सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डंम् ३ स परिव्राजकच्छद्म महाकायो विहाय तत् । प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।। ८ ।। संरक्तनयनः क्रोधाजीमूतनिचयप्रभः ।। रक्ताम्बरधरस्तस्थौ स्त्रीरतं प्रेक्ष्य मैथिलीम् ।। ९ ।। सै तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिलीं रॉवणोऽब्रवीत् ।। १० ।। त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ॥ मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ ११ ॥ मां भजस्व चिराय त्वमहं क्षाध्यः प्रियस्तव । नैवै चाहं कचिद्भद्रे करिष्ये तव विप्रियम् ॥१२॥ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ।। राज्याच्युतमसिद्धार्थ रामं परिमितायुषम् ॥१३॥ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ॥ १४ ॥ असिन्ध्यालानुचरिते वने वसति दुर्मतिः ।। १५ ।। इत्युक्त्वा मैथिलीं वाक्यं प्रियाह प्रियवादिनीम् । अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव ।। १६ ।। बभूव ।। ७ । उक्तानुवादपूर्वकं क्रौर्यान्तरमाह | वसनेत्यादिना दुस्त्यजत्वमुच्यते ॥ १० ॥ वरारोहे द्वाभ्यां । परिव्राजकच्छद्म परिव्राजकरूपं । परित्रा- | वरजघने ॥ ११ ॥ पुनस्यागशङ्कां मा कार्षीरित्याह जकरूपेण परिवृतं मां प्रेक्ष्य तस्थौ। किमेवंरूपं दृष्टापि |-मामिति । कचित् कापीत्यर्थः ।। १२ । सार्धश्लो मां भजिष्यतीति प्रत्याशयेति भावः ।। ८-९ ।॥ | कद्वयमेकान्वयं । मानुषः मनुष्यरामविषयः । भाव असितकेशान्तां नीलकेशाप्रां । केशाग्रे पैङ्गलं दुर्लक्ष-| रुन्नेहबन्धः । व्याला: हिंस्राः । तमिति पूर्वेणान्वय णं । भास्करस्यप्रभामित्यनेन दुष्प्रसहत्वमुच्यते | | ।। १३- १५ । इतीत्यादिसार्धश्लोक एकान्वयः । मांपश्य । एतेन पृथिवीपरिमितरूपस्यापि धारणसामथ्र्यमय्यस्तीतिसूचितं ॥ ४ ॥ ती० परिव्राजकच्छद्म मायात्मकं यतिवेषं ॥८॥ स० सितकेशान्तां कृष्णकेशान्तां । आदित्यप्रभायाअसितत्वंच “असैौवा आदित्यःपिङ्गलः एषशुक्रुः एषनील इत्यादिच्छान्दोग्यवाक्यसिद्धं ॥ १० ॥ स० पण्डितामात्मानंमन्यतइति पण्डितमानिनी तस्यास्संबुद्धिः । रामःपण्डितइति ज्ञानिनीतेवा ॥ १४ ॥ ती० त्रिधुलोकेषुविख्यातमित्यादिसार्धश्लोकचतुष्टयस्य प्रातीतिकार्थस्पष्टः । कुलकं । वसुतुतस्तु भर्तारं शुश्रूषादिनाखामिनंबिभर्तीतिभर्ता भृत्यइत्यर्थः । पतिः रक्षसामितिशेष । यद्यप्यहंरक्षसांपतिः तथापि तवसदृशः अनुरूपःकिं । भृत्यइतिशेषः । अनुरूपोभृत्योनभवामि । तथापि भृत्यमिच्छसियदि त्रिषुलोकेपुविख्यातं यथाभवतितथा मामाश्रय भृत्यत्वेनाङ्गीकुरु । कुतः चिराय चिरकालादारभ्य । तव श्लाघ्यः प्रियः प्रीणयतिशुश्रूषादिनाखामिनमि तिप्रियोभृत्यः । जयसैयैवरावणरूपेणोत्पन्नत्वात् । अतोमांभृत्यइति भजख जानीहीत्यर्थः । अतएव नैवाहमितिमानुषेभावस्त्यज्य तां । मनुष्यएवरक्षणीयइत्यभिप्रायस्त्यज्यतामित्यर्थः । किंतु प्राचीनकृपया मूढे पण्डितमानिन्यपि राक्षसेभृत्येमयि भावःप्रणीय तां । अयमपिरक्षणीयइत्यनुसन्धीयतामित्यर्थः । किंच राज्याच्युतं तुच्छीकृतराज्यभोगमित्यर्थ । कुतः असिद्धार्थ अश्वासौसि द्धार्थश्चासिद्धार्थस्तं अवाप्तसमस्तकार्मविष्णुमित्यर्थः । परिमितायुषं परिगतंत्यक्तं मितमल्पमायुर्येनतं अपरिमितायुषमित्यर्थः । किंच कैर्गुणैः अनिर्वचनीयैर्गुणैः अनन्तकल्याणगुणैरित्यर्थः । युक्तमितिशेषः । अनुरक्तासि । कुतएवं दुर्मतिः दुष्टष्वपिमति अनुग्राहेिकायस्यसः । अतएवहि स्त्रियावचनात्सुहृज्जनंराज्यंविहाय वनेवसति । तादृशंत्वमनुरक्तासियतः अतस्सर्वोत्तमा लक्ष्मी स्त्वं । अतएव मांभृत्यत्वेनाङ्गीकुर्वितितात्पर्य ॥ १५ ॥ ती० वस्तुतस्तु रावणः अन्यत्र सुदुष्टात्मा काममोहितश्चयद्यपि तथाप्य त्रनतथा । अतएव बुधःरोहिणीमिवजग्राह । बुधस्खमातरंयथापूजार्थगृह्णाति तथा रावणोपि सीतां जग्राह । खगृहेसंस्थाप्य स्वेष्टदेवताबुद्यापूजयितुमेवेत्यर्थः । “ जग्राहरावणस्सीतां बुधःखेरोहिणीमिव' इति । नन्वत्र नलकूबरवेदवतीशापाद्वलात्कथंप रदारस्पर्शइतिचेत्सत्यं । रावणस्सीतांसाक्षान्नजग्राह नस्पृष्टवान् । परंतु जानुकेशादिच्छायामेवजग्राह । राक्षसानां छायाग्राहित्वा तत् । तदुक्तंस्कान्दे–“छायाप्राहित्वमप्यस्ति सर्वविद्याविशारदे । केशच्छायांपरामृश्य जानुच्छायांतथैवच । गृहीत्वाजानकीं हृष्टो लङ्कांप्रायात्सरावणः । सीतापहरणंचैव येश्शृण्वन्तिनरोत्तमाः । नतेषामशुभंदेवि भविष्यतिकदाचन' । इति । ति० सीत या सद्योमरणपर्यवसायिशापादानंतु समूलनाशनस्य वेदवत्यंशेनप्रतिज्ञातस्यनिर्वाहाय ऋषीणांदेवानामग्रे रामप्रतिज्ञातस्यचनिर्वा [ पा० ] १ ख. ग. ड. झ. ट. प्रतिपेदे. २ घ. ड. प्रेत्य. ३ ख. घ. च. छ. ज. सीतां. ४ ख. वाक्यमब्रवीत्, ५ ख भर्तारंयदिविख्यातं . च. छ. ज. ज. विख्यातंभर्तारंखैयदिच्छसि. ६ क. ख. ग. च. ज. अ. श्लाघ्यस्तवप्रियः. ड. झ. ट लाघ्यःपतिस्तव. ७ छ. अ. नैवाहंतु. ८ क. ड.-अ. रावणः. ९ ग. कालचोदितः