पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ पञ्चदशः सर्गः ॥ १५ ॥ रामानयनायान्तः पुरान्निर्गच्छतासुमन्त्रेणाभिषेचनिकसामग्रीसजीकरणपूर्वकंराजागमनप्रतीक्षणेनद्वारितिष्ठतांब्राह्मणादीना- मुपायनपाणीनांमहीपतीनांचावलोकनेनपुनरन्तःपुरप्रवेशेनस्तुति पूर्वकंराज्ञितनिवेदनम् ॥ १ ॥ तथापुनर्दशरथचोदनयारामा- नयनायतदन्तःपुरप्रवेशनम् ॥ २ ॥ तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः || उपतस्थुरुपस्थानं सहराजपुरोहिताः ॥ १ ॥ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ॥ राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ २ ॥ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि || लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ॥ ३ ॥ काञ्चना जलकुंभाच भद्रपीठं स्वलंकृतम् || रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥ ४ ॥ गङ्गायमुनयो: पुण्यात्सङ्गमादाहृतं जलम् ॥ याचान्याः सरितः पुण्या इदाः कृपाः स॒रांसि च ॥५॥ प्राग्वाहाचोर्ध्ववाहांश्च तिर्यग्वाहास्समाहिताः ॥ ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ ६ ॥ [अष्टौ च कन्या रुचिरा मत्तथ वरवारणः] ॥ सँलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ पद्मोत्पलता भान्ति पूर्णाः परमवारिणा ॥ ७ ॥ क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः || वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ॥ [लीलावत्यः सुभ्रुवश्च लोलनेत्राश्च सर्वशः] ॥ ८ ॥ चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् ॥ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ ९ ॥ चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् || सज्जं द्युतिकरं श्रीमदभिषेकेंपुरस्कृतम् ॥ १० ॥ पाण्डुरश्च वृषः सज्जः पाण्डुरोश्वश्व संस्थितः ॥ प्रसृतश्च गजः श्रीमानौपवाः प्रतीक्षते ॥ ११ ॥ अथरामाभिषेकसामग्रीसन्निधानमाहपञ्चदशे । उ- | र्ध्ववाहा: प्रत्यग्वाहाः इत्यप्याहुः । ऊर्ध्वाद्वहन्तीत्यूर्ध्व- ष्य उषित्वा । उपस्थानं सदः ॥ १ ॥ निगमस्य पु- वाहाः निर्झराइतिकेचित् । तिर्यग्वाहाः दक्षिणोत्तरा- रस्य। “निगमोनिश्चयेवेदेपुरेपथिवणिक्पथे” इतिवैज- भिमुखप्रवाहाः । गण्डकीशोणभद्रादयः ॥ ६ ॥ क्षी- यन्ती ॥ २ ॥ उपकल्पितं अभिषेकार्थद्रव्यजातमिति रिभिः अश्वत्थोदुंबरादिभिः । पूर्वजलकुंभमात्रमुक्तं शेषः।।३।। उपकल्पितमेवप्रपञ्चयति – काञ्चनाइत्या- अत्रतद्विशेषइतिनपुनरुक्तिः ॥ ७ ॥ क्षौद्रं मधु । सु- दि । अत्रभान्तीत्यनुषज्यते ॥ ४ ॥ आहृतं वर्ततइति मनसः कुसुमानि | शुभाचारा: अञ्जनस्रगलङ्करणा- शेषः । याश्चान्यास्सरितइत्यत्रताभ्यश्चेत्यनुकृष्याहृत- | दिमङ्गलवेषयुक्ताः ॥ ८ ॥ चन्द्रांशुविकचप्रख्यं वि मितिपूर्वेणसंबन्धः । येचदाःकूपाः यानिसरांसि | कचचन्द्रांशुसदृशं । विकचत्वंविस्तृतत्वं । यद्वा चन्द्रां- अत्रतुतेभ्यइत्यध्याहारः । आहृतंजलमितिपूर्वेणसंब- शवइवविकचा विस्तृताप्रख्याकान्तिर्यस्यतत्तथा । का- न्धः ॥ ५ ॥ प्राग्वाहाः पूर्वाभिमुखप्रवाहाः । गोदा- | चनं काञ्चनदण्डं । सज्जं गन्धपुष्पादिभिरलङ्कृतं वरीकावेर्यादयः । ऊर्ध्ववाहा: ऊर्ध्वोद्गतप्रवाहाः । ॥ ९ ॥ अभिषेक पुरस्कृतं अभिषेकायपुरस्कृतं ||१०|| नैमिषारण्यस्थब्रह्मावर्तरुद्रावर्तादिसरोविशेषाः । ऊ- प्रसृतः प्रकर्षेणस्रवन्मदः । औपवाह्यः राजवाह्यः । ति०उपस्थानं राजद्वारं । अधिकरणेल्युट् ॥ १ ॥ ति० निगमः वणिक्समूहः ॥ २ ॥ ति० रामस्यजन्म जन्मनिस्थितेज- न्मकालस्थेकर्कटलग्नेचप्राप्ते ॥ ३ ॥ अभिषेकाय अभिषेकार्थे । उपकरणं उपकल्पितं सिद्धमित्यर्थः । जलकुंभाःआनीताः । अलङ्क- तंभद्रपीठंस्थापितं ॥४॥ ति० क्षीरिणः । क्षीरपूर्णाः । क्षीरमजलं | ङीबभावआर्षः । स० नदाइत्यध्याहृत्यलिङ्गानुपपत्तिकेचित्परि- [पा०] १ घ.च. छ. येचान्ये २ घ. अभिषेकार्थे. ३ क. ङ. छ. झ ञ ट . स्सुसंगताः ४ क. द्विजैश्चपरि. ५ ङ. छ. झ. ञ. ट. तिर्यग्वाहाश्चक्षीरिणः ६ इदमर्धे झ. दृश्यते ७ ङ. छ. ज झ ञ ट सजला: ८ इदमर्धे ग. घ. च. ज. दृश्यते. ९ ङ. च. छ. झ. ट. पाण्डुरं, १० ङ. च. छ. झ. ब. ट. पुरस्सरम्. ११ च. छ. झ. ञ. ट. पाण्डुराश्वश्च १२ क. ग..घ. ज. सुस्थितः.