पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् || राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ १९ ॥ स कक्ष्या धन्विभिर्गुप्तास्तिस्रोतिक्रम्य वाजिभिः ॥ पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ॥ २० ॥ से सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ॥ संनिवर्त्य जनं सर्व युद्धान्तं पुनरभ्यगात् ॥ २१ ॥ ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे ॥ प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥ १७ ॥ ८३ अष्टादशः सर्गः ॥ १८ ॥ रामेण कैकेयी दशरथयोश्चरणप्रणामसमनन्तरंकरुणवचनादिनासामान्याकारेणपितुः शोकमनुमायविशेष रूपेणत जिज्ञासया कैकेयींप्रतिसंभावनाह॑हेतुविकल्पपूर्वकंप्रश्नः ॥ १ ॥ कैकेय्यारामंप्रतितेनपित्रभिमतार्थकरणप्रतिज्ञापनपूर्वकंतद्विवासनभर- ताभिषेचन विषय कवरदान निवेदनेनतद्वियोगस्यशोक हेतुत्वकथनम् ॥ २ ॥ स ददर्शासने रामो निषण्णं पितरं शुभे || 'कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥ स पितुञ्चरणौ पूर्वमभिवाद्य विनीतवत् ॥ ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ २॥ रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः || शशाक नृपतिदींनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥ तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् || रामोपि भयमापन्नः पदा स्पृष्ठेव पन्नगम् ।। ४ ।। इन्द्रियैरप्रहृष्टैस्तं शोकैंसंतापकर्शितम् || निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् || उपनुतमिवादित्यमुक्तानृतमृषिं यथा ॥ ६ ॥ पृथिव्यांगृहवरं पृथिव्यामद्वितीयमित्यर्थः । पितुर्वेश्म आसने पर्यते । “ मूर्च्छितोन्यपतत्तस्मिन्पर्यकेहे- पितृवासस्थानं ॥१९॥ वाजिभिः रथयुक्तैर्वाजिभिः । मभूषिते " इत्युत्तरत्रवक्ष्यमाणत्वात् । मुखेनेत्युपलक्ष- पदातिः पादचारी ॥ २० ॥ शुद्धान्तं अन्तःपुरं णेतृतीया ॥ १-२ ॥ नाभिभाषितुं रामेत्यस्मादधि- ॥ २१–२२ ॥ इति श्रीगोविन्दराजविरचिते कमित्यर्थः ॥ ३ ॥ अपूर्वम् अदृष्टपूर्व | रामोपीत्यपि- श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- शब्देनदुःखसहस्रसद्भावेप्यक्षुभितोरामोदशरथविषाद्- व्याख्याने सप्तदशस्सर्गः ॥ १७ ॥ स्यस्वहेतुकत्वमाशयभयमापन्नइत्यवगन्तव्यम् ॥ ४ ॥ इन्द्रियैरित्यादिश्लोकद्वयेदृष्ट्वाभयमापन्नइत्येतद्नुकृष्य सत्य० महेन्द्रसदनस्योपमायेनतन्महेन्द्रसदनोपमं । अनेनगृहवरमित्युचितार्थमित्युक्तंभवति ॥ १९ ॥ सत्य० पदातिः पद्गस्सन् । अतिक्रम्येत्यन्वेति ॥ २० ॥ इतिसप्तदशस्सर्गः ॥ १७ ॥ शि० विषण्णं संभावितपुत्रवियोगजनितदुःखाक्रान्तं । अतएवदीनंआसनेददर्श । सत्य० यद्वासहितमित्येततूमुखेनेत्यनेना- प्यन्वेति ॥ १ ॥ ति० सुसमाहितः तस्याअतिखेष्टकरत्वेन जगद्धित करत्वेनचतस्यांप्रसन्नचित्तः । सत्य वस्तुतस्सर्वोत्तमस्थलो- कशिक्षार्थेविनयप्रदर्शनमितिवतिनाध्वनयाञ्चकार कविरितिज्ञेयम् ॥ २ ॥ सत्य० पूर्वश्लोकात्नाइत्यनुवर्तते । नापुरुषःपन्नगंपदास्पृ- ट्वायथाभयंप्राप्नोतितथारामोपिदुःखितत्वेनादृष्टपूर्वनरपतिरूपंदृष्ट्वाभयमापन्नइत्यर्थः । “भीषास्मात्” इत्यादेस्सर्वभीषकस्यराम- स्यभयं अपिनागर्हयामासकविरितिज्ञेयं । अपूर्वमित्येतद्भयपदेनाप्यन्वेति । अपूर्वेभयंअभयमित्यर्थः । सदाअभयमापन्नइतियतः [ पा० ] १ क. ख. ग. ङ. च. छ. ज. ज. ट. सदनोपमम् २ ट. सर्वास्स. ३ क. च. ञ. नरवरात्मजः संनियम्य. ५ क. ख. ग. ङ. च. छ. झ ञ. ट. शुद्धान्तःपुरमभ्यगात् च. झ ञ. मत्यगात्. ङ. ट. मन्वगात्. छ. माविशत्. ६ च. छ. झ ञ ट तस्मिन्. ७ क. पितुरन्तिके. ८ ङ. च. छ. झ ञ ट पुनस्स्म. क. पुनव. ९ क. ख. ङ च. विषण्णं. १० ङ. च. छ. झ. ञ. ट. कैकेय्या. ११ क. च. ञ. त्युवाच. ङ. छ. झ. ट. त्युक्त्वातु. १२ क. क्लेश. ४ क.