पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अचिन्त्यकल्पं हिं पितुस्तं शोकमुपधारयन् || बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥ चिन्तयामास च तदा रामः पितृहिते रतः ॥ किंस्विंदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ ८ ॥ अन्यदा मां पिता दृष्ट्वा कुपितोपि प्रसीदति ॥ तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ ९ ॥ स दीन इव शोकार्तो विषण्णवदनद्युतिः ॥ कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० ॥ कञ्चिन्मया नापराद्धमज्ञानाद्येन मे पिता || कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ ११ ॥ अप्रसन्नमनाः किंतु सदा मां प्रति वत्सलः ॥ विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२ ॥ शारीरो मानसो वाऽपि कच्चिदेनं न बाधते ॥ संतापो वाऽभितापो वा दुर्लभं हि सदा मुखम् ॥ १३ ॥ कच्चिन किंचिंद्भरते कुमारे प्रियदर्शने ॥ शत्रुघ्ने वा महासत्वे मातृणां वा ममाशुभम् ॥ १४ ॥ अतोषयन्महाराजमकुर्वन्वापितुर्वचः || मुहूर्तमपि नेच्छेयं 'जीवितुं कुपिते नृपे ॥ १५ ॥ यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः ॥ कथं तस्मिन्न वर्तेत प्रत्यक्षे सैंति दैवते ॥ १६ ॥ ८४ चिदितिसंबन्धः ॥ १४-१५ ॥ इह जगति । नरः आत्मनः देहस्य । प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं । पश्येत् प्रत्यक्षेदैवते सति सिद्धे । तस्मि- संबध्यते । उपप्लुतं राहुग्रस्तम् । उक्तानृतमृषिंयथा नात् प्रमादात् ॥ ११ – १२ ।। शारीर: संतापोव्या- ऋषिमिवस्थितं । निस्तेजस्कमित्यर्थः ॥ ५–६ ॥ अ- धिः । मानसोभितापआधिः । दुर्लभंहीति पुण्यपापा- चिन्त्यकल्पम् असंभावितमित्यर्थ: । उपधारयन् वि- रब्धत्वान्मानुषशरीरस्येतिभावः ॥ १३ ॥ मातॄणा- चारयन् । संरब्धतरः संभ्रान्ततरः ॥ ७ ॥ किंवत् मितिनिर्धारणेषष्ठी । कञ्चिदितिप्रश्ने । किंचिदशुभंतक- किंवा ॥ ८ ॥ अद्यैवेत्येवकारव्यवच्छेद्यमाह——अन्य देति । आयासः चित्तक्लेश: । इतिचिन्तयामासेत्यन्व- यः ॥ ९–१० ।। नापराद्धं अपराधोनकृतः । अज्ञा- अतःभयमापन्नइत्यपिगर्हितमित्यर्थः ॥ ४ ॥ ती० अवधारयन् चिन्तयन् | आत्मीयत्वेनस्वीकुर्वन्नितिवा | शि० उपधारयन् निश्चिन्वन् । सत्य० शोचयतीतिशोकश्शोकहेतुः । तज्जनितसंतापेनकर्शितं । निश्वसन्तमित्यत्रविशेषणत्वेनप्रसक्तनिश्वासाः बुद्ध्याविवेकेनाभेदसंबन्धेनोर्मिंपदार्थेनान्वीयन्ते । ऊर्मिमालिनं शिखादित्वादिनिप्रत्ययान्तंपदं । तथाचश्वासोल्लोलकल्लोलैस्सहितं । अतएवक्षुभ्यन्तं चलन्तं । उक्तमनृतंयेनसउक्तानृतः तमिवविद्यमानं । ऋषिमित्यनेनअनृतोक्तेर्महापापकरत्वमितिमत्वन्तस्यध्वनय- ति । अचिन्त्यःकल्पः राज्ञःकदाचिदप्येतादृशशोकादिकंभवतिवेत्यादिकोयस्यसोचिन्त्यकल्पस्तं ॥ ७ ॥ ती० अन्यदा पूर्वकाले । परोक्षमाप्रतिकुपितोपिदृष्ट्वाप्रसीदति । सत्य कुपितः अन्यस्माइतिशेषः । परोक्षेमह्यंकुपितोपीतिव्याख्यातु परोक्षापरोक्षप्रीतिमात्र- पात्रत्वाद्रामस्येत्युपेक्ष्या । मांसंप्रेक्ष्यस्थितस्य ॥ ९ ॥ वि० दीनइव विषण्णवदन द्युतिरिवसरामः । शोकार्तइववचनमब्रवीदितिसंब- न्धः । सत्य ० विषण्णवदनानांद्युतिर्यस्मात्सविषण्णवदनद्युतिः । तेषांद्युतिरिवद्युतिरितिवार्थः । इवेनदैन्यादिकंदेवदेवेसर्वथाना- स्तीतिद्योतयतिकविः । अभिवाद्यैवेत्यनेनराजमर्यादाद्योयते ॥ १० ॥ वि० नापराद्धं काकुः । अज्ञानात्प्रमादात् । प्रसादय म- त्कृतापराधशान्त्यैइतिशेषः ॥ ११ ॥ शि० दुर्लभंप्राकृतैर्दुष्प्रापं । सदासुखं नित्यसुख विशिष्टं । एनंपितरंकञ्चिन्नबाधते ॥ १३ ॥ सत्य० कुमारेप्रियदर्शनेमहासत्वेइतिपूर्वोत्तरार्धोक्तविशेषणान्युभयत्रान्वीयन्ते । मातॄणां विषयसप्तमीयं । भवदादीनांमममा- तॄणांविषयेअशुभंनकिंचित्पश्यतिकचिदित्यन्वयः । मम मत्कर्तृकमशुभंनपश्यतिकञ्चिदित्यन्वयोवा । मातॄणामितिनिर्धारणेषष्ठीति व्याख्यातुपृथक्करण कारणीभूतजातिगुणक्रियासंज्ञानांपृथक्करणीयवाचकस्यचाभावादत्युपेक्ष्या ॥ १४ ॥ ती० नृपेकुपितेसतिकिमुवक्त- 'व्यमित्यर्थः । शि० अतोषयन् तुष्टमकुर्वन् ॥१५॥ शि० मूलंप्रवृत्तिहेतुभूतं | आत्मनःस्वस्यप्रादुर्भाचंप्राकट्यं । यतःयस्मात् पश्ये • 'त्जाना तितस्मिन्प्रत्यक्षेदैवते सतिकथंनवर्तेत । तदानुकूल्येनेतिशेषः । एतेनयतोमूलंयन्मूलमित्यर्थेआषेमेतदितिभट्टायुक्तिश्चिन्त्या | सत्य एकयोक्त्या जगत्सवितुस्तत्पितुश्चस्वभावमा वेदयति कविः - यतोमूलमित्यादिना | नरः पुमान् । आत्मनः स्वस्य । प्रादुर्भावं जन्म । “जन्मप्राकाश्ययोःप्रादुः" इति "प्रादुर्भूतस्सुतस्तस्य" इतिचलिङ्गभट्टीये । यतः पितुस्सकाशात्पश्येत् । तथामू- लंचखप्रादुर्भावापादकंतपआदिअन्यत्रजन्मापादकंकर्मादिपश्येत् । पूर्वश्लोकाद्वाशब्दश्चार्थस्सन्ननुवर्तते । हेसतिकैकेयि तस्मिन्पित्रा- ख्येप्रत्यक्षदैवतेकथंनवर्तेत नप्रवर्तेत | कुशलप्रश्नादिकंकथंनकुर्यादितियावत् । योनरोदशरथादिः । यतोमूलमित्यत्रमयूरव्यं सकादि- [ पा० ] १ ङ. छ. झ. नृपतेस्तंशोकमवधारयन्. २ क. ख. च. ञ. चततो. ङ. छ. झ. ट. चतुरो ३ ख. दियेव. ग. घं. ज. दद्यैष. ४ ख. माश्वासः ५ ङ. छ. झ. त्वमेवैनं. ६ क. ख. ङ च छ. झ ञ ट विषण्ण ७ ख ङ. च. छ. ज. ट. मांप्रति. ८ घ. भरतेकिंचित् ९ घ. शुभदर्शने. १० घ. ट. जीवितं. ११ घ. ज. दैवतेसति.