पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ न ह्यतो धर्मचरणं किंचिद॒स्ति महत्तरम् || यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २२ ॥ अनुक्तोप्यत्रभवता भवत्या वचनादहम् || वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २३ ॥ न नूनं मैयि कैकेयि किंचिंदाशंससे गुणम् ॥ यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २४ ॥ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् || ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ २५ ॥ भरतः पालयेद्राज्यं शुश्रूषेच पितुर्यथा ॥ तथा भवत्या कर्तव्यं स हि धर्मस्सनातनः ॥ २६ ॥ शुश्रूषा पादसंवाहनादिः । वचनक्रिया वचनकरणम् | नुज्ञांकुर्वितिशेषः । ततः तदनन्तरम् । अद्यैवदिने ॥ २२ – २३ ॥ गुणं आर्जवौदार्यादिगुणं | नाशंससे दण्डकानांमहद्वनं दण्डोनामेक्ष्वाकुसुतस्तस्यराष्ट्रंशुक्र- नजानीषइत्यर्थः । ईश्वरतरा अत्यन्तनियत्री ॥ २४ ॥ शापात्पांसुवर्षेणविनाशितंसदरण्यमभूत् । तद्राष्ट्रंत- अद्यैवगन्तव्यमित्युक्तं तत्रयत्किंचिद्विलंबयाचते – या- नाम्नादण्डकमित्युच्यते । “संज्ञायांकन्” इतिकन्प्र- वदिति । मातर॑यावदापृच्छेसीतांचानुनयामि तावद- त्ययः । प्रदेशभेदाद्वहुवचनम् ॥ २५ ॥ धर्मः सना- मत्त्वेन ‘“पुँल्लिङ्गेनोच्यतेस्त्रीचपुंवच्छक्तिमतीक्वचित्" इत्युक्तेश्चस्त्रियाअपिपुंलिङ्गशब्दवाच्यता ॥ २१ ॥ सत्य० यथापितरि विषय- सप्तमी । शुश्रूषा सेवा । " वरिवस्यातुशुश्रूषा" इत्यमरः । केवलरूढोयंसेवायां । “शुश्रूषाशद्रस्य” इत्यापस्तंब सूत्रव्याख्यानावस- रेहरदत्तेनतथोक्तेः । यथाचतस्यपितुर्वचनक्रियातदुक्तानुष्ठानं । यद्वा तस्यभवतः पूर्वोक्तरीत्याकैकेय्याः । एवमर्थाङ्गीकारेपूर्वोत्तरा- नुगुण्यंभवति । व्यतिरेकमुखेनापीम मेवार्थस्पष्टमाचष्टे- नहीति । अधर्मचरणमितिपदच्छेदः । पितरि पितृविषये । नहिशुश्रूषा असेवा । तस्यावचनक्रिया | अतः आभ्यामन्यन्महत्तरंअधर्मचरणं " नक्कचिद्विष्णुवैभवं" इतिवतूकिंचिदितिनिपातसमुदायआक्षे- पार्थः । तथाच किंचित् नकिमपीत्यर्थः । सर्वोत्तमस्य जगत्प्रसवितुर्म मनधर्मादिनाकृत्यं । तथापिलोकमनुकुर्वत इदमुचितमित्यप्याह- नातइति । महत्तरं ब्रह्माद्युत्तमाधिकारिवर्ग | किंचित् यवसावसानंचजगत् । नपतः । णिजर्थोयं । बन्धयतः | तस्यमेपितृ- शुश्रूषातस्यवचनक्रियेतिधर्मचरणंवा लोकधर्मचरणमिवेत्यर्थः । “वाविकल्पोपमानयोः” इत्यभिधानात् । पितरियावचनक्रियासा- पिममसकाशादेव ॥२२॥ सत्य० अत्रभवतापूज्येन पित्रानुक्तोपिभवत्यावचनाद्वनेवत्स्यामीत्यन्वयः | पत्तनजनानुगमनेवनमपि भवनतुल्यंइत्यत आह - विजनइति । त्वदभिलषितमद्वनवासोपिरक्षोविक्षोभपूर्वकंसज्जनावन हेतु रित्याह-विजनइति । विविरुद्धं जनंजन्मययोस्तेविजनेरक्षसीरावणकुंभकर्णरूपे तेवत्स्यामि हनिष्ये । वधहिंसायामित्यस्माल्लृटिस्यप्रत्यये "खरिचे" तिचर्ले “अतो दीर्घोयजी” तिदीर्घेवत्स्यामीतिरूपं । "वत्सावत्स्यामिवोरिपुं" इतिसंग्रहरामायणप्रयोगात् । इडभावआर्षः । वधधातुस्तुकौमुद्यां भावकर्मप्रक्रियायां “वधहिंसायांहलन्तः” इति “वधिःप्रकृत्यन्तरः” इतिकाशिकाप्रतीकंप्रकाश्य "वधहिंसायामितिभूवादौपाठात्” इतिसप्तमाध्यायतृतीयपादीय "जनिवघ्योश्च" इतिसूत्रव्याख्यापदमञ्जर्युक्तेःप्रसिद्धोस्तीतिनतदन्वेषणप्रयासः ॥ २३ ॥ ती० यत् ममेश्वरतरासतीत्वद्वचनकारिणंमांभरतोऽभिषेक्तव्यइत्यनियुज्य राजानं अवोचः अयाचिष्ठाः । अतोमयिगुणं आर्जवलक्षणं । किंचिद- पिनाशंससे नविचारयसीत्यर्थः । सत्य० हेकैकेयि अगुणं गुणेतरत् दोषादिकं । नूनं निश्चयेन | मयिआशंससे । धातूनामनेकार्थ- वाज्जानासीत्यर्थः। किंचिद्गुणादिकंनाशंससे । कथमेतज्ज्ञायतइत्यतआह— यदिति । यद्यस्माद्राजानं “सन्निदेशेपितुस्तिष्ठ” इत्यादिना विपिनयापनाज्ञापकंनृपमवोचः उक्तवत्यसि । त्वंतदधीन एवेतितथोक्तवत्यहमित्यतआह - ममेति । इतरराजतरुण्यईश्वर्यः । त्वंतु ममेश्वरतरा । ईशधातोर्वरचिटाप् । “तसिलादिष्वाकृत्वसुचः” इतिसूत्रव्याख्यानावसरेपरिगणनं कर्तव्यमित्युक्त्वा दर्शनीयत रेतिपुं- वद्भावोदर्शितः । यदाकिंचिद्गुणं नाशंससे | क्वचिद्गुणशब्दोनपुंसकोप्यस्ति | "नगुणानिनियुञ्जते" इतिप्रयोगात् । किंचिदित्यव्यय- त्वपक्षेनायव्ययावितिभावः । कथमेतज्ज्ञायतइत्यतआह—यदिति । यद्राजानमवोचः वरंदेहीत्यवदः ॥२४॥ सत्य० यावन्मा- तरेकौसल्यांआपृच्छे । " आडिनुप्रच्छयोरुपसंख्यानं" इतिवार्तिकादात्मनेपदलं | ईषत्पृच्छामि । सीतांचानुनयामि सांत्वयामि । चोनुक्तसमुच्चायकः । प्रष्टव्यान्सर्वान्पृच्छामीत्यर्थः । तावत् इयन्मात्रंमदपराधंक्षमस्वेतिशेषः । यद्वा यासती ततस्तांकौसल्यांतां अनुनयामि साम्त्वयामि । तथा सीतांचानुनयामि कानन॑नेष्यामि । तावन्मातरेत्वां आपृच्छे अवकाशमितिशेषः । एवमर्थ एवदेवाज्ञ- लशङ्कानवकाशः । अथवा हेमातः सीतांअमासहअनुनयामि । शिष्टंपूर्ववत् । सरवादिनयुत्तरणार्थंकिंचित्पाथेयंननाथतेनाथइति कथयति - मातरमिति । आङ्पूर्वात्तृवनतरणयोरित्यस्मात् 'पुंसिसंज्ञायां —” इतिघप्रत्ययेरपरेगुणे आतरन्त्यनेनेत्यातरस्तरप- ण्यं । उत्तरणार्थदीयमानंद्रव्यं मापृच्छे नपृच्छामीत्यर्थः | माशब्दोऽयं ॥ २५ ॥ सत्य पितुरितिकर्मणिषष्ठी | शुश्रूषेत् सेवेत | शुश्रूषेदित्येतदन्तर्गतायाशुश्रूषासहिसनातनोधर्मइति विधेयापेक्षयापुँल्लिङ्गता | सनातनः चिरंतनैरनुष्ठितः पुरातनोधर्मः । सहिनां सहनवतां धर्मइतिवा । अयंधर्मश्श्रुतिसिद्धइत्यप्याह- सनातनइति । नादेन शब्देनश्रुतिरूपेण सहवर्ततइतिसनादः । सनादएवसना- [ पा० ] १ क. ह्यत्र. २ क, घ. मम. ३ ङ. ट. मुख्यानाशंससेगुणान्. "