४३२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ मया दत्तमिदं सीते तव गात्राणि शोभयेत् || अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ १९ ॥ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ॥ शोभयिष्यसि भर्तारं यथा श्रीविष्णुमव्ययम् ॥ २० ॥ सा वस्त्रमङ्गरागं च भूषणानि सजस्तथा ॥ मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २१ ॥ प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी ॥ श्लिष्टाञ्जलिपुटा तंत्र समुपास्त तपोधनाम् ॥ २२ ॥ तथा सीतामुपासीनामनसूया दृढव्रता || वचनं प्रष्टुमारेभे कांचित्प्रियकथामनु ॥ २३ ॥ स्वयंवरे किल प्राप्ता त्वमनेन यशखिना || राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २४ ॥ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि || यथाऽनुभूतं कात्स्ये॑न तेन्मे त्वं वक्तुमर्हसि ॥२५॥ एवमुक्ता तु सी सीता ती ततो धर्मचारिणीम् ॥ श्रूयतामिति चोका वै कथयामास मिथिलाधिपतिवरो जनको नाम धर्मवित् । क्षेत्रधर्मेह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २७ ॥ तस्य लाङ्गलहस्तस्य कॅर्षतः क्षेत्रमण्डलम् || अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २८ ॥ स मां हैंष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः || पांसुकुण्ठितसर्वाङ्गी जैनको विसितोड भवत् ॥ २९ ॥ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् || मैंमेयं तनयेत्युक्ता स्नेहो मयि निपातितः ॥ ३० ॥ अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल ॥ एवमेतन्नरपते धर्मेण तनथा तव ॥ ३१ ॥ ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ॥ अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥३२॥ कथाम् २६ L मुखपरिमलमिलितं ॥ १८ ॥ अनुरूपं त्वद्गात्रानुरूपं । | यागोपयोगिक्षेत्रं चयनस्थानमित्यर्थः ॥ २८ ॥ मुष्टि असंक्लिष्टं अबाधितशोभमित्यर्थः । भर्तारंशोभयिष्य- विक्षेपतत्परः । “याजाताओषधयः इतिचतुर्दशभि- सीत्यन्ते इत्यब्रवीच्चेत्यध्याहारः | सा अनसूया | रोषधीर्वपति" इत्युक्तप्रकारेण ओषधिमुष्टिविकिरण- प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेतिसंबन्धः ॥१९ तत्परः ॥ २९ ॥ अनपत्येनचतेन स्नेहान्मामङ्कमारो- —२२ ।। प्रियकथामनु प्रियांकथामुद्दिश्यसीतांप्रष्टुं - प्य इयंममतनये तिचोक्त्वास्नेहोमयिनिपातितः । अङ्कं वचनमारेभे वचनंवक्तुमारेभेइत्यर्थः ॥ २३ ॥ श्रुति- उत्सङ्गं ॥ ३० ॥ माप्रति मामुद्दिश्य । एवमेतन्नरपते मुपागता श्रुतिपथंप्राप्ता ॥ २४ – २७ ॥ कर्षतः | धर्मेणतनयातवेति अन्तरिक्षे अमानुषीवागुक्ता । यद्वा “षगवेन कृषति" इतिश्रुत्या शोधनं कुर्वतः । क्षेत्रमंडलं | वागुक्ताप्रतिमेत्यत्र अप्रतिमेतिच्छित्वा वाग्विशेष- दिव्यगन्धद्रव्यकल्पमित्यर्थइत्याह | इदमेवचयुक्तं ॥ १८ ॥ ति० शोभयेत् शोभयिष्यति । अनुरूपं त्वदेकोचितं । नित्यमेवा- संक्लिष्टं उपभोगेप्यशुचित्वमृदितत्वादिदोषरहितंभविष्यति ॥ १९ ॥ ति० शोभयिष्यसीत्यनेन त्वत्पूजयाभर्तुरपिपूजाकृतेतिसू- चितं | शि० किंच श्रीः लक्ष्मीस्त्वं अव्ययं विकारशून्यं विष्णुं स्वप्रकाशद्वारासर्वत्रपूर्ण भर्तारं स्वपतिं यथा यथावत् शोभयि- ध्यसि ॥ स० श्रीः मूलरूपा ॥ २० ॥ ति० क्षत्रियात्वात्प्रतिग्रहानधिका रेणप्रीतिदानमित्युक्तं । लक्ष्म्युद्देशेनब्राह्मणादिभ्यो दत्तमक्षयंचेत्साक्षाह्रक्ष्म्यैप्रीत्यादत्तं तथेतिकिंवक्तव्यमितिदेव्यैतद्दानमनसूयायाइदिबोध्यं ॥ २१ ॥ कतक मुष्टिविक्षेपतत्परः निम्नोन्नतसमीकरणायमृत्तिकामुष्टिविक्षेपतत्परः ॥ २९ ॥ शि० अनपत्येन अपत्यान्तररहितेन । अंकमारोप्य मामितिशेषः ॥ ३० ॥ ति० प्रतिमामानुषी प्रतिमयास्वरूपेणमानुषी मनुष्यवाक्यतुल्यावागन्तरिक्षेउक्ता | तांवाचमाह - एवमिति | एतत् ममेयंतनयेत्येतत् । एवं अर्थवदेव । यतोहेनरपतेधर्मेणन्यायेनएषा त्वत्क्षेत्रजातत्वात्तवतनयैव । शि० अप्रतिमा उच्चा- रयितृस्वरूपरहिता । अमानुषी मानुषवाक्सदृशी | वाकूउक्ता प्रादुर्भूता ॥ ३१ ॥ ति० मामवाप्य यज्ञभूमेरितिशेषः । [ पा० ] १ घ. अनुरूपंतुसंश्लिष्टं. २ क. – ङ. – छ. – ट. धीरा. ३ ग. समुपास्ते ४ च. ञ. तपस्विनीं. ५ क. – ट. कथांकांचिदनुप्रियां. ६ च. ज. यशस्विनी. ७ घ. विस्तरेणतु. क. विस्तरेणैव. ८ ङ. छ. झ. ट. यथाभूतंच. ९ क. तन्मे- वक्तं॒त्वमर्हसि. ख. तथामेवक्तुमर्हसि. १० च. न. तांसीता. ११ ङ. च. छ. झ ञ ट तापसींधर्म, ख. तांतथाधर्म. १२ ख. चोक्त्वाथ. १३ घ. मिथिलायाः पतिः १४ ग. ङ. च. झ ञ ट क्षत्रकर्मण्यभिरतो. १५ क. ग. ङ. ट. कृषतः १६ ख. नरपतिर्दृष्ट्वा. १७ ख. ग. ङ, छ. झ ञ ट विस्मितोजनकोऽभवत् १८ क. ममैव.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३६
दिखावट