पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तत्र तां पतितां भूमौ शयानामतथोचिताम् || प्रतप्त इव दुःखेन सोपश्यज्जगतीपतिः ॥ २२ ॥ स वृद्धस्तरुणीं भार्या प्राणेभ्योपि गरीयसीम् ॥ अपापः पापसंकल्पां ददर्श धरणीतले ॥ २३ ॥ लतामिंव विनिष्कृत्तां पतितां देवतामिव ॥ किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा २४ ॥ मायामिव परिभ्रष्टां हरिणीमिव संयताम् || करेणुमिव दिग्धेन विद्धां मृगयुना वने ॥ २५ ॥ महागज इवारण्ये स्नेहात्परिमेमर्श ताम् ॥ २६ ॥ ४८ परिभृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ॥ कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥ न तेऽहम भिजानामि क्रोधमात्मनि संश्रितम् || देवि केनाभिशप्ताऽसि केन वाऽसि विमानिता ॥ २८ ॥ यदिदं मम दुःखाय शेषे कल्याणि पांषु ॥ २९ ॥ भूमौ शेषे किमर्थं त्वं मँयि कल्याणचेतसि ॥ भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ ३० ॥ सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥३१॥ कैंस्य वा ते प्रियं कार्य केन वा विप्रियं कृतम् ॥ कः प्रियं लभतामद्य को वा सुमहदप्रियम् ||३२|| मा रोदीर्मा च कार्षीस्त्वं देवि संपरिशोषणम् || अवध्यो वध्यतां को वा को वौ वध्यो विमुच्यताम् ३३ दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाऽप्यकिंचनः ॥ अहं चैव मदीयाश्च सर्वे तव वशानुगाः ॥ ३४ ॥ न ते किंचिदभिप्रायं व्याहन्तुमहमुत्सहे || आत्मनो जीवितेनापि ब्रूहि अॅन्मनसेच्छसि ॥ ३५ ॥ मातुः निइन्द्रियांणियस्यसतथोक्तः ॥ २१ ॥ अतथोचितां | चेतनः अभितः सम्यक् त्रस्ताचेतना बुद्धिर्यस्य | किम- भूमिशयन हो २२ ॥ रामाभिषेकसंरंभेसपत्नी- र्थेच्छु: उतरोगग्रस्ता उतक्रुद्धेतित्रासः । कमलपत्राक्षी- क्रोधस्तन्निमित्तइतिकुतोराजानज्ञातवानित्यत्राह मितिकामित्वद्योतनं ॥ २६-२७ ॥ आत्मनि त्वयि । - सइति । अकुटिलत्वात्व्यामोहाच्चनज्ञातवानिति - मयिवा | अभिशप्ता परुषिता ॥ २८ ॥ पांसुषुशेषइ- भावः ॥ २३ ॥ तद्दर्शनस्यदुस्सहत्वमाह - लतामि- तियत्इदंममदुःखायेतिसंबन्धः ॥ २९ ॥ भूतोपहत- वेति । पतितां भूगतां । निर्धूतां | धूप | व्या- | चित्तेव पिशाचग्रस्तचित्तेव ॥ ३० ॥ रोगपक्षंपरिहरति कुलितामितियावत् । च्युतां दिवइतिशेषः ॥ २४ ॥ -सन्तीत्यादि । अभिष्टाः दानमानादिभिः ।। ३१ ।। वामीविपरिभ्रष्टामित्यपिपाठः । वामीं बडवां “वाम्य- क्रोधपक्षेपरिहारमाह- कस्यवेति । कस्येति तृतीया- श्वाबडबा" इत्यमरः । संयतां वागुरयावद्धां | दिग्धेन षष्ठी | केनवातेप्रियंकृतमित्यर्थः । प्रियाप्रियकारि- "विषलिप्तंबाणेन । “विषाक्तेदिग्धलिप्तकौ" इत्यमरः । णोः फलमाह – कःप्रियमिति ॥ ३२ ॥ मारोदी: रोद- मृगयुना व्याधेन । सम्यग्भूगतत्वाश्चर्यावहत्वदयनी नंमाकार्षीः । संपरिशोषणं कायक्लेशं ॥ ३३ ॥ अर्थे- दर्शनीयत्वविलुलितवर्णत्वनिश्चेष्टत्वसंतापावहत्वा- च्छापक्षंपरिहरति — अहमिति ॥ ३४ ॥ ममजीव- नि क्रमाल्लताद्यौपम्येनलभ्यते ॥ २५ ॥ अभिसंत्रस्त - नेनापिहेतुना त्वत्प्रियं व्याहन्तुंनोत्सहे त्वत्प्रियार्थ विषयकातीच्छया संयुक्तः । अतएवरत्यथीं राज्ञीप्रीतिप्रयोजनः ॥ १७ ॥ शि० पापसंकल्पां पापाय पापिराक्षसविनाशाय संकल्पोयस्यास्तां ॥ २३ ॥ स० महागजइति करेणुमित्यनुषज्यते ॥ २६ ॥ ति० मारौत्सीः । आत्मनोऽभिप्रायंरुद्धंगुप्तंमाका- षरित्यर्थः ॥ ३३ ॥ [ पा० ] १ ख मालामिवपरिभ्रष्टां. २ ग. ङ. छ. झ. परमदुःखितां. ३ छ. झ. परिमृज्यच. ४ क. ग. ङ- झ. केनाभियुक्तासि ५ ञ. केनवास्यवमानिता. ६ छ. यदीदं. क. यदीह. ७ ग. ज. मयिकल्याणिजीवति. ८ छ. झ. कस्यवा- पिप्रियंकार्य ख. कस्यवाविप्रियंकार्य. ९ क. ङ. च. छ. झ. मारौत्सीर्माचकर्षीस्त्वं. १० ख. देविमेपरिशोषणं. ११ ख. ग. ङ. च. छ. झ. ञ. ट. वध्यःकोवाविमुच्यताम्. क. वध्यःकोत्रविमुच्यताम्. १२ क. ग. ङ. च. छ. झ ञ ट कोभवेदाढ्यः. १३ क. ज. न्कोप्यकिंचनः १४ ङ. छ. झ ट यन्मनसिस्थितम् च. ञ, यन्मनसीच्छसि.