पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ९] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृ॑तम् । यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ॥ व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २९ ॥ रामं प्रजयारण्ये नव वर्षाणि पञ्च च ॥ भरतः क्रियतां रोजा पृथिव्याः पार्थिवर्षभः ॥ ३० ॥ चतुर्दश हि वर्षाणि रामे प्रत्राजिते वनम् ॥ रूढच कृतमूलच शेषं स्थास्यति ते सुतः ॥ ३१ ॥ रामप्रत्राजनं चैव देवि याचस्व तं वरम् ॥ एवं सिध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥ ३२ ॥ एवं प्रत्राजितश्चैव रामोऽरामो भविष्यति ॥ भरतश्च हतामित्रस्तव राजा भविष्यति ॥ ३३ ॥ येन कालेन रामश्र वनात्प्रत्यागमिष्यति ॥ तेनँ कालेन पुत्रस्ते कृतम्लो भविष्यति ॥ संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ॥ ३४ ॥ प्राप्तकालं तु ते मन्ये राजानं बीतसाध्वसा ॥ रामाभिषेक संभारात्रिगृह्यविनिवर्तय ॥ ३५ ॥ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया || हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥ ३६ ॥ सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता | कैकेयी विस्मयं प्राप्ता परं परमदर्शना || ३७ ॥ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ॥ पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥३८॥ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥ नाई समवबुध्येयं कुब्जे राज्ञविकीर्षितम् ॥ ३९ ॥ सन्ति दुस्संस्थिताः कुब्जा वक्राः परमपापिकाः ॥ त्वं पद्ममिव वातेन संनता प्रियदर्शना ॥ ४० ॥ त्यर्थः । राज्ञःसत्यप्रतिज्ञत्वादितिभावः ||२८|| राघवः | तुः – आत्मवानिति ॥ ३४ ॥ प्राप्तकालं अभिमतप्रा- दशरथ: । व्यवस्थाप्य सत्येस्थापयित्वा ॥२९ – ३०॥ र्थनोचितकालं । वीतसाध्वसा विगतभया । अमुकालं रूढ; प्रसिद्धः अभिवृद्धोवा | कृतमूल : स्ववशीकृत- | प्राप्तकालंमन्ये । तेनविनिवर्तयेतिसंबन्धः ॥ ३५ ॥ मूलबलइत्यर्थ: । शेषं चतुर्दशवर्षव्यतिरिक्तंपुरुषायुष- अनर्थ विरुद्धार्थ । अर्थरूपेण अनुकूलार्थरूपेण प्रा- शेषं ॥ ३१ ॥ रामप्रव्राजनंचेतिचकारेण भरताभि- हिता बोधिता । तथैवप्रतीता ज्ञातवती । अतएवदृष्टा षेक: समुच्चीयते ॥ ३२ ॥ रामोरामइत्यत्र अरामइ ॥ ३६॥ सेति । प्रतीतेत्यस्योपपादनमेसत् । किशो तिपदच्छेदः । अरामोभविष्यति इदानीमेवप्रकृति- री बडवा । उत्पथं अमार्ग | परमदर्शना पुरेतिशेषः स्नेहपात्रंनभविष्यतीत्यर्थः । यद्वा रामोभविष्यति ॥ ३७ ॥ नाभिजानामीति । एतावत्कालमितिशेषः । एकएवभविष्यतीत्यर्थः ॥ ३३ ॥ कृतमूल: रूढमूलः | पृथिव्यांयावत्यः कुब्जाः सन्ति तासांसर्वासांमध्ये त्वमु- कृतमूलइत्यस्यैवविवरणं संगृहीतेत्यर्धेसंगृहीतमनुष्य- त्तमा बुद्धिनिश्चये विषये । अनेन कुब्जानांप्रायेण श्वेत्यत्र भविष्यतीत्यनुषज्यते । संगृहीताः अनुरञ्जि- बुद्धितैक्ष्ण्यमस्तीति धोतितम् ॥ ३८ ॥ समवबुध्येय- ता: मनुष्याः पौरजानपदाः येन सतथोक्तः । तत्र - मिति शकिलिङ् ॥ ३९ ॥ दुस्संस्थिताः दुस्सन्निवे- ती० रमयत्यानन्दयतीतिरामः । मुनीनामितिशेषः ॥ ३३ ॥ ति० नसमवबुद्धध्येयं त्वत्कृतबोधनाभावेइतिशेषः । चिकीर्षितं रामाभिषेकायभरतस्य विवासनादि । कैकेय्याएवंमतिकारणंक्कचित्पठ्यते । “नहित दुबुधेपार्पशापदोषेणमोहिता । केकयेषुहिसा- बाल्येब्राह्मणंरूक्षरूपिणम् । असूयितवतीबाला तेनशप्ता महात्मना । यस्मादसूय सेविप्रत्वंरूपमददर्पिता । तस्मादसूयांत्वमपिलो- केप्राप्स्यसिकुत्सिताम् । इतिशापसमाच्छन्नामन्थरावशमागता” इति । असूयां असूयाविषयताम् ॥ ३९ ॥ ति० अथकु- ब्जांकुब्जान्तरवैलक्षण्येनस्तौति — सन्तीत्यादि । त्वद्व्यतिरिक्ताइतिशेषः । दुस्संस्थिताः दुस्संस्थावयवसंनिवेशाः । अतए - वपरमपापिकाः परमपापदर्शनाः । शि० अवकाः कौटिल्यरहिताः । किंच। अवे प्रजापालने ऋः कृतिर्येषां । अतएवपरं केवलं । अपापिकाः नपापि कर्मयेषांतेऽपि । मन्त्रिणइति शेषः । दुस्संस्थिताः अविज्ञाताभिप्रायाः सन्ति । एतेनराज्ञो- [पा० ] १ ङ. रामप्रव्राजनंदूरं. छ. झ. रामप्रव्रजनंदूरं. २ च. ज. राज्यं. ३ क. ङ. च. छ. झ. पृथिव्यां ४ ख. तेवरम्. ५ क – छ. झ ञ ट एवंसेत्स्यन्तिपुत्रस्य ज. एवंलप्स्यन्तिपुत्रस्य ६ ङ च छ. झ ञ ट कामिनि. ७ छ. झ. अन्तर्बहिश्चपुत्रस्ते. ८ ङ. छ. झ. ट. साकमात्मवान्. ९ झ. प्राप्तकालंनुमन्येऽहं. ङ. ट. प्राप्तकालंतुमन्ये. घ. प्राप्तकालं तुतंमन्ये. १० क - छ. झ ञ ट संकल्पान्निगृह्य ११ ङ. छ. झ ट प्राप्य १२ ख. ज. कुब्जेत्यांनावजानामि ङ. छ. झ. प्रज्ञांतेनावजानामिश्रेष्ठश्रेष्ठाभिधायिनि १३ ङ. छ. झ. ट. दुस्संस्थिताः कुब्जे. १४ ग. घ. ज. परमदारुणा: