२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ स तत्र न्यवसद्धात्रा सह सत्कारसत्कृतः ॥ मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ २ ॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ॥ भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ३ ॥ राजाऽपि तौ महोतेजाः समार प्रोषितौ सुतौ ॥ उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ४ ॥ सर्व एव तु तस्येष्टाचत्वारः पुरुषर्षभाः || स्वशरीराद्विनिर्वृत्ताश्चत्वार इव वाहवः ॥ ५ त् । रामेवनंगतेतदनुसारिणिचंलक्ष्मणेराजनिचत्रिद- सइति । सः भरतः । तव मातुलगृहे । अश्वपतिना शसदनमुपसे दुषि केवलरामाज्ञयाप्राज्यराज्यभारनि- मातुलेन युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदाना - र्वाहकरणेनेत्यर्थः । तदा तद्गमनकालएव । अनेनस्खा - दिना पूजितोपि । पुत्रस्नेहेन पुत्रविषय स्नेहतुल्यस्नेहेन । नुकूलचन्द्रताराबलाद्यनपेक्षणोत्तयापारतत्रयमेवविशे- लालितः विशिष्टभोजनाच्छादनाभरणप्रदानादिमिरु- षितं । अनघः अस्मिन्प्रकरणेअघशब्देनकेवलराम- पलालितोपिसन् । भ्रात्रा शत्रुघ्नेन | सह । न्यवसत् । भक्तिरुच्यते । स्वशेषिभूतभरतोद्देश्यताकारेणहिशत्रु- भ्रातृस्नेहेनैवतन्त्रस्थितः । नतुमातुलोपलालनमात्रादि- घ्नस्यरामभक्तिरुद्देश्या । अतएववक्ष्यति "नाह॑स्वपि - तिभावः । यद्वा सः शत्रुघ्नः । भ्रात्रासहलालितइत्यन्व- मिजागर्मितमेवार्यविचिन्तयन्” इति । “जग्राहभर- य: । " सहयुक्तेप्रधाने" इतितृतीया । अश्वपतिः स्व- तोरश्मीन्शत्रुघ्नश्छत्रमाददे" इतिच । अनिष्टावहस्यपा- स्त्रीयादपिशत्रुघ्नमतिशयेनलालितवानित्यर्थः । अथवा पशब्दवाच्यत्वात् । स्वशेषिभरतोद्देश्यत्वाकारंविनारा- भ्रात्रासहन्यवसत् रामेणसहन्यवसत् । सदारामचिन्त- मभक्तेरनिष्टावहत्वात्तस्याअघत्वं "नसुकृतंनदुष्कृतंस- यातेन सहवर्तमानइवस्थितइत्यर्थः ॥ २ ॥ तत्र सर्वोप वैपाप्मानोतोनिवर्तन्ते” इतिश्रुतौ सुकृतस्य मुमुक्षोर- लालनभूयिष्ठेमातुलगृहे । निवसन्तावपि । कामतः का- निष्टावहत्वेनपाप्मत्वव्यपदेशात् । शत्रुघ्नः शत्रून्लव- म्यमानसर्वाभिमतवस्तुभिः । तृतीयार्थेतसिः। तर्प्यमा- णासुरादीन्हनिष्यत्ययमितिभाविप्रतिसन्धानेनशत्रुघ्न णौच संतोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ इतिवसिष्ठेनकृतनामधेयः । नित्यशत्रुघ्नः नित्यशत्र- भरतशत्रुघ्नौ । वृद्धंनृपं जीर्णमहीपतिंदशरथं । स्मरतां वोज्ञानेन्द्रियाणि । शरीरेनित्यंसंनिधायविषयान्त- अस्मरतां । अनित्यमागमशासनमित्यडभाव: । दशरथो रप्रावण्यरूपविपरीतकार्यकारित्वात् । तान्हन्ती- वृद्धोभून्नराज्यभरणेसम्यक्क्षमते अपीदानींरामयुवरा- तिनित्यशत्रुघ्नः । इन्द्रियनिग्रहवानित्यर्थः । पुंसां - जंकारयेदिति अचिन्तयतामितिभावः ॥ ३ ॥ महा- दृष्टिचित्तापहारिण्यपिनमग्नेन्द्रिय: । रामविषयभ- तेजा: सत्पुत्रलाभकृतनिरवधिकतेजस्कः । राजा दश- क्तिःस्वाधिकारविरुद्धेतितन्निवर्तनमस्यकार्यमेव । नी- रथः । महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसंपन्नौ । तइत्युक्तं नतुययाविति । तेनाचिद्वत्पारतंत्र्यमुक्तं । प्रोषितौ देशान्तरगतौ । निरवधिकप्रीतिविषयभूतौ प्रीतिपुरस्कृतः किंकरोमिज्येष्ठानुवर्तनकनिष्ठेनकार्य- उमा भरतशत्रुनो सुतौ सस्मार | सर्वसंपत्समृद्ध मितिविधिपरतन्रोनगतः अपितुप्रीतिप्रेरितोऽगच्छदि- स्यापिमेपुत्रद्वयासन्निधानमेवन्यूनतेत्यस्मरदितिभावः । त्युक्तं । तेनचितोव्यावृत्तिरुक्ता । प्रीतिरेवह्यचेतनापे- उभावितिस्मृतिविषयेतारतम्याभावोक्तिः ॥ ४ ॥ क्षयाचेतनस्यविशेषः । भगवत्पारतत्र्यंतुचेतनाचेत- रामलक्ष्मणसन्निधानेकथमितरपुत्रस्मरणमित्यत्राह साधारणमेव । यद्यत्यन्तसारग्राहीपुरुषः स्यात्तदा- | सर्वइति । तुशब्दउक्तशङ्काव्यावृत्त्यर्थः । चत्वारः च शत्रुघ्नवद्भागवतपरतत्रतयावर्तितव्यमितिव्यञ्जितं ।तुर्धावस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशे- व्यञ्जनावृत्त्याभिमतार्थप्रदर्शनंह्युत्तमकाव्यकृत्यं ॥ १ ॥ षेण | तस्य दशरथस्य | शरीराद्विनिर्वृत्ताः निष्पन्नाः । रामभक्तोभरतःकथंतंविहायमातुलकुलेन्यवसदित्यपे- चत्वारोबाहवइव इष्टाः प्रियाएवासन् | अभूतोपमा । क्षाय रामाभिमानविषयभूतशत्रुघ्नसहवासादित्याह - अयोगव्यवच्छेदार्थेएवकारः । लोकेकस्यचिच्चतुर्षुबाहु- रहितः । वि० अनघः अहमपिदाशरथिःममभ्रात्रनुवर्तनं किमित्येवं अर्धन विद्यतेयस्यसः । शि० तदा पित्राज्ञाकाले ॥ १ ॥ ति० पु- त्रस्नेहेन पुत्रादप्यधिकस्नेहेनेत्येके ॥ २ ॥ ती० तत्रापीतिअपिनास्थलसौख्यंद्योत्यते । वृद्धंस्मरतामित्यत्रशुश्रूषाकालोतीतइतिधर्मलो पभियापितरंस्मृतवन्तावितितात्पर्ये ॥ ३ ॥ विनिर्वृत्ताः विनिर्गताः । अनेनराज्ञोविष्णुरूपकध्वनिः ॥ ५ ॥ । [ पा०] १ च. ज. पालितः २ क. च. महावीरौ ३ ग. घ. ज. प्रेषितौ ४ घ. पुरुषोत्तमाः
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६
दिखावट