श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ उरस्ते ऽभिनिविष्टं वै यावत्स्कंन्धात्समुन्नतम् || अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ॥४१॥ परिपूर्ण तु जघनं सुपीनौ च पयोधरौ || विमलेन्दुसमं वक्रमहो राजसि मन्थरे ॥ ४२ ॥ जघनं तव निर्घुष्टं रशनादौमशोभितम् ॥ जङ्गे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥ ४३ ॥ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ॥ अग्रतो मम गच्छन्ती राजहंसीव राजसे ॥ ४४ ॥ आसन्याश्शंबरे मायाः सहस्रमसुराधिपे || सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ॥ ४५ ॥ 'तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् || मतयः क्षत्रविद्याथ मायाश्चात्र वैसन्ति ते ॥ ४६ ॥ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् || अभिषिक्ते च भरते राघवे च वनं गते ॥ ४७॥ जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे || लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥ ४८ ॥ मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥ ४९ ॥ परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ ५० ॥ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना || गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् ॥ ५१ ॥ तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ॥ पादौ परिचरिष्यन्ति यथैव त्वं सदा मम || ५२|| इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ॥ शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ।। ५३ ।। È । शाः ॥ ४० ।। तेउरः अभिनिविष्टं अभिनिवेशवत्सत् | मतेर्बाहुल्यं । क्षत्रविद्या: राजनीतयः । माया: विचि- स्कन्धाभ्यांस्पर्धमान॑सत् । यावत्स्कन्धात् स्कन्धपर्यन्तं | कुत्सितशक्तयः । अत्र स्थगुनि ॥ ४६-४७॥ समुन्नतमित्युत्प्रेक्षा । अधस्तात् उरसोधस्तात् । स्थितं सु उत्तमस्वर्णजातौभवंजात्यं । दिगादित्वाद्यत् । सुनिष्टप्लेन नाभं शोभननाभि । योगविभागादच् । उदरं उरस: सुद्रुतेन | सुवर्णेनलेपयिष्यामि सुवर्णक चुकेनालंकरि- सजातीयस्यउन्नतिंदृष्ट्वालज्जितमिव शातं कृशं ॥४१॥ ष्यामीत्यर्थः । यद्वा चन्दनसंघृष्टसुवर्णेन सहलेपयिष्या- परिपूर्ण पृथुलं ॥ ४२ ॥ उपन्यस्ते संश्लिष्टे | सुसन्नि- मीत्यर्थः । प्रतीता संतुष्टा ॥ ४८ ॥ जातरूपमयं वेशेवा । आयतौ दीर्घौ ॥ ४३ ॥ सक्थिभ्यां ऊरु- सुवर्णमयं । चित्रं नानारत्नखचिततयानानावर्ण | भ्यां । " सक्थिलीबेपुमानूरु: " इत्यमरः । उपल- तिलकं तिलकाकारंभूषणं ।। ४९-५० ।। आह्वयमा - क्षणेतृतीया ॥ ४४ ॥ अन्या: लौकिक्योमायाः नेन स्पर्धमानेन । “स्पर्धायामाङ” इत्यात्मनेपदं । मुखे ॥ ४५ ॥ स्थगु उरोनिस्सृतोन्नतविकृतावयवविशेष: । नहेतुना अप्रतिमानना अप्रतिद्वन्द्वमुखी । द्विषज्जनं रथघोणं नासिकाकाररथावयवविशेषः । “स्मृति- मत्सपत्नीजनंप्रति । गर्वयन्ती गर्वकुर्वन्ती । गर्वशब्दात् र्व्यतीत विषयामतिरागामिगोचरा | बुद्धिस्तात्कालि- “तत्करोति " इतिण्यन्ताच्छत्रादि । स्वार्थेणिजित्येके । की ज्ञेयाप्रज्ञात्रैकालिकीमता " इत्युक्तविषयविभागेन | मुख्यां तृणीकृतसर्वजनां । गतिं पादन्यासविशेषं। गमि- मध्यधीनत्वंव्यक्तं । तेनास्मिन्विषयेराज्ञोनापराधइतिसूचितम् । तेनत्वद्बोधनमन्तराइदंमज्ज्ञानविषयीभूतं न स्यादितिव्यजितं । तेन त्वत्सदृशीमत्प्रियाऽन्यानास्तीतिबोधितम् ॥ ४० ॥ ति० अधस्ताच्चैव संशातमितिपाठे सुनाभशब्देनोदरमुच्यते । ति० या. वत्संस्थानमुन्नत मितिपाठे स्तनावधिसमस्थानरूपसर्वसाधारणसंस्थानंयावत्समुन्नतं । एतेनस्थगुमत्कुब्जप्रतिपादितम् ॥ ४१ ॥ ति० निर्मृष्टं रोमादिकश्मलहीनं । निर्घुष्टमितिपाढे रशनास्थक्षुद्रघण्टाभिश्शब्दायमानं ॥ ४३ ॥ कत० सक्थिनी पृष्ठफलके ॥ ४४ ॥ [ पा० ] १ क. स्कन्धंसमुन्नतं. २ घ. ङ. ज - ट. दरंशान्तं. ३ क – घ. च. अ. परिपूर्णच. घ. ङ. छ, ज. ट. प्रतिपू- र्णेच. ४ क— ङ. छ. ज. झ. ट. निर्मृष्टं. ५ ङ. च. छ. झ ञ ट . दामभूषितम् ६ ङ. छ. झ. अ. ट. चव्यायतावुभौ ७ घ पादाभ्यां. ८ ङ. छ. झ. ढ. राजसेऽतीवशोभने ९ ङ. छ. झ. ट. हृदयेतेनिविष्टास्ताः १० क. भूयस्यस्ता : ११ इदमर्ध क. च. पुस्तकयोः मतयःक्षत्र विद्याश्चेत्यर्धात्परंदृश्यते १२ छ. वसन्तिहि १३ ख. ङ च छ. झ ञ ट तेऽहंप्रमोक्ष्यामि १४ क - ट. सुनिष्टप्ते नसुन्दरि. १५ ख. ङ. छ. झ. ट. गर्वयन्तीद्विषजने. च. ञ. गर्हयन्तीद्विषज्जने. क. घ. गर्हयन्तीद्विषजनम्, १६ क. च. ञ. प्रशस्यमानासाकुब्जा. 2
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४८
दिखावट