सर्गः ७१ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २३९ अनेन वपुषा राम वनेऽसिन्नौजसत्तम । यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये ॥ १६ ॥ अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति ॥ इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ॥ १७ ॥ स त्वं रामोसि भद्रं ते नाहमन्येन राघव । शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ॥ १८ ॥ अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ । मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निा।॥ १९॥ एवमुक्तस्तुं धर्मात्मा दनुना तेन राघवः ॥ इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ।। २० ।। रावणेन हृता भार्या मम सीता यशस्विनी । निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्॥२१॥ नाममात्रं तु जानामि न रूपं तस्य रक्षसः । निवासं वा प्रभावं वा वयं तस्य न विद्महे ।। २२ ।। शोकार्तानामनाथानामेवं विपरिधावताम् ॥ कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ॥ २३ ॥ काष्ठान्यादाय शुष्काणि काले भन्नानि कुञ्जरैः ॥ धक्ष्यामस्त्वां वयं वीर श्वश्रे महति कल्पिते॥२४॥ स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता । कुरु कल्याणमत्यर्थ यदि जानासि तत्त्वतः॥२५॥ एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् । प्रोवाच कुशलो चतुं वक्तारमपि राघवम् ॥ २६ ॥ दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥ यस्तां ज्ञास्यति तं वक्ष्ये दग्धः खं रूपमास्थितः। ['योभिजानाति तद्रक्षस्तं वक्ष्ये राम तत्परम्] ।। २७ ॥ अँदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो ।। रौक्षसं तं महावीर्य सीता येन हृता तव ।। २८ ।। विज्ञानं हि मम भ्रष्ट शापदोषेण राघव । स्वकृतेन मया प्राप्त रूपं लोकविगर्हितम् ।। २९ ।। किंतु यावन्न यात्यस्तं सविता श्रान्तवाहनः । तावन्मामवटे क्षिप्वा दह राम यथाविधि ।। ३० ।। बलात्कारो लक्ष्यते ।। १५ । अनेनवपुषा उपलक्षि- | मे भार्या हृता ।। २१ । नाममात्रं तु जानामि तोहं यद्यत्पश्यामि तस्यग्रहणंरोचये नत्वभक्ष्यबुद्धया | आप्तवाक्यादिति शेषः । न विद्महे अहं मत्पुरीजना किंचित्यजामीत्यर्थः ।। १६ ॥ महर्षिवाक्यविश्वा- | श्रेवेत्यर्थः ।। २२ । उपकारे परोपकारे । वर्ततां प्रवर्त सात् अवश्यं रामो ग्रहणं समुपैष्यतीति मन्ये । |मानानां । अस्माकं विषये कारुण्यंकर्तु सदृशं इमांबुद्धिंपुरस्कृत्य देहन्यासेसकृतश्रमो भवामि विकृत- |युक्तं ।। २३ । उपकारमेवाह-काष्ठानीति । कल्पिते देहत्यागेकृतोद्योगो भवामि । देहत्यागेकृतबुद्धितया | सजे । श्वश्रे अवटे ।। २४ । कल्याणं तत्त्वकथन रामोऽवश्यंग्रहणमुपैष्यतीति सर्वग्रहणंरोचयइतिभावः | रूपं ।। २५ । वक्तारमपिराघवं वक्तुं कुशलः ।२६॥ ॥ १७ ॥ रामत्वेयुक्तिमाह--नाहमिति । एवं यथा- | मैथिलीं तदपहर्तारंचेति द्रष्टव्यं । तर्हि किंवा मतिसा तत्त्वं यथार्थमेव । महर्षिणोक्तं ।। १८ ॥ मतिसाचिव्यं | चिव्यं करिष्यसीत्यत्राह-य इति । तर्हि बुद्धिसाहाय्यं । करिष्यामि । किंच तद्विषये मित्रं चो- | त्यत्राह-दग्ध इति ।। २७ । इदमेव व्यतिरेकमुखे पदेक्ष्यामि । युवाभ्यामन्निना संस्कृतश्चेद्भवेयं ।॥१९॥ | नाह-अदग्धस्येति ।। २८ । कुत इत्यत्राह-विज्ञानं दनुना दनुवंश्येन । औपचारिकस्तद्वंश्ये तच्छब्दः | हीति । विज्ञानं अतीन्द्रियविषयकं । स्वकृतेन पापे ।। २० । जनस्थानाद्यथासुखं निष्क्रान्तस्य निर्गतस्य । नेति शेषः ॥ २९ । अवटे श्वभ्र । यथाविधि यथा ति० ऋषेरिन्द्रस्यचवाक्यविश्वासात् अवश्यरामोममहस्तग्रहणमेष्यतीतिमन्ये मन्यमानस्तिष्ठामि-ममदेहन्यासे देहत्यागेकृत श्रमः कृतयत्नः रामोममहस्तेग्रहणमेध्यतीतिमांबुद्धिंपुरस्कृत्यसर्वस्यग्रहणंसाधुरोचये । अयमेवरामोभवेदितिबुछद्याकिमपिनत्यजा मील्याशयः ॥ १७ ॥ स० मतिसाचिव्यं बुद्यासाहाय्यं ॥ १९ ॥ ति० दनुना दनुनाम्रा ॥ २० ॥ स० ‘वयमिति अस्मदो द्वयोश्च' इतिबहुवचनं ॥ २२ ॥ ति० तत्परं दाहात्परं ॥ २७ ॥ इत्येकसप्ततितमःसर्गः ॥ ७१ ॥ [पा० ] १ क ट. तात. २ ख. त्रघुसत्तम. ३ ख. सर्वत्र. ४ च. समुपैष्यसि. ५ ख. ग. च. छ. ज. मेतदुक्तं, ६ ड झ. ट. लक्ष्मणस्यचपश्यतः. ७ क. ख. ग. सीताममभार्या. ड.-ट, भार्यासीतामम. ८ ड .-ट. मुपकारेण. ९ ख. ग ड.-ट. न्यानीय. १० ख. ड. झ. ट. भमानिकालेशुष्काणि. ११ घ. ड. झ. ट. वक्ष्यति. १२ इदमधैं ड. छ. झ. प्र. ट पाठेषुदृश्यते. १३ ख. घ. ट. अदग्धस्य.ि १४ ड.-ट, राक्षसंतु. १५ ड. झ. ट. महद्भष्टं. घ. परिभ्रष्टं.
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४१
दिखावट