पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ ३० ॥ स पर्जन्य इवाकाशे स्वनवानभि॑िनादयन् || निकेतान्त्रिर्ययौ श्रीमान्महेन्द्रादिव चन्द्रमाः ॥ ३१ ॥ छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ जुगोप आतरं आता रथमास्थाय पृष्ठतः ॥ ३२ ॥ ततो हलहलाशन्दस्तुमुल: समजायत || तस्य निष्क्रममाणस्य जनौवस्य समन्ततः ॥ ३३ ॥ ततो हयवरा मुख्या नागाश्र गिरिसन्निभाः ॥ अनुजमुस्तदा रामं शतशोथ सहस्रशः ॥ ३४ ॥ अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः ॥ खङ्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ ३५ ॥ ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् || सिंहनादाश्च शूराणां तंदा शुश्रुविरे पथि ॥३६॥ हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ॥ कीर्यमाणः सुपुष्पधेर्ययौ स्त्रीभि॑र॒दिः ॥ ३७॥ रामं सर्वानवद्याङ्गयो रामपिप्रीषैया ततः || वचोभिरग्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ ३८ ॥ नूनं नन्दति ते माता कौसल्या मातृनन्दन || पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥३९॥ सर्वसीमन्तिनीभ्यश्च 'सीतां सीमन्तिनीं वराम् ॥ अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ ४० ॥ तया सुचरितं देव्या पुरा नूनं महत्तपः || रोहिणीव शशाङ्केन रामसंयोगमाप या ॥ ४१ ॥ इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः || शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ ४२ ॥ स राघवस्तत्र कथाप्रपञ्चाञ्शुश्राव लोकस्य समागतस्य ॥ आत्माधिकारी विविधाश्च वाँच: प्रहृष्टरूपस्य पुँरो जनस्य ॥ ४३ ॥ [ अयोध्याकाण्डम् २ शुकल्पैः कलभसदृशैः ॥ ३० ॥ आकाशेस्ववान् || ३६ ॥ हर्म्यवातायनस्थाभिः प्रासाद्गवाक्षस्था- नादवान् । पर्जन्यइव मेघइव । “ पर्जन्यौरसदब्दे- भिः || ३७ ॥ रामपिप्रीषया रामप्रीणनेच्छया । न्द्रौ” इत्यमरः । अभिनादयन् रथेनदिशइतिशेषः । ववन्दिरे तुष्टुवुः । वदिअभिवादनस्तुत्योरितिधातुः महेन्द्रशब्दउदयाद्रिपरः ॥ ३१ || छत्रचामरपाणि - ॥ ३८ ॥ स्तुतिप्रकारमेवाह - नूनमित्यादि । नन्दती - रिति । एकहस्तेनछत्रंअपरहस्तेनचामरंचधारय- त्यत्रेतिकरणंद्रष्टव्यं । तस्यववन्दिरइतिपूर्वेणसंबन्धः । नित्यर्थः । जुगोपआतपादिभ्यइतिभावः ॥ ३२ ॥ सिद्धयात्रं सफलगमनं । अतएवपित्र्यंराज्यं अवस्थितं हलहलाशब्द: कलकलाशब्दः । तस्यनिष्क्रममाणस्य अधिष्ठितं ॥ ३९ ॥ उत्तर लोकार्थहेतुत्वेनाह - तस्मिन्निष्क्रम माणेसति । जनौघस्यहलहलाशब्दइत्य- सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् त- न्वयः ।। ३३ ।। हुयनागशब्दौतदारूढपरौ ॥ ३४ ॥ यासुचरितमित्युक्तरीत्याप्रमदाभिरुदीरिताइतियोजना रूषिताः लिप्ताः । आशंसव: रामश्रेयआशंसमानाः ॥ ४०-४२ ॥ कथाप्रपञ्चान् लौकिककथाविस्ता ॥ ३५ ॥ ततः तत्रवीथ्यां । तदा निर्गमनकाले रान् । आत्माधिकाराः आत्मानमधिकृत्यप्रवृत्ताः । बोध्यं ॥ ३० ॥ ति० चित्रचामरेति चित्रदण्डयुक्तचामरेत्यर्थः । चन्द्रचामरेतिपाठेचन्द्रवच्छ्रेतचामरेत्यर्थः ॥ ३१ ॥ शि० निष्क्रममाणस्यजनौघस्यहलहलाशब्दः समजायत ॥ ३३ ॥ शि० आशंसवः वंशादिप्रशंसकाः । ति० आशंसवः भद्रमितिशेषः ॥ ३५ ॥ शि० शुश्रुविरे जनैरितिशेषः ॥ ३६ ॥ ति० उपस्थितं प्राप्तवन्तं ॥ ३९ ॥ ति० सीता सीमन्तिनीषु वरा श्रेष्ठाइ- यमन्यन्यन्वयः । शि० हिताः तत्रप्राप्ताः । नार्यः रामस्य हृदयप्रियांसीमन्तिनींसीतां सर्वसीमन्तिनीभ्योवरांअमन्यन्त अकथयन्तेत्यर्थः ॥ ४० ॥ शि० प्रासादशङ्गशब्दः क्षितेरप्युपलक्षकः । अतएवोपक्रमेणन वैरूप्यं ॥ ४२ ॥ [ पा० ] १ क. नन्दयन्. २ क – ञ. ट. महाभ्रादिव. ३ ख. ङ. च. झ. ज. ट. चित्र. छ. चन्द्र. ४ झ ट जग्मुस्तथा. ५ च-झ. ट. भूषिताः ६ क. ग– छ. झ ञ ट शब्दाच. ७ क. ख. ग – छ. झ ञ ट . शब्दाच. ८ ङ. च. छं. . झ ञ ट ततः. ज. तथा. ९ क. सपुष्पौघैः १० ख. स्त्रीभिस्समन्ततः ११ ख. प्रियचिकीर्षया १२ ङ. च. छ. झ, ञ. ट. मुपस्थितम्. १३ झ. सीतासीमन्तिनीवरा १४ क. च. ञ. ट. मापसा. १५ छ. झ. ट. तदाप्रलापान्, क - घ. च. ज. ज. कथाप्रलापानू. १६ ग. वाचाः १७क. ग. घ. इञ. पुरे.