सर्गः ७१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।। खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥ १० ॥ सं निकृत्तौ भुजौ दृष्टा शोणितौघपरिपंतः ॥ दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥११॥ इति तस्य बुवाणस्य लक्ष्मणः शुभलक्षणः । शशंस राघवं तस्य कबन्धस्य महात्मनः ।। १२ ।। अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः । ॐअस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥१३॥ [ मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम् । मया सह चरयेष भार्यया च महद्वनम्] ॥१४॥ अस्य देवप्रभावस्य वसतो विजने वने ।। राक्षसाऽपहृता पेली यामिच्छन्ताविहागतौ ।। १५ ।। त्वं तु को वा किमर्थ वा कबन्धसदृशो वने । आखेनोरसि दीतेन भग्रजङ्गो विवेष्टसे ॥ १६ ॥ एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ १७ ॥ स्वागतं वानरव्याघ्रौ दिष्टया पश्यामि चाप्यहम्। दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ।॥१८॥ विरूपं यच मे रूपं प्राप्त ह्यविनयाद्यथा ॥ तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ।। १९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ एकसप्ततितमः सर्गः ॥ ७१ ॥ कबन्धेनश्रीरामंप्रति सामस्त्येननिजवृत्तान्तनिवेदनपूर्वकं कुत्सितनिजराक्षसशरीरदाहेसति विज्ञानप्रतिबन्धकशापनिवृ त्यानिजरूपप्राप्तौ सीतान्वेषणसहकारिणो निवेदनप्रतिज्ञानम् । १ ॥ पुरा राम महाबाहो महाबलपराक्रम ।। रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ॥ यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ १ ॥ सोहं रूपमिदं कृत्वा लोकवित्रासनं महत् ।। ऋषीन्वनगतान्नाम त्रासयामि ततस्ततः ।। २ ।। । गां भूमिं ।। १० ॥ पूर्वमदत्तोत्तरत्वात्पुनः प्रश्नः ॥११॥ | सकाशाच्छ्णु । अस्मिन्सर्गे अष्टादश श्लोकाः ॥१९॥ क्रियाभेदात्पुनस्तच्छब्दः ।। १२ । इक्ष्वाकुदायादः |इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे दशरथपुत्रः । “दायादौ सुतबान्धवौ' इत्यमरः |रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने सप्ततितम ॥१३-१४॥ इच्छन्तौ अन्वेषमाणावित्यर्थः ।॥१५॥ | सर्गः ॥ ७० ॥ विवेष्टसे लुठसीति यावत् ।। १६ । प्रीतः शापमो क्षकालप्रत्यभिज्ञानात् । तदिन्द्रवचनं उत्तरसर्गप्रति- | अथ कबन्धःस्ववृत्तान्तकथनपूर्वकं स्वशापमोक्षाय ॥ बाह्वोर्बन्धनं ययोस्तौ बाहुबन्धनौ | स्वशरीरदहनमर्थयते एकसप्ततितमे । पुरेत्यादिसार्ध अंसावित्यर्थः ।। १८ । विरूपं विषमरूपं । यथा | श्लोक एकान्वयः । अचिन्त्यं अचिन्त्यवैभवं ।॥१॥ सो येनकारणेन । प्राप्त तत्कारणं तत्त्वतस्तव शंसतो मे | हमितेि । सुन्द्ररूपोहं । रूपं शरीरं लोकवित्रासनं क्रूरं । शि० इति बुवाणस्यकबन्धस्यसमीपे तस्यरामस्यप्रेरितोलक्ष्मणः काकुत्स्थंरामंशशंस ॥ १२ ॥ स० यां सीतां । इच्छन्तों आवां ॥ १५ ॥ ति० यथाऽविनयातूयादृशाविनयात्प्राप्तच्छुण्वित्यन्वयः ॥ १९ ॥ इतिसप्ततितमः सर्गः ॥ ७० ॥ स० अचिन्त्यं अचिन्त्यमिव । सोमस्यचन्द्रस्य । रुद्रस्येत्यप्यर्थः । यथातेषांवपुः तथाममापिरूपमासीदितिपूर्वेणसंबन्धः ॥ १ ॥ सोहंएतादृशोप्यहं लोकवित्रासनं इदंरूपं राक्षसरूपं वैभवेनकृत्वा ऋषींस्रासयामीतिसंबन्धः ॥ २ ॥ [पा० ] १ घ. सन्निकृत्तौ. २ क. ख. ग. डः -तस्यकाकुत्स्थंकबन्धस्यमहाबलः ट. ३ ङ. झ. अ. ट. तस्यैवावरजं ४ अयंश्लोकः घ .-ट. पाठेषुदृश्यते. ५ ख. ड.--ट. भार्या. ६ ख. ट. विचेष्टसे . ७ ग. च. च. छ. ज. ट. नोत्तमं ८ ड.–ठ. वचनंप्रीतः. ९ ङ. झ. ट. वामहँ १० ख. ग. नरश्रेष्ठ. ११ ख. ग. ड. झ. ट. पराक्रमं. १२ क. ख. ग ड.-ट. सूर्यस्यसोमस्यशकस्यच
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३९
दिखावट