाले सृष्टिकालेनिर्मितः विद्यौदार्यतपःप्राधान्येननि र्मितः ॥३१॥ ति० औदार्यमेवदर्शयति-शयानइति ॥ स० यः सः । खप्रस्तुसत्यएव तथापि तत्कालएवफलोपलंभइत्यतिश यइति महत्त्वमितिभाव ॥ ३२ ॥ ति० रुधिरधाराभिः ईषद्रक्तमदधाराभिः । सत्क्ताः संबद्धाः । संहत्य संभूय ॥ ३६ ॥ [ पा० ] १ ज. ततस्त्वंराम. ग. तस्यास्तद्राम. २ ग. मासाद्य. ३ ख. च. छ. ज. तदाश्रमं. ड. झ. उ. ट. तदाश्रमे प्रभाव ५ ख. घ. ड. झ. ट. प ठेष्विदमर्धदृश्यते ६ क ७ ड. झ. ज. ट. रोहणचैव ८ इदमधे क. पाठेदृश्यते. ९ ड. झ. ट. कालेऽभिनिर्मित . १० घ. ड. झ. ट, यःखमे . ११ इदमर्ध झ. ज. ट पाठेषुनदृश्यते. १२ ङ. झ. अ. ट. यस्त्वेनं . १३ क. घ.-ट. ततोपि. १४ ड. झ. ट. मतङ्गाश्रमवासिनां.: १५ ड. झ. अ. ट सक्तारुधिर. १६ ख.-ट. संहत्य. १७ ड. झ. ट, चारुशोभनं. क, च. छ. ज. ज. शीतलंसुखं. १८ इदमधैं ड. झ. ट पाठेषुदृश्यते