पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५] . श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ७१ अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥ वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे ॥१२॥ इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥ तथाजातीयमादाय राजपुत्राभिषेचनम् ।। १३ ।। ते राजवचनात्तत्र समवेता महीपतिम् || अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् ॥ १४ ॥ न पश्यामश्च राजानमुदितच दिवाकरः || यौवराज्याभिषेकञ्च सज्जो रामस्य धीमतः ॥ १५ ॥ इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् || अब्रवीत्तानिदं सर्वान्सुमत्रो राजसत्कृतः ॥ १६ ॥ रामं राज्ञो नियोगेन त्वरया प्रस्थितो स्म्यहम् ॥ पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥१७॥ अयं पृच्छामि वचनात्सुखमायुष्मतामहम् || राज्ञः संप्रतिबुद्धस्स यच्चागमनकारणम् ॥ १८ ॥ इत्युक्त्वाऽन्तःपुरद्वारमाजगाम पुराणवित् ॥ सदाऽसक्तं च तंद्वेश्म सुमन्त्रः प्रविवेश ह ॥ १९ ॥ तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ॥ शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ २० ॥ सोत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा || आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ २१ ॥ सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि || वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ २२ ॥ [ यथा साङ्गाश्च वेदा वै ब्रह्माणं बोधयन्ति ते ॥ तथा त्वां धीर बोध्यामि ह्युत्तिष्ठ पुरुषर्षभ]]||२३|| गता भगवती रात्रिः कृतं कृत्यमिदं तव || बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ २४ ॥ ब्राह्मणा बलमुख्याश्च नैर्गैमाचागता नृप || दर्शनं प्रतिकाते प्रतिबुध्यस्व राघव ॥ २५ ॥ स्तुवन्तं तं तदा सूतं सुमत्रं मत्रकोविदम् || प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ २६ ॥ "राजवाह्यस्त्वौपवाह्यः” इत्यमरः ॥११॥ माङ्गल्या: | कंवचनात् राज्ञः सुखपृच्छामि । यञ्चागमनकारणंद- मङ्गलार्हाः । वादित्राणि वीणादिचतुर्विधवाद्यानि र्शनायानागमनहेतुः तं च । अयमविलंबेनपृच्छामि ॥ १२ ॥ इक्ष्वाकूणांराज्येअभिषेचनमुद्दिश्य यथासं- ॥ १७-१८ ॥ पुराणवित् सामन्तराजानुवर्तनरू- भ्रियेत वस्तुजातमितिशेषः । तथाजातीयं अनर्धरत्ना- दिवस्तुजातं । आदाय । ते महीपतयः । राजवचना- तूं राजपुत्राभिषेचनमुद्दिश्य । तत्र राजभवनद्वारे । समवेताः महीपतिमपश्यन्तः राज्ञः कोनु नः प्रतिवेद- येदित्यब्रुवन्नितियोजना ॥ १३-१४ ॥ सज्ज : सं पन्नसाधनइत्यर्थः ॥ १५–१६ ॥ रामंप्रस्थितः आने- राघवं दशरथं । पुनः स्तोत्रकरणंसूतस्यविज्ञापनात् तुमितिशेषः । यस्मात्पूज्यास्तस्मात् । आयुष्मतांयुष्मा- | पूर्वस्तुतेः कुलधर्मत्वात् ॥ २१–२५ ।। प्रतिबुध्य पपुरातनवृत्तान्तज्ञः । सदाऽसक्तं सर्वदाअनिवारितं ।। १९ ।। शयनीयं शयनयोग्यंगृहम् ॥ २० ॥ अ- त्यासाद्य अतिशयेनप्राप्य । अतिसमीपंप्राप्येत्यर्थः । | तिरस्करणिमन्तरा यवनिकामात्रंव्यवधानंकृत्वेत्यर्थः । हरन्ति । ति० अभिषेकपुरस्सरं अभिषेकसामग्रीमुख्यं । ती० अभिषेकपुरस्कृतं प्रक्षालितं ॥१०॥ ति० यद्यपिप्रस्थितः तथापि भवन्तोराज्ञोरामस्यचपूज्याइतिकृत्वाऽऽयुष्मतांयुष्माकंवचनात् सर्वेराजानोब्राह्मणादयश्चमहाराजं सुखं सुखशयनंपृच्छन्तीतिविज्ञा- पयामि । जाग्रतोपिबहिरनागमनकारणं किमितिचपृच्छन्तीतिविज्ञापयामि ॥ १७-१८ ॥ स० विशां प्रजानां । पतेः पत्युः । ननु- कथं पतेरिति । “पतिस्समास एव" इतिसमासे घिसंज्ञाविधानादिति चेन्न । पतिरित्याख्यातः पतिः । पौटिलोपे "अचइः" इत्यौणा- दिकइः । अयंपतिशब्द: " पतिस्समासएव " इत्यत्रनगृह्यते । लाक्षणिकत्वात् ॥ २० ॥ ति० तिरस्करणिअन्तरा कृत्वे तिशेषः ॥ २१ ॥ ति० निगमोवाणिज्यंतत्संबन्धिनोनैगमाः ॥ २५ ॥ ति० प्रतिबुध्य जवनिकान्तर्हितमपिसुम ध्वनिनाज्ञात्वा ॥२६॥ [ पा० ] १ क. ख. ग. राज्ञे. २ ङ. छ. झ. ट. सर्वोस्तांश्च ३ क. ख. ग. ङ. छ. झ ञ ट वाक्यं. ४ घ. राज्ञोनु. ५ च छ ज झ ञ ट . ह्यहम्. ६ छ. राज्ञा. घ. भवन्तोराज्ञस्तु. च. झ ञ ट भवन्तश्च ७ ख. घ. ङ. झ. ट. रामस्यतु. ८ घ. राज्ञस्सुसंप्रबुद्धस्य ९ ङ. छ. झ. चानागमन. १० ज. तद्वारं. ११ क. ख. च. न. सुमन्त्रस्स १२ क. कृतं वेश्म. १३ अयं श्लोकः क. च. न. दृश्यते. १४ क. ख. ग. ङ—ट. रात्रिरहरिशवमुपस्थितम्. घ. रहरिशवमुपागतम्. १५ क ग. च. छ. ञ. नरशार्दूल. ङ. झ ट राजशार्दूल १६ ङ. छ. झ. ट. चागतास्त्विह. ख. च. ज. श्चागतानृपाः १७ क. ख. ग, ङ. च. छ. झ॰ न. ट. तेऽभिकाङ्क्षन्ते. १८ क. तंस्तुवन्तं. छ. स्तुवन्तंच. घ. संस्तुवन्तं, १९ क. ख. तदा,