पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२ ] दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ ५६ ॥ अनर्थमिममर्थाभं केन त्वमुपदर्शिता || भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ ५७ ॥ शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ बालायास्तविदानीं ते लक्षये विपरीतवत् ।। ५८ ।। कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।। ५९ ।। विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ यदि भर्तुः प्रियं कार्य लोकस्य भरतस्य च ॥६० ॥ नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि || किंनु दुःखमलीकं वा मयि रामे च पश्यसि ॥ ६१ ॥ न कथंचिदृते रामाद्भरतो राज्यमावसेत् || रामादपि हि तं मन्ये धर्मतो बलवत्तरम् ॥ ६२ ॥ कैथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ॥ मुखवर्ण विवर्ण तं यथैवेन्दुमुपद्भुतम् || ६३ ।। तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ ६४ ॥ किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ॥ बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ६५ यंदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः ॥ परिप्रेक्ष्यन्ति काकुत्स्थं वैदयामि किमहं तदा ॥ ६६ ॥ कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया ॥ यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।। ६७ ॥ श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ५७ - विपरीतः सन्निपातादिनाविपरीतप्रकृतिः । आतुरः | तकारिणीति | जन्मान्तरेपापकारिणीत्यर्थः । दुःखं व्याधितः । “व्याधितोपटुरातुरः" इत्यमरः । हृततेजाः दुःखनिमित्तं । अलीकं अप्रियं । " अलीकंत्वप्रिये - मन्त्रापहृतवीर्यः ॥ ५५-५६ ॥ उपदर्शिता बोधिता ऽनृते " इत्यमरः ॥ ६१-६२ ।। वनंगच्छेतिमया ॥ ५७ ॥ शीलव्यसनं सद्वृत्तभ्रंशं । “व्यसनं विपदि भाषितसति । विवर्ण विपरीतवर्णत्वमापादितं । राम- भ्रंशे” इत्यमरः। नाभिजानामि किंतुशीलमेवाभिजाना- स्यमुखवर्ण उपप्लुतं राहुप्रस्तमिव कथंद्रक्ष्यामीतिसं- मि । तत्रहेतुमाह – बालायाइति । इदानीं प्रौढतायां । बन्धः || ६३ ॥ तां बुद्धिस्थां । सुकृतां मत्रिभिः तत् शीलं । विपरीतवत् विपरीतत्ववत् । भावप्रधानोनि- सहसुष्टुनिश्चितां । अथसुहृद्भिस्सनिश्चितांबुद्धिं अपा- र्देशः । स्वार्थेवतिर्वा ॥ ५८ ॥ कुतइति कुतोनिमित्ता- वृत्तां अधरोत्तरीकृतां । कथंद्रक्ष्यामि अनुभविष्यामि त् । एवंविधमित्यस्यैवविवरणं राष्ट्रइति । वनेराघवमिति ॥ ६४ ॥ बतेतिखेदे | ऐक्ष्वाकः रामः । राज्यमंका- आसीनमित्यनुषङ्गः ॥५९॥ एतेनभावेन भरताभिषेक- रयत् किमकरोत् । इतिमांकिंवक्ष्यन्तीतिसंबन्धः । रूपेण | विरम माप्रवर्तिष्ठाः । अनृतेन अनृतपदवा- यद्वा बाल: अज्ञः । दशरथ: । घुणक्षतलिपिन्या- च्येन । एतेनवा रामविवासनरूपेणभावेनवा | विर- येनदैवाञ्चिरंराज्यमकरोदितिमांवक्ष्यन्ति – किमिति मेतिसंबन्धः ॥ ६० ॥ नृशंसे निर्दये | तनहेतुः- ।। ६५ ॥ यदा श्वः प्रातः वृद्धाः काकुत्स्थंप्रक्ष्यन्ति पापसंकल्पइति । रामविवासनरूपपापसंकल्पे । तत्रा- क्वगतोरामः कुतोनाभिषिक्त इतिप्रक्ष्यन्ति । तदाहं किं पिहेतुः क्षुद्रइति । अल्पमतिके । तत्रापिहेतुः - दुष्कृ- | वक्ष्यामिप्रत्युत्तरं ॥ ६६ || कैकेयीवरप्रदाननिमित्तं ति०एतेननिर्धूतपातिव्रत्यलक्षणेनभावेनोपलक्षिता | किंच एतेन अशक्यवरद्वारकेण । अनृतेन ममानृततासंपादकेनकर्मणा । उपलक्षिता त्वमेववराद्विरम | स० अनृतेन ऋतनामहरिविरुद्धेन । भावेन अभिप्रायेण ॥ ६० ॥ ती० रामादृते रामविना । भरतःकथंचिदपिराज्यंनावसेत् नाकामेत् । अनेनयथाभागशश्चतुर्णीमेवराज्यमनुमन्यस्वेत्युक्तं ॥ ६२ ॥ स० वनंगच्छेतिमयाभा- षितेउक्तेसत्यपि । त्वंकथंवक्ष्यसि । तस्यत्वदतिप्रियत्वादितिभावः । उपतमिन्दुंयथा तमिव विवर्णमुखवर्ण आदर्शादौकथंद्रक्ष्या- मीतिसंबन्धः । शि० रामस्य रामं । कथंवक्ष्यसि । कर्मणः संबन्धसामान्यत्वेनविवक्षणाद्रामस्येतिषष्ठी ॥ ६३ ॥ [ पा० ] १ ङ. छ. झ. न. दीनयाऽऽतुरयावाचा. २ ज. मिदमर्थाभं ३ ङ. छ – ट. मुपदेशिता. ४ क. ब्रुवन्तीत्वं. ५ ख स्तदिदानींते ६ ङ च छ. झ. ट. नानृतेनच. ७ ङ. छ. झ. ट. कथंवक्ष्यसि. ८ क. ग. मुखेवर्ण. ९ ङ. छ. झ. ट. विवर्णतु. १० ङ. झ. यदाहिबहवो ११ घ, ङ. परिपृच्छन्ति १२ ङ. छ. झ. वक्ष्यामीहकथंतदा. घ. वक्ष्यामिकिमिदंतदा. १३ क - ङ. ज. रामः प्रवाजितो. वा. रा. ४०