पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । कैच्चित्ते परुषं किंचिदभिमानात्पिता मम ॥ उक्तो भवत्या कोपेन यंत्रास्य लुलितं मनः ॥ १७ ॥ एतदाचक्ष्व मे देवि तत्वेन परिपृच्छतः ॥ किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥ एवमुक्ता तु कैकेयी राघवेण महात्मना || उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १९ ॥ न राजा कुपितो राम व्यसनं नास्य किंचन || किंचिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ||२०|| प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ॥ तदवश्यं त्वया कार्य यदनेनाश्रुतं मम ॥ २१ ॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ॥ स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥ अतिसृज्य ददानीति वरं मम विशांपतिः ॥ स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २३ ॥. धर्ममूलमिदं राम विदितं च सतामपि ॥ तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥ यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम् ॥ करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ||२५|| न पितरि । कथंनवर्तेत तद्वशेएववर्तेतेत्यर्थः ॥ १६ ॥ | तिज्ञाय | गतजलेसेतुंबन्धितुमिच्छतीति । दानस्यपू- अभिमानात् तववाल्लभ्यात् । कोपेनवा ममपिता भव- र्वमेवकृतत्वादिदानींतत्परिहारव्यापारोव्यर्थइतिभावः त्याकिंचित्परुषमुक्तःकच्चित् । यत्र येन । अस्यमनः ॥ २३ ॥ इदं जगत् | धर्ममूलं । इदंच सतांविदितं स- लुलितं कलुषितम् ॥ १७॥ किंनिमित्तमित्याद्याचक्ष्वे- | द्भिर्विदितं “क्तस्यचवर्तमाने” इतिषष्ठी । तत् तस्मात् । तिपूर्वोक्तस्यसर्वस्यसंग्रहः ॥ १८ ॥ एवं इति । धृष्टं सत्यं सत्यरूपधर्म | राजा त्वत्कृते त्वत्प्रयोजनाय । प्रत्यक्षतोरामानिष्टवचनविषयवैक्कुव्यरहितम् ॥ १९ मयिकुपितःसन्यथानत्यजेत् तथाकुर्वित्यर्थः ॥ २४ ॥ –२० ।। त्वद्भयादित्यस्यविवरणं – प्रियमिति । आ- तर्हितद्विशेषतोवक्तव्यमित्यत्राह – यदीति | शुभमशु- श्रुतं प्रतिज्ञातम् ॥ २१ ॥ तत्किमित्यपेक्षायांसामान्य- भंवातत्प्रतिज्ञातं राजायद्वक्ष्यतितत्त्वंकरिष्यसिदि तोदर्शयति – एषइत्यादिना ॥ २२ ॥ अतिसृज्य प्र- तदाराज्ञोविवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ २५ ॥ स्समासः अकुतोभयइत्यादिवत् । ततश्च योऽहंमूलंयस्यसयन्मूलस्तंप्रादुर्भावंआत्मनस्स्वस्यजानीयात् । तस्मिन्दशरथविषयेतस्मि- न्सतिप्रत्यक्षेमयिदैवतेकुशलप्रश्नादिः कथंनानुवर्तेत ॥१६॥ सत्य० ते त्वद्विषये | ममपिता परुषं निष्ठुरं | कोपेन किंचिदुक्तवानि- तिशेषः । भवत्यावाअभिमानात् कनीयसीजायेत्यभिमानात् । किंचित्परुषंयथाभवतितथाउक्तः । येनास्यराज्ञोमनोलुलितं । अवक्त- व्यंमयोक्तमितिमाननीयं मांप्रतिमानिन्येवमुक्तवतीत्युभयथाचलितमित्यर्थः । ते त्वया । येन त्वद्दुरुत्याकारणेन । भवत्याइतिषष्ठी । उपरीतिशेषः । तइतिषष्ठ्येव । भवत्याउक्तः तेउपरिशेषेणेतिवान्वयः । यद्वा विनाशेषंषष्ठयर्थसंबन्धत्वेनोपरीत्यर्थलाभः । एवं- `मन्वयकरणेनदुःखितत्वादधिक पदोक्ति रितिकेनचिदुक्तंनिरस्तंज्ञातव्यं ॥ १७ ॥ सत्य० किंनिमित्तमितिप्रथमान्तं । केन निमित्ते- नेत्यर्थः । “निमित्तकारणहेतुषु – "इतिकात्यायनस्मृतेः । किंनिमित्तं विकारोभूत्तन्ममाचक्ष्वेत्यन्वयः । सदैवंविधस्यकुतोयंप्रश्नइ- त्यंतोनेत्यप्यनेनाह–अपूर्वोयमिति । अकारः पूर्वोयस्यसतथा । तादृशोविकारोयस्मिन्मनुजाधिपेतस्मिन्नित्यन्वयः ॥ १८ ॥ शिo सुनिर्लज्जा यशःप्रख्यापनरूपपत्युपकारार्थत्यक्तव्रीडा | कैकयी । आत्महितं जीवानामुपकारकं । अभृष्टं प्रागल्भ्यरहितं । इदंवचउवाच ॥ १९ ॥ सत्य० त्वद्भयात् त्वदितिभिन्नंपदं । " भीत्रार्थाना" मित्यपादानपञ्चमी ॥ २० ॥ ति० श्रुतं प्रतिज्ञातं ॥ २१ ॥ सत्य० मध्यमितिद्वितीयान्तंचतुर्थ्यन्तंच | तत्रद्वितीयान्तंवरशब्देनान्वेति । पूज्यमितितदर्थः । चतुर्थ्यन्तंदानक्रिय यान्वेति । प्राकृतः अज्ञः । लोकेयथातथेत्यर्थः । दृष्टान्ततयाप्रकृतःप्राकृतोन नियामकेष्वन्यतमइत्याह – अन्यइति । अनतेर्यत् । चेष्ट्यइत्यर्थः । नच "ऋहलोर्ण्यत्" इतिण्यतिमाह्यमितिभवेदितिच्यम् । णित्वप्रयुक्तवृद्ध्यभावः संज्ञापूर्वक विधेर नित्यत्वस्य "शतचक्रं योयः” इत्येतब्याख्यावसरेतत्वसुबोधिन्यामुक्तेर्नानुपपन्नः । तप्यते "कण्डादिभ्योयक्” इतिकर्तरियक् | संतप्तइत्यर्थः । यद्वा भा वेयक् । राजेति राजतेः विपितृतीयान्तं | सइत्यस्यप्राकृतइत्यनेनान्वयः ॥ २२ ॥ शि० यदि यदा । अशुभं निंयौषधादिवत्प्रा तिभासिकाशुभत्वविशिष्टं । सत्य वक्ष्यते वक्ष्यति । “ब्रुवोवचिः" इतिवच्या देशस्यस्थानिवद्भावेन जित्वात् "स्वरितजितः -" इत्युभयपदित्वाद्वक्ष्य तेवक्ष्यतीतिचयुक्तं । यद्वा राजेतितृतीयान्तं । यद्राजावक्ष्यतेशुभमशुभंवाभवतुतत्करिष्यसिपुनः करिष्यस्येवचे. [ पा० ] १ घ. कच्चित्तु २ ङ. छ. झ. रोषेण. ३ ङ. च. छ. झ ञ. येनास्य. क. यत्रासीत् ४ क. घ. ट. च. अ. तस्य. ५ नतुभाषते. ङ. छ. श. ट. नानुभाषते ६ ङ. झ. नास्यप्रवर्तते. ७ घ - छ. झ. ब. नश्रुतं. ८ घ ङ. ञ. ददामीति, ९ क. स्त्वत्कृतेऽनघ. च. स्वत्कृतेनच. १० ङ. छ. पुनस्सर्व. घ. ततः पूर्व. ट. तदासर्व.