सर्गः १४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आहुः स॒त्यं हि परमं धर्म धर्मविदो जनाः ॥ सत्यमश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ ३ ॥ संश्रुत्य शैव्यः श्येनाय स्वां तनुं जगतीपतिः ॥ प्रदाय पक्षिणे राजञ्जगाम गतिमुत्तमाम् ॥ ४ ॥ तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे || याचमाने खके नेत्रे उद्धृत्याविमना ददौ ॥ ५ ॥ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ॥ सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ॥ ६ ॥ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ॥ सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७ ॥ सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ॥ स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ ८ ॥ धर्मस्येहांभिकामार्थ मम चैवाभिचोदनात् || प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥ समयं च मँमाद्येमं यदि त्वं न करिष्यसि ॥ अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया || नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ११ ॥ उद्धान्तहृदयश्चापि विवर्णवदनोऽभवत् || स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ॥ १२ ॥ विषैलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ॥ कृच्छ्राद्वैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥ यस्ते मन्त्रकृतः पाणिरौ पापे मया धृतः ॥ तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ १४ ॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ॥ अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥ ८८ यां । “ मर्यादाधारणास्थिति: " इत्यमरः । स्थातुम- | अभिकामार्थ प्रीत्यर्थे । धर्माभिवृद्ध्यर्थमितियावत् । र्हसि ॥ २ ॥ इदमेवयुक्तमितिदर्शयति – आहुरित्यादि- मम प्रियाया इतिशेषः । समनस्कत्वज्ञापनायत्रिरित्युक्तं ना। सत्यरूपंधर्ममाश्रित्यहिमयाप्रचोदितः ॥ ३ ॥ प्रा- ॥ ९ ॥ समयं रामविवासनं | परित्यक्ता उपेक्षिता णसङ्कटेकथंसत्यंपालनीयमित्यत्राह– संश्रुत्येत्यादिना ॥ ४॥ याचमानेब्राह्मणे अविमना : सुप्रसन्नमना: सन् | नेत्रेददौ तस्माइतिशेषः ॥ ५ ॥ सरितांपति: समुद्रः। मर्याददा॑सत्यमन्वितः वेलांनातिवर्ततइतिमर्या- दारूपंसत्यंप्राप्तःसन् । सत्यानुरोधात् स्वकृतसत्यानुव- र्तनात् । समये संकल्पितकाले । स्वांवेलां स्वल्पामपि नातिवर्ततइतिसंबन्धः।।६।। सत्यमेवएकपदंब्रह्म एकं मु- ख्यं । “एके मुख्यान्यकेवला:" इत्यमरः । पद्यतइतिपदं ॥ १० ॥ एवं त्रिर्ब्रवीमीत्येवं । पाशं सत्यपाशं । उन्मोक्तुं मोचयितुं । बलि: महाबल: । इन्द्रकृतं इन्द्रद्वारोपेन्द्रकृतं । पाशं पदत्रयदानप्रतिज्ञारूपं पद- त्रयादानान्निगलंवा ॥ ११ ॥ सः राजा | युगचक्रयो - रन्तरंपरिस्पन्दन् गच्छन् । धुर्योयथा अनड्डानिव | उद्धान्तहृदयोविवर्णवदनञ्चाभवत् ॥ १२ ॥ विह्वला- भ्यांक्षुब्धाभ्यां । अपश्यन्निव अन्धइव स्थितः भूमिपः । परमप्राप्यं ब्रह्मेत्यर्थः। यद्वा एकंपदंप्रणवरूपंवाचकंयस्य कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य दुःखातिशयजनित- क्षोभंनिरुद्ध्येत्यर्थः ॥१३ ॥ हेपापे अग्नौ अग्निसमीपे । तत्तथा " ओमित्येकाक्षरंब्रह्म ” इतिस्मृतेः । सत्येध- र्मःप्रतिष्ठितः सत्यमेवधर्मस्य पराकाष्ठेत्यर्थः । अक्षयावे- सामीप्येसप्तमी । मन्त्रकृतः मन्त्रसंस्कृतः । यः पाणि- दाश्चसत्यमेव प्राधान्येनप्रतिपादयन्तीत्यर्थः । परं प्रयो- र्मयाधृतः तंत्यजामि तत्प्रयुक्तव्यवहारंत्यजामीत्यर्थः । जनं । सत्येनैवाप्यते ॥ ७ ॥ अत्रादौतस्मादित्युपस्का- अतएव स्वजं स्वस्माज्जातमपि । तवपुत्रं त्वयासहत्य- यै । धृता स्थिरा । वरदः सर्वेषांसर्ववरप्रदः ॥ ८ ॥ | जामि ॥ १४ ॥ उदयनंप्रति उदयंप्रतिलभ्य त्वरयि- प्रतिज्ञायइदंदानं पापंअनिष्टमिवकृत्वामत्वेत्यर्थः ॥ २ ॥ शि० विकलाभ्यां दर्शनकलारहिताभ्यां ॥ १३ ॥ . [ पा० ] १ ङ. छ. झ. माश्रित्यच. २ ङ. छ. झ. ट. वंघर्मप्रतिचोदितः क. ख. ग. च. ज. अ. लंचधर्मप्रचोदितः. ३ क. ख. ग. ङ. च. छ. झ ञ ट राजा. ४ क. घ. च. याच्यमानः ५ क. ग. घ. ज. उद्धृत्यसुमना ६ ख. सत्यसंमितः. ७ ग. घ. छ. स्वांवेलां. ८ क. ख. ग. च – ट. सत्येनावाप्यते. ९ ख. ङ. च. छ. झ ञ ट धर्मस्यैवाभि. ग. घ. ज. धर्मस्यहित. क. सधर्मस्याभि. १० क. ख. ड–झ. ट. ममार्यैनं. ११ घ. ज. यदिनत्वं १२ क. ग. घ. ज. चक्रान्तरंगतः. ङ. चक्रान्तरेयथा १३ ङ. झ ट विकलाभ्यां छ. विकृताभ्यां• १४ ख. घ, ङ. छ. झ. ट. संत्यजामि १५ घ. ज. वापि, १६ ङ, छ. झ. ट. अभिषेकाम हिजनः वा. रा. ४१
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६९
दिखावट