पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । गतोदके सेतुबन्धो न कल्याणि विधीयते ॥ उत्तिष्ठ कुरु केल्याणि राजानमनुदर्शय ॥ ५४ ।। तथा प्रोत्साहिता देवी गत्वा मन्थरया सह || क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ५५ ॥ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना || अवमुच्य वैरार्हाणि शुभान्याभरणानि च ॥ ५६ ॥ तैंतो हेमोपमा तत्र कुब्जावाक्यवशं गता || संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ ५७ ॥ ईंह वा मां मृतां कुब्जे नृपायावेदयिष्यसि ॥ वैनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ५८ ॥ न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ॥ एप मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ५९ ॥ अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः ॥ उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ॥ ६० ॥ प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे || अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ ६१ ॥ तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः ॥ निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुंपिता पुनःपुनः ॥ ६२ ॥ यमस्य वा मां विषयं गतामितो निशाम्यँ कुब्जे प्रतिवेदयिष्यसि || वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ।। ६३ ।। अहं हि नैवास्तरणानि न स्रजो नैं चन्दनं नाञ्जनपानभोजनम् ।। न किंचिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ॥ ६४ ॥ अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी ॥ असंवृतामास्तरणेन मेदिनीं तदाऽधिशिश्ये पतितेव किन्नरी ॥ ६५ ॥ ४५ ध्यसि करिष्यसि । ओदनपाकंपचतीतिवन्निर्देश: | ॥ ५८ – ५९ ॥ कैकेयीनिश्चयंद्रढयति — अथोइति । ।। ५१–५३ ।। हेकल्याणि कुरु मदुक्तप्रकारमिति राममुपेत्य राममुद्दिश्य || ६०-६१ ॥ अतिविद्धा शेषः । राजानमनुदर्शय क्रोधागारमितिशेषः । यद्वा अतिदुःखिता । निधायहस्तौहृदयइतिविस्मयाभिनयः। अनुदर्शय प्रतीक्षस्वेत्यर्थः ॥ ५४ ॥ तथाप्रोत्साहि- अतिविस्मिता अतिस्निग्धः कथंमदनिष्टंकरिष्यतीति । तेत्यादिश्लोकत्रयमेकान्वयं । अनेकशतसाहस्रं बहुमू- कुपिता रामाभिषेकप्रवर्तकंभर्तारमुद्दिश्यकुपितेत्यर्थः ल्यमितियावत् । “शतमानविंशतिक" इत्यादिना - || ६२–६३ || इतोगच्छतीतिवर्तमानसामीप्येलट् क्रीतार्थेऽण् ॥ ५५ – ५७ ॥ नृपाय मदुपेक्षकाय | ॥ ६४ || मेदिनीमधिशिश्ये । अधिशीस्थासांक- 66 शि० कल्याणं | सज्जनानामित्यर्थः ॥ ५४ ॥ शि० सौभाग्यमदगर्विता । सौभाग्यस्य अहोभाग्यमस्माकंयस्यादेवसंताप- हारकाःरामादयः पुत्राइतिखातिशयभाग्यवत्तायाः मदेनगर्विता । किंच | सौभाग्यैः शोभनभाग्यवद्भिर्मन्यतेऽतिश्रेष्ठत्वेनज्ञाय- तेऽसावितिसौभाग्यमत् सैवागर्वितेतिकर्मधारयः ॥ ५५ ॥ ति० निशाम्य दृष्ट्वा । प्रतिवेदयिष्यसि दशरथायेतिशेषः ॥ ६३ ॥ ति० पुण्यक्षयाद्भूमौंपतिताकिन्नरीव ॥ ६५ ॥ इतिनवमस्सर्गः ॥ ९ ॥ [ पा० ] १ ग. ङ. छ. झ ञ ट कुरुकल्याणं. २ ख. घ. महार्हाणि ३ ङ. च. झ ञ ट तदाहेमोपमा ४ घ इहमांचमृतांकुब्जे. ५ ख ग घ. वनंवाराघवे. ६ ङ. झ ट प्राप्स्यतेक्षितिम्. ७ क. नचरत्नैर्नभोजनैः. ख. ग. घ. च. छ. झ. ञ. ट. नरत्नर्नचभोजनैः ८ ग. ङ. छ. झ ञ ट ततोहिकल्याणि ९ घ. तदातिवृद्धा. ज. यथातिविद्धा. १० ङ. छ. झ, ञ, महिषीतिकुब्जया. ११ ग. घ. ङ. ज. समाहिता १२ क. रुषिता. ख. कुपितां. १३ ख. घ - छ. झ. न. ट. निशम्यकुब्जे १४ घ. विलेपननाअनपान १५ झ ठ. असंस्कृतामास्तरणेन.