पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ॥ चतुर्णां हि वयस्थानां तेन ते तमनुव्रताः ॥ १५ ॥ चतुष्पथान्देवपथांञ्चैत्यान्यायतनानि च ॥ प्रदक्षिणं परिहरञ्जगाम नृपतेः सुतः ॥ १६ ॥ स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ॥ प्रासाद शृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ १७ ॥ आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ॥ वर्धमानगृहश्चापि रत्नजालपरिष्कृतैः ॥ १८ ॥ रमादर्शनाल्लोकगर्हयाचेतिभावः ॥ १४ ॥ सः रामः | लयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि चतुर्णावर्णानां सर्वेषामपिजनानां । सप्तम्यर्थेषष्ठी । सभादींनिच । परिहरन् अप्रदक्षिणंपरिहरन् । प्रदक्षि- वयःस्थानंप्रमाणंयस्यास्तां वयोनुरूपां दयां | हि य- णंयथाभवतितथाजगामेतिसंबन्धः ॥ १६ ॥ राज- स्मात्कारणात् । कुरुते तेनकारणेन ते तमनुव्रताइत्य- न्वयः । वयस्थानांवृद्धानामितिवा । सर्वविशेषणं कुलं राजगृहं । “कुलंगृहेपि " इत्यमरः ॥ १७ ॥ ॥ १५ ॥ चतुष्पथान् शृङ्गाटकानि । देवपथान् देवा- वर्धमानगृहै: वर्धमानलक्षणाधिष्ठानसमेतगृहैः ॥१८॥ मतिपूर्वक॑गर्हयतीति॒भावः। तुः सर्वत्रार्थेप्रमाणप्रसिद्धियोतकः ॥ १४ ॥ तीर्थी० वयस्स्थानां बाल्यादिवयस्स्थानां । अज्ञा- नामपिदयांमुक्तिपर्यन्तानुग्रहंकुरुतइतिवार्थः । ति० चतुर्णांहि चतुर्णामपि । शि० चतुर्णावर्णानां । सर्वेषां वर्णातिरिक्तानांच । सत्य० श्रीरामदयोदयस्यतत्तदानुरूप्यंनिरूपयति - सर्वेषुसहीति । सर्वेषु देवदानवादिषु | हि यस्मात् । स रामः । धर्मात्मा धर्मबुद्धिः । धारकत्वादादानादिकर्तृत्वाद्वा धर्मात्मा । तेनतेजनास्तमनुव्रताः। “धारकत्वाद्धर्मो भगवान् । पृथिवीधर्ममूर्धनि । आतत- वाचमातृत्वात्" इत्यादेः । परबुद्धेरप्रत्यक्षत्वात्कथमेतज्ज्ञायतइत्यतइश्शृङ्गमाहिकयाऽनुप्राह्यान्माहयति-वर्णानामित्यादिना | चतुर्णावर्णानां ब्राह्मणादीनां । तत्रापिवयस्स्थानां । उपरीतिशेषः । सप्तम्यर्थेषष्ठीवा । यथासंभवंदयांकुरुते । हीत्येतदर्थस्यसर्वानु- भवसिद्धतामाह – वयस्स्थानामिति । दयाविशेषणंवा । वयसा गरुडेन । उपलक्षणयाशेषग्रहः । ताभ्यांस्थानंययासावयस्स्था- नातां । मार्गभूतगरुडशेषाभ्यांप्राप्यमुक्तिस्थानप्रापिकादयेतिभावः । यद्वा वयस्स्थोतिवृद्धत्वाद्ब्रह्मा । अनोवायुः । हिनोतिवयस्स्था- नावितिहिवयस्स्थाना दया । हिगतौबृद्धौचेतिधातुव्याख्यानात् । सर्वेषामितिपाठेन केवलंचतुर्णावर्णानां अपितुसर्वेषामित्यर्थः । कुरु- तइत्यावर्तितंसप्तम्यन्तं । कुत्सितशब्दकर्तृकप्यादावित्यर्थः । उक्तंचभागवतेपश्चमस्कन्धे । “नजन्मनूनंमहतोनसौभगंनचाङ्गबुद्धि- र्नाकृतिस्तोषहेतुः । तैर्यग्विसृष्टानपिनोवनौ कसञ्चकारसख्ये बतलक्ष्मणाग्रजः । सुरोसुरोवाथनरोथवानरस्सर्वात्मनायस्सुकृतज्ञमुत्तम- म् । भजेतरामंमनुजाकृतिंहरिंयउत्तराननयत्कोसलान्दिवम्” इति । केवलंधर्मात्माचेत्नक्षत्रधर्मारामइत्यतोनेत्यप्यनेनाह - स. र्वेषुसहिधर्मात्मेति । सर्वेषामरीणामिषवश्शरास्तान्सोढुंशीलमस्यास्तीतिसर्वेषु सही सचासौधर्मात्माचेत्यर्थः । “सुप्यजातौ—” इतिणिनिप्रत्ययेसाहीतिभवितव्यं कथंसहीतिचेत्संज्ञापूर्वक विधेर नित्यत्वाद्वृद्ध्यभावः । यद्वा "घञर्थेकविधानं” इतिकेसहमस्यास्तीतीनि- नवृद्धेःप्रसक्तिरितिबोध्यम् । नन्वेवंतूष्णीमसहिष्णोःशरसहनंन महत्त्वावहमित्यतोवाह — सर्वेषुसहिधर्मात्मेति । सर्वस्यशर्वस्यइष- वःक्षेप्तुंयस्मिन्तत्सर्वेषु धनुः तस्य सं वारणं निवारणं हापयतीतिसर्वेषुसाहीततःकर्मधारयः । हिंसार्थाद्गत्यर्थाद्वाषर्बेः “धात्वादेष्षस्सः” इतिसत्वेवस्यवत्वेसर्वइतिभवति । “सर्वोह्येषरुद्रः । सर्वस्तुशर्वोभगवाञ्शंभुःकालजनश्शिवः” इतिश्रुतिभानुदीक्षितोदाहृतनामनिधा- ने । “सः कोपेवारणे” इतिविश्वः । धनुर्मनस्कोवा ॥ १५ ॥ ती० प्रदक्षिणंयथातथापरिहरन् अतिक्रामन् । सत्य० देवपथान् देवालयमार्गान् । चैत्यानि यज्ञस्थानानि । अश्वत्थादिमूलबद्धवेदिकावा । आयतनानि देवालयान् । चिञ्चय नेइत्यस्मात् “चित्या • ग्निचित्येच” इतिनिपातनात्स्यचि "हस्वस्य —" इतितुकिपूर्वसूत्रादग्नावित्यनुवर्तनादग्निवाचकचित्यशब्दनिष्पत्तिः । तस्माच “त- स्येदं” इत्यणिचैत्यमितिभवति । तेननपुनरुक्तिः । यद्वा चैत्या निवसिष्ठादिगुर्वन्तर्गतभगवद्रूपाणि । यथोक्तंसप्तमाध्यायगीताभाष्यो- दाहृतस्य “आचार्यचैत्यवपुषास्वगातंव्यनङ्घीत्” इत्येकादश स्कन्ध श्लोकस्यव्याख्यायां “चैत्यंचित्तस्थं” इतिप्रमेयदीपिकायाम् । प्रद- क्षिणंपरिहरन् पूर्वोत्कचतुष्पथादीन्प्रदक्षिणंयथाभवतितथादक्षिणभागेसंत्यजन् । नृपतेस्सुतइत्येकंवापदं । “षष्ठ्याआक्रोशे” इत्य- लुक् । अनेनजगत्पितूरामस्यदशरथसुतत्वायाचुक्रोशकविरितियोत्यते ॥ १६ ॥ सत्य० विविधान्वीन्पक्षिणःदधतइतिविविधानि तैः । “विःपक्षिपरमात्मनोः” इतिविश्वः ॥ १७ ॥ ति० वर्धमानगृहैः क्रीडागृहैः । सत्य० यद्वा वर्धमानगृहैः दक्षिणद्वाररहितैः । उक्तंचैतन्मत्स्यपुराणेवास्तुप्रस्तावेषडुत्तरद्विशततमाध्याये “पश्चिमद्वारही नेतुनन्यावर्त प्रचक्षते । दक्षिणद्वारहीनं तुवर्धमानमुदाहृतं" इति । रत्नजालपरिष्कृतैः रत्नानांजालंसमूहस्तेन । यद्वा रत्नात्मकानिजाला निगवाक्षास्तैः परिष्कृतैः । “जालंगवाक्षआनाये” इति विश्वः ॥ १८ ॥ [ पा० ] १ च. न. ट. सर्वेषांसहि. ङ. छ. झ. सर्वेषुसहि. २ ख. ङ च छ. झ. न. चैत्यांश्चायतनानि. ख. चैत्या. नायतनानि.