श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तत्राकरोन्महद्युद्धं राजा दशरथस्तदा || असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ १५ ॥ अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ॥ तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ १६ ॥ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ॥ १७ ॥ स त्वयोक्तः पतिर्देवि यैदेच्छेयं तैदा वरौ ॥ गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना ॥ १८ ॥ अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥ कथैषा तव तु स्नेहान्मनसा धार्यते मया ॥ १९ ॥ रामाभिषेकसभारानिगृह्य च निवर्तय ॥ तौ वरौ याच भर्तारं भरतस्याभिषेचनम् || ४२ मंत्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥ २० ॥ चतुर्दश हि वर्षाणि रामे प्रत्राजिते वनम् ॥ प्रजाभावगतस्त्रेहः स्थिरः पुत्रो भविष्यति ॥ २१ ॥ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते ॥ शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ २२ ॥ मा मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ॥ रुंदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ||२३|| दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ॥ त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ २४ ॥ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ॥ तव प्रियार्थी राजा हि प्राणानपि परित्यजेत् ॥ २५॥ नैं ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ॥ मन्दस्वभावे बुद्ध्यख सौभाग्यबलमात्मनः ॥ २६ ॥ 'मँणिमुक्तं सुवर्णानि रत्नानि विविधानि च ॥ दद्याद्दशरथो राजा मा म तेषु मनः कृथाः ||२७|| "यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् ॥ तौ स्मारय महाभागे सोर्थो में त्वामतिक्रमेत् ॥२८॥ सुराः ।।१४।। तत्र प्रसुप्तप्रदेशे | तदा रात्रौ ॥ १५ ॥ | ॥ २१ ॥ एवमुपायमुपदिश्य उपायप्रवर्तनप्रकारमाह हेदेवि नष्टचेतनः मूच्छितः तेपति: त्वया सारथ्यंकुर्वा- |- क्रोधेति । प्रणयकलहादिनाक्रुद्धाःस्त्रियोयत्रवस - णयासंग्रामात् अपवाह्य अन्यत्रनीत्वा रक्षितः शीतो- न्तितत्क्रोधागारं । अनन्तर्हितायां अनास्तृतायां ॥२२॥ पचारैराप्यायितः । तत्र यंत्रापवाहितस्तस्मिन्स्थले । श- तंदृष्ट्वा रुदन्ती शोकलालसाचसती एनंमाप्रत्युदीक्षेथाः • स्वैर्विक्षतः पुनर्युद्धेशस्त्रैः विक्षतःसन् त्वयारक्षितः । ततो- माचैनमभिभाषथाइत्यन्वयः । जगत्यां भूमौ । शया- पवारक्षितइतियोजना ॥ १६ ॥ तुष्टेनेत्यर्धमेकंवा- नेतिशेषः ॥ २३ ॥ एवंकरणेझटितिकार्यसिद्धिर्भविष्य- क्यं । द्विधारक्षणात् द्वौवरौदत्तावितिभावः ॥ १७ ॥ तीत्याह – दयितेति । अत्र दयितत्वविषये । त्वत्कृते इच्छेयमित्यर्हार्थेलिङ् । तेन दशरथेन । तत् वरं तथा त्वत्प्रीतिनिमित्तं ॥ २४–२५ ॥ मन्दस्वभावे अल- इच्छयाददानीत्युक्तं ।। १८ ॥ कथमिदंत्वयाज्ञातमि- सस्वभावे । सौभाग्यबलं सौन्दर्यबलं ॥ २६ ॥ वर- त्यत्राह — अनभिज्ञेति ॥ १९॥ रामाभिषेकेइत्यादिसा- दानव्यतिरिक्तंमण्यादिकंचनस्वीकुर्वित्याह-मणीति । र्धश्लोकएकान्वयः । निगृह्य बलात्कृत्य । भर्तारमि- मणयःरत्नानिमुक्ताश्चेत्येकवद्भावः । मणिमुक्तं । रत्नानि तिशेषः । रामप्रव्राजनभरताभिषेचनरूपौ तौवरौ श्रेष्ठवस्तूमि । “रत्नंस्खजातिश्रेष्ठेपि” इत्यमरः ॥ २७ ॥ याचस्व ॥ २० ॥ चतुर्दशसङ्ख्याकिमर्थेत्यत्राह – चतु- यौतावितियत्तच्छन्दप्रयोगःप्रसिद्ध्यतिशयद्योतनार्थः । देशेति । प्रजाभावगतस्नेह : प्रजानां भावंअभिप्रायं तौस्मारय दातव्यत्वेनेतिशेष: । सोर्थ : रामविवास- गतःप्राप्तः स्नेहोयस्यसतथोक्तः । स्थिरः अप्रकंप्यः | नभरताभिषेकरूपार्थः । मातिक्रमेत् सर्वथासिध्यत्येवे- [ पा० ] १ क. ख..च. ञ. दत्तौतु. २ ङ. छ. झ. ट. यदिच्छेयं. ३ क. ख. ङ. ज. झ. ट. तदावरम्. ४ ङ. छ. झ. ट. गृह्णींयांतुतदाभर्तस्तथेत्युक्तं. क. ग. गृह्णीयामितितत्वेन. घ. गृहीष्यामीतितत्वेन. ५ ख अनभिज्ञास्म्यहं. ६ ग. छ. ज. झ. कथितं- पुरा. ७ ट. मनसैवावधार्यते. ८ क. ख. घ - ट. विनिवर्तय. ९ छ. झ. तौचयाचख. ङ. वरौयाचख. १० क — ङ. ज. झ. ट. प्रब्राजनंच. ११ ङ. छ. झ. वर्षाणिचचतुर्दश. १२ ट. तायांवै. १३ ङ. छ. झ. ट. रुदन्तीपार्थिवं. ग. रुदन्तीचाथतं. १४ ग. .ङ-ट. त्वत्कृतेच. १५ ङ. च. छ. झ. ञ. द. राजातु. १६ ज. नव्यतिक्रमितुं. १७ ङ. च. छ. ञ. ट. मणिरत्नंसुवर्णच. क. मणिमुक्तंसुवर्णेच. ग. घ. ज. झ. मणिमुक्तासुवर्णानि ख. मणिमुक्तासुवर्णेच. १८ ग. ज. ट. यौतेदेवासुरे. १९ ङ. छ. झ. ञ. रथोददौ. च. रथोऽददत् २० झ. नत्वाकमेदिति ङ. मातिकमेदिति घ. मालामभिकमेतू.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४६
दिखावट