सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 संर्ग: १४ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ६९ • सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् || प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमत् ।। ६० ।। यदा वक्तुं स्वयं दैन्यान्न शशांक महीपतिः ॥ तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ ६१ ॥ सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥ प्रजागरपरिश्रान्तो निंद्राया वशमेयिवान् ॥ ६२ ॥ तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् || राममानय भद्रं ते नात्र कार्या विचारणा ॥ ६३ ॥ [अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ॥ तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् ॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ] ॥ ६४ ॥ स मन्यमानः कल्याणं हृदयेन ननन्द च || निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।। ६५ ।। सुमत्रश्चिन्तयामास त्वरितं चोदितस्तया || व्यक्तं रीमाभिषेकार्थमिहायाँस्यति धर्मवित् ।। ६६ ।। इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥ निर्जगाम महाबाहू राघवस्य दिदृक्षया ।। ६७ ।। सागरहदसङ्काशात्सुमत्रोन्तःपुराच्छुभात् ॥ निष्क्रम्य जैनसंबाधं ददर्श द्वारमग्रतः || ६८ ॥ ततः पुरस्तात्सहसा " विनिर्गतो महीपतीन्द्वारगतो विलोकयन् ॥ ददर्श पौरान्विविधान्महाधनानुपस्थितान्द्वारर्मुपेत्य विष्ठितान् ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥ १४ ॥ ॥ ५९ ॥ करुणं दीनवाक्यं ॥ ६० || मन्त्रज्ञा राज- | त्समुद्रस्थह्रदौपम्यं । जनसंबाधं जनैर्निबिडं ॥ ६८ ॥ नीत्यनुसारेणस्वकार्योचित विचारज्ञेत्यर्थः ॥ ६१ ॥ र- जनीमितिअत्यन्तसंयोगेद्वितीया । प्रजागरो निद्राक्षय: ॥ ६२ ॥ विचारणेत्यनन्तरमितिशब्दोऽध्याहर्तव्यः । इतिप्रत्युवाचेत्यन्वयः ॥ ६३-६४ ॥ राजशासना- दित्युक्तिः राजसंमत मितिबुद्ध्या ॥ ६५ - ६७ ॥ सागरहदः समुद्रान्तर्गतहदः । पुरान्तर्वर्त्यन्तःपुरत्वा- पुरस्तात् अग्रे | महीपती विलोकयन् पश्चात् पौरानद- दर्श | महाधनान् उपहारपाणीन् । उपस्थितान् उपस्था- नं सदः कुर्वतः ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- व्याख्याने चतुर्दशः सर्गः ॥ १४ ॥ ति० कल्याणंमन्यमानःकदाचिद्रामं दृष्ट्वातस्मिन्प्रीतिक रिष्यतीतिमन्यमानः । यद्वाअस्मिन्नवसरेराम दर्शनमेवकल्याणमन्यमानः । मृतिसमयत्वात् । यद्वादेवानामृषीणांचकल्याणमन्यमानः । अतएवहृदयेनननन्दनतुब हिस्तञ्चिह्नमितिभावः ॥ ६५ ॥ ति० निर्गमनकालेपुनस्त्वरितमानयेतितया कैकेय्याप्रेरितश्चिन्तयामास | किमित्येषाभूयस्त्वरयतीतिचिन्ता | व्यक्तंरामाभिषेकार्थमेवै- षात्वरयति । इहधर्मराट् दशरथः । आयस्यति आयासवान्भवति । प्रयासबाहुल्येनप्रायोबहिर्नागमिष्यतीतिमतिंकृत्वेत्यन्वयः । शि० धर्मराट् दशरथः । इद्द अभिषेकशालायां | व्यक्तंयथास्यात्तथाआयास्यति इतिमतिंकृत्वा ॥६६॥ ति० महीपतेर्द्वारगतान् अधिकारिणः । विलोकयन् ॥ ६९ ॥ इतिचतुर्दशस्सर्गः ॥ १४ ॥ । [ पा० ] १ घ. कामहर्ष. २ ङ. छ. झ. ट. निद्रावशमुपागतः क – घ. च. ज. ज. निद्रायावशमागतः ३ इदमर्धत्रयं ङ. च. छ. झ ञ ट दृश्यते. ४ क. ङ. छ. झ ञ ट सप्रीत्या. ५ क ख ग घ. त्वरितचोदितः ६ ङ. छ. झ. ट. रामाभिषेकार्थे. क. ख. घ. ज. रामोभिषेकार्थे. ७ट. मिहायस्यति. ८ ङ. छ. झ. ट. धर्मराद्. क. ख. च. अ. धर्मभाक्. ९ ङ. छ. झ ट पुनः १० ङ. छ. झ ञ ट महातेजाः ज. महावेगात्. ११ क. ज. संबाधां. १२ क. ख. ङ. च. छ. . झ ञ ट विनिस्टतो. १३ क महीभृतो. क. घ. ङ. छ. झ ञ ट महीपतेद्वारगतान् ख. महीपतिद्वारगतान. १४ क. घ. च. ज. म. महाजनान्. १५ ख झ. निष्ठितान्.